________________
२६०
साहित्यदर्पणः ।
[ दशम:
'धन्याः खलु वने वाताः कलारस्पर्शशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारितः ॥ २००॥' अत्र 'वाता धन्याः, अहमधन्य' इति वैधम्र्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवो - भयरूपतया त्रिप्रकारेयम् । तत्र सम्भवे उक्तान्युदाहरणान्येव असम्भवे यथा'कोकिलोsहं भवान् काकः समानः कालिमाssवयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥ २०१ ॥ '
ra araकोकिलयोर्वाकोवाक्यं प्रस्तुताध्यारोपणं विनाऽसम्भवि । उभयरूपत्वे यथा'अन्तरिछद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमळनालस्य मा भूवन् भङ्गुरा गुणाः॥ २०२॥' अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमळनालान्तरिछद्राणां गुणभङ्गुरीकरणे हेतुत्वम
'ये | अनिवारिता अप्रतिषेधिताः सन्तः । इन्दीवरश्याममिन्दीवरं नीलकमलं तद्वत् श्यामस्तम् । रामम् । स्पृशन्ति उपलक्षणेन सेवन्ते । ते कल। रस्पर्शशीतलाः कहाराणां सौगन्धिकानां जलरुहविशेषाणामुपचारात्तत्प्रधानानां जलाशयानां स्पर्शः संयोगस्तेन शीतला इति तथोक्ताः । 'सौगन्धिकं तु कहार' मित्यमरः । वने । वाताः । खलु । धन्याः । दशरथस्योक्तिरियमिति विवृतिकाराः ॥ २०० ॥'
उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
अस्या भेदान्तरं व्यवस्थापयति वाच्यस्येत्यादिना ।
वाच्यस्य वाक्यार्थस्य । सम्भवासम्भवोभयरूपतया सम्भवोऽसम्भव उभयं चेति तानि रूपाणि यस्या - तस्याभावस्तत्ता तया । त्रिप्रकारा । इयम् । तथा च सम्भवद्वाच्याऽसम्भवद्वाच्या सम्भवदसम्भवद्वाच्या चेति त्रिभेदेयमिति निष्कृष्टोऽर्थः । तत्र त्रिषु वाच्यस्य सम्भवादिषु मध्ये । सम्भवे । उक्तानि । उदाहरणानि । एव | असम्भवे 'पुनर्वाच्यस्ये 'ति शेषः । यथा - 'कोकिल इत्यादि ।
'अहम् । कोकिलस्तद्वत् स्वगुणरमणीय इति यावत् । भवान् । काकस्तद्वत् स्वदोषप्रथितः । एवं सत्यपि - भावयोः कोकिलायितकाकायितयोः । कालिमा कृष्णवर्णत्वम्, लक्षणया ( मनुष्यत्वादिना ) समानधर्मत्वमित्यर्थः । समानः । काकलीकोविदाः काकल्या मधुरगिर उपचाराद्भेदकधर्मविशेषस्य कोविदाश्चतुराः । पुनः । अन्तरं भेदम् । कथयिष्यन्ति । कस्यचित् खस्मै स्पर्धमानं प्रत्युक्तिरियम् ॥ २०१ ॥
उदाहरणेऽसम्भवितां निर्दिशति - अत्रेत्यादिना ।
अत्र | काककोकिलयोः । 'अल्पाच्तरम् ।' २|२| ३४ इति काकशब्दस्य पूर्वनिपातः । वाकोवाक्यमुक्तिप्रत्युक्ती । वाक्यं च प्रतिवाक्यं चेत्यनयोः समाहार इति तथोक्तम् । पृषोदरादित्वात् साधु | प्रस्तुताध्यारोपणं प्रस्तुतयोर्धत बोद्धव्ययोरध्यारोपणमभेदाध्यवसानं तत् । विना । असम्भवि, मनुष्ययोर्वं कृबोद्धव्यत्वे काकको किलयोर्वकृबोद्धव्यत्वाभावाच्चमत्काराभावाच्चे 'ति शेषः ।
उभयरूपत्व उदाहर्तुमाह-उभयेत्यादि । स्पष्टम् । 'अन्तरित्यादि ।
कमलनालस्य कमलदण्डस्य । अन्तर्मध्यभागे । भूयांसि सुबहूनि । छिद्राणि रन्ध्राणि । 'छिद्रं विवररन्ध्रवत् । गते दोषे' इति हेमः । बहिरुपरि । बहवः । कण्टकास्तीक्ष्णाग्रा अङ्गविशेषाः । ' कण्टकः क्षुद्रशत्रौ च द्रुमाझे रोम्ण मस्करे ।' इति गोपालः । अतः - कथम् । गुणास्तन्तवः । 'गुणो मौर्व्यामप्रधाने रूपादौ सूत्र इन्द्रिये । त्यागशौर्थ्यादिसत्त्वादिसन्ध्यावृत्तिषु रज्जुषु ॥ शुक्लादावपि बुद्धयां च ।' इति मेदिनी । भङ्कुरा भङ्गशीलाः । मा । भूवन् भवेयुः । कस्यचिद्विपन्नताहेतुं सूचयत उक्तिरियम् ॥ २०२ ॥'
उदाहृतमर्थ समर्थयते-अत्रेत्यादिना ।
अत्रोदाहृते पद्ये । प्रस्तुतस्य दुर्दैवहतकस्य । कस्यचित् । अध्यारोपणमभेदाध्यवसानम् । विना । कमलनालान्तरिछद्राणां कमलदण्डवर्त्तिनां छिद्राणाम् । गुणभङ्गुरीकरणे । हेतुत्वं त्वम् ।