________________
परिच्छेदः । रुचिराख्यया व्याख्यया समेतः ।
२५९ अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः ।
'पुंस्त्वादपि प्रधिचलेन यदि, यद्यधोऽपि यायाद् यदि प्रणयने न महानपि स्यात् ।
अभ्युद्धरेत् तदपि विश्वमितीदृशीय केनापि दिछ प्रकटिता पुरुषोत्तमेन ॥ १९८ ॥' अत्र 'पुरुषोत्तमेने ति पदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्धया प्रथमं विष्णुरेव बोध्यते । तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते । सादृश्यमात्रमूळा यथा
'एकः कपोतपोतः शतशः श्येनाः क्षुधाऽभिधावन्ति ।
भम्बरमावृतिशून्यं हरिहरि शरणं विधेः करुणा ॥ १९९ ॥' अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते । इयं क्वचिद्वैधम्र्येणापि भवति । यथा-- प्रभूतोत्कलिकाकुलः प्रभूताः प्रचुरा या उत्कलिका उद्गताः कलिकास्ताभिराकुलो व्याप्तः प्रभुता योत्कलिकोत्कण्ठा कान्तासम्भोगविषयाऽभिलाषा तयाऽऽकुलः परतन्त्रः । 'उत्कण्ठोत्कलिके समे।' इत्यमरः । सहकार आम्रविशेषः । 'सहकारोऽतिसौरभः ।' इत्यमरः ॥ १९७ ॥'
लक्ष्यार्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । न चेयं समासोक्तिः, नायकप्रतीतावपि तद्व्यवहारारोपानुदयात् ।
'यदि । पुंस्त्वात पुरुषत्वात् । अपि ( असम्भवद्योतकमिदम् )। प्रविचलेत प्रकर्षेण भ्रश्येत् । यदि । अधः । अपि । यायाद्गच्छेत् । यदि । प्रणयने याचने । महान् । अपि । न । स्यात् । तत् । तर्हि-अपि । विश्वम् । अभ्युद्धरेत् । इतीदृशीत्येवम्भूता । केनापि केनचित् । पुरुषोत्तमेन । इयम् । दिक् नीतिः । प्रकटिता । जगदुपकृतये सर्वमपि स्वमहत्त्वं नश्येत्तदपि तथाऽपि न ततो विरज्येतेति भावः । भल्लटशतकस्येदं पद्यम् । वसन्ततिलकं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ १९८॥'
उदाहृतमर्थ निर्दिशति-अन । 'पुरुषोत्तमेने ति पदेन तदभिन्नेन । विशेष्येण। अपि न केवलं 'पुंस्त्वा'दित्यादिना विशेषणेनैवेति भावः । श्लिष्टेन । प्रथमम् । प्रचुरप्रसिद्धया भूरिप्रयोगेणातिप्रसिद्धया वा। विष्णुः । एव । बोध्यते प्रतिपाद्यते । तेन । वर्णनीयः प्रस्तुतः । कश्चित् । पुरुषः । प्रतीयते । इदमुक्तम्-'उत्तमः पुरुषस्त्वन्यः' इत्युक्तदिशोत्तमः पुरुष इति पुरुषोत्तम इति व्युत्पन्नोऽयं 'हरिय॑थैकः पुरुषोत्तमः स्मृतः' इत्यभिजनोक्त्या विष्णुमेवाभिधत्ते, पुरुषेषूत्तम इति पुरुषोत्तम इति व्युत्पन्नोऽयं पुनः शब्दः 'परोपकरणे नित्यं यतन्ते ये नरोत्तमाः'इति पुरुषविशेषम् ; इत्येवमेतस्य श्लिष्टस्य विशेष्यस्य महिम्ना 'पुंस्त्वा'दित्याद्यपि श्लिष्टम् , तथा च-पुंस्त्वात् पुरुषचिह्नवत्त्वादपि प्रविचलेत् स्त्रीत्वमपि गृह्णीयात, अधः पातालमपि गच्छेत् , याच्या लघुत्वमपि भवेत्, किन्तु विश्वं यथातथमुद्धरेत् इति मार्गो मोहिनीरूपं धृतवता पृथ्वीमुद्धत पातालं गतवता देवराज्यसमुन्नतये बलेाच्चायां वामनत्वं प्रकटितवता पुरुषोत्तमेन 'अहमिव जगदुद्धरे'दिति मार्गः प्रकटित इत्यभिहितोऽप्रस्तुतोऽर्थः 'कदाचित् पुरुषत्वात् पौरुषार्थतोऽपि (पौरुषं कुर्वाणोऽपि ) भ्रश्येत् ( हतार्थः स्यात् ) नीचतामपि गच्छेत् याचनया यद्यपि महत्त्वं नश्यति तथाऽपि परोपकारम् 'उदारचारतानां तु वसुधैव कुटुम्बकम् ।' इत्युक्तदिशा कुर्य्यात् इति नीतिः केनापि महनीयेन तथा यतमानेन प्रकटित इति प्रस्तुतमर्थमवगमयति । एनयोश्च समत्वात् समेनाप्रस्तुतेन समः प्रस्तुतोऽर्थो व्यज्यते । इति ।
एवं द्विविधां श्लेषमूलामुदाहृत्य सादृश्यमात्रमूलामुदाहर्तुमाह-सादृश्येत्यादि । स्पष्टम् । 'एक इत्यादि ।
'एकोऽशरणः । कपोतपोतः कपोतशिशुः । 'यानपाने शिशौ पोत'इत्यमरः । शतशः 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।' ५।४।४२ इति शस् । श्येना मांसप्रियाः पक्षिविशेषाः । क्षुधा । अभिधावन्ति । अम्बरमाकाशम् । आवृतिशून्यमावरणशून्यमात्मगोपनाश्रयप्रतिद्वन्द्विभूतम् । हरिहरि कष्टंकष्टम् (इदमव्ययम् ) । विधेः परमात्मनः । करुणा दया। शरणम् । आ-छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १९९॥'
उदाहृतमथै निर्दिशति-अवेत्यादिना।
अत्र । कपोतात् । अप्रस्तुतात् । 'अभिधीयमानादिति शेषः । कश्चित् बहुभिहिौदस्युभिर्वा पीज्यमानः शरणमिच्छुः पुरुष इति भावः । प्रस्तुतः। प्रतीयते व्यञ्जनया बुध्यते । नचेयं समासोक्तिः, अत्राप्रस्तुताप्रतीतेः । अत एव नेयं शिवेरुक्तिारति बोध्यम् ।।
एवं साधये॒णोदाहृत्य वैधये॒णोदाहर्तुमुपक्रमते-इयमित्यादिना । स्पष्टम् । 'धन्या इत्यादि ।