________________
२५८
साहित्यदर्पणः ।
[ दशम:
अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः काय्येभ्यो वदनादिगतसौन्दर्य्यविशेरूपं प्रस्तुतं कारणं प्रतीयते ।
'गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्य्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ॥ १९६ ॥
अत्र कस्यचिदगमनरूपे कार्य्यं कारणमभिहितम् । तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा, श्लेषमूला, सादृश्यमात्रमूला चः श्लेषमूलाऽपि समासोक्तिवद्विशेषणमात्रश्लेषे श्लेषवद्विशेभ्यस्यापि - श्लेषे भवतीति द्विधा । क्रमेण यथा-
'सहकारः खदामोदो वसन्त श्रीसमन्वितः । समुज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः॥ १९७॥' च्छविः श्यामेव सीताया गिरो माधुर्य्यात् पुरस्ताच कोकिलानां कण्ठध्वनिः कर्कश इव, सीतायाः केशच्छवेः पुरस्ताच्च बर्हाणि गर्हितानीव जातानि । इति । महानाटकस्येदं पद्यम्, अत्र शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ १९५ ॥
लक्ष्यार्थं निर्दिशति - अत्रेत्यादि ।
अत्रोदाहृते पद्ये । सम्भाव्यमानेभ्य उत्प्रेक्ष्यमाणेभ्यः । इन्द्रादिगताञ्जनलिप्तत्वादिभ्य आदिपदाभ्य दृष्टया देर्जडितत्वादेश्व ग्रहणम् । काय्यैभ्यः । 'अभिधीयमानेभ्य' इति शेषः । वदनादिगतसौन्दर्य्यविशेषरू पभू | 'सीताया' इति शेषः । प्रस्तुतम् । कारणम् । प्रतीयते ।
'गच्छामि साम्प्रतं गमिष्यामि । ' वर्त्तमानसामीप्ये वर्त्तमानवद्वा । ३ । ३ । १३१ इति लट् । इति । मया । उक्तया । मृगदृशा मृगाक्ष्या । उद्वेकिणं दीर्घम् । निःश्वासम् । त्यक्त्वा । बाष्पकलुषेण बाष्पेणाअनकलुषितेनाश्रुणा कलुषं तेन मलिनं तेन । 'कलुषोऽनच्छ आविल: ।' इत्यमरः । एकेन । चक्षुषा । माम् । तिर्यक् वक्रम् । अवेक्ष्य दृष्टा । अद्य । मदर्पितं मय्यर्पितमिति तत्तथोक्तम् । प्रेम ( कर्म ) । त्वया । प्रियसखीवृन्दे प्रियाः प्रीतिपात्रभूताः सख्योऽनुरागेण गृहीता अन्या अङ्गनास्तासां वृन्दं समूहस्तत्र । बध्यताम् । इत्थate प्रकारेण | स्नेहविवर्धितः स्नेहेन विवर्धितः परिपोषितः । मृगशिशुर्मृगपोतः । सोत्प्रासं साक्षेपम् । आभाषितः । कस्यचित् सखायं प्रति स्वभाविप्रयाणश्रवणदुःखितकुपिताया: खोत्सङ्गस्थ मृगशावकनिराकरणेन खप्रयाणं निषेधन्त्याश्चेष्टितवर्णनमिदम् । अनु शार्दूलविक्रीडितं वृत्तम् ॥ १९६ ॥ '
लक्ष्यार्थ निर्दिशति - अत्रेत्यादिना ।
अत्र । कस्यचित् ( स्वप्रियायाश्चेष्टितं वर्णयतः ) । अगमनरूपे गमनावरोधात्मनि । काय्यें । प्रस्तुते तदनभिधाय' इति शेषः । कारणं प्रेयस्या उद्वेगाधिक्यरूपो हेतुः । अभिहितम् । अय प्रेमे' त्यादिनेति शेषः । तथा - प्रेयस्या उद्वेगाधिक्यरूपादभिहितादप्रस्तुतात् कारणात् प्रेयसो गमनावरोधरूपं प्रस्तुतं कार्य्यं सूचितमिति निष्कृष्टोऽर्थः । समात् समे प्रस्तुतेऽस्या भेदानाह - तुल्ये इत्यादिना ।
तुल्ये समे । प्रस्तुते । तुल्याभिधाने तुल्यस्य समस्य अप्रस्तुतस्याभिधानं तत्र । च । 'अप्रस्तुतप्रशंसे 'ति शेषः । द्विधा । तदेव स्पष्टयति- श्लेषमूला । सादृश्यमात्रमूला । मात्रपदेन श्लेषस्य व्यवच्छेदः । च । श्लेष मूला । अपि । समासोक्तिवत् समासोक्तिरिव । विशेषणमात्रश्लेषे । मात्रपदेन विशेष्यस्य व्यवच्छेदः । 'सम्भवती 'ति शेषः । श्लेषवत् श्लेष इव । विशेषस्य । अपि 'विशेषणस्य चे 'त्यर्थः । श्लेषे । भवति । इति । द्विधा ।
उदाहर्तुमुपक्रमते - क्रमेणेत्यादिना । स्पष्टम् । 'सहकार इत्यादि ।
'सदामोदः सन्नामोदः सौरभमानन्दो वा यस्य तथोक्तः । 'आमोदः सोऽति निर्हारी 'ति '... प्रमोदा मोदसम्मदाः ' इति चामरः । वसन्त श्रीसमन्वितो वसन्तस्य श्री : शोभा वेशरचना वा तया समन्वितो वसन्तशोभाया हेतुत्वेनावस्थितः, वसन्तकालोचितवेशशाली वेति भावः । 'श्रीर्वेश (ष) रचना शोभा भारतीसरलदुमे । लक्ष्म्यां त्रिवर्गस. पत्तौ वेषोपकरणे मतौ ॥' इति विश्वमेदिन्यौ । समुज्वलरुचिः सम्यगुज्ज्वला मनोरमा रुचिदप्तिः सम्यगुज्ज्वले शृङ्गारे रुचिरभिलाषो वा यस्य तथोक्तः । 'उज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीसेऽपीति हैमः । श्रीमान्