________________
२५७
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। अनास्मदपेक्षया रजोऽपि वर मिति विशेष प्रस्तुते सामान्यमभिहितम्। .
___ 'स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । . विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ १९४ ॥' ____ अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः । एवं चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः । दृष्टान्ते प्रख्यातमेव वस्तु प्रतिबिम्बत्वेनोपादीयते, इह तु विषामृतयोरम॑तविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः ।
'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिमंगीणामिव प्रम्लानारुणिमेव विद्रमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलयाच कोकिलवधूकण्ठेष्विव प्रस्तुतं
. सीतायाः पुरतश्च हन्त शिखिनो बर्हाः सगीं इव ॥ १९५॥' लक्ष्यार्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । देहिनस्तद्वरं रजः'इत्यप्रस्तुताभिधान'मस्मदपेक्षया रजोऽपि वर'मिति विशेषस्य प्रस्तुतार्थस्य व्याकम् । इति भावः ।।
यदि । इयम । स्रक माला । जीवितापहा जीवितं प्राणानपहन्तीति तथोक्ता । 'अपे क्लेशतमसोः ।' ३।२।५० इत्यनेन प्रत्ययस्यानुपपत्तरेतादृशप्रयोगाणां च बाहुल्यात् 'पृषोदरादीनि यथोपदिष्टम् ।' ६।३।१०९ इत्यनेन साधुत्वं बोध्यम् । तर्हि-हदये वक्षसि । निहिता मया स्वयं वस्योरसि स्थापितेति भावः । माम् ( अजम्)। किम् । न । 'स्रगिय'मिति शेषः । हन्ति हिनस्ति ? अतो नेयं जीवितापहा, अथ कथमिन्दुमतीमपहतवती ? इत्याशङ्कयाह-ईश्वरेच्छयेश्वरस्य कमिकमन्यथा वा कतै समर्थस्य खतन्त्रतया जगन्नियन्तुरिति यावत् इच्छा तया। विषम । अपि किम्पुनरमृतम् । अमृतम् । क्वचित् । भवेत् । अमृतम् । वा। 'अपी'ति शेषः । विषम्। 'क्वचित् भवेत् इति पूर्वेणान्वेति । रघुवंशे इन्दुमत्या मालास्पर्शमात्रेण प्राणनिर्गमेऽजस्य विलापोऽयम्, अत्र वैतालीयं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ १९४।।
लक्ष्यार्थ निर्दिशन् लक्ष्यं समर्थयते-अत्रेत्यादिना ।.
अत्र । ईश्वरेच्छया । क्वचित (मादृशे)। अहितकारिणः (इन्दुमत्याः प्राणघातकत्वेन मालारूपस्य वस्तुनः)। अपि । हितकारित्वम् (प्राणान् हन्तुमप्रवृत्तत्वम् )। हितकारिणः (मादृशस्य प्राणाघातकस्य)। अपि । अहितकारित्वम् (इन्दुमत्याः प्राणघातकत्वम् ) भवतीति शेषः । इति । सामान्ये । प्रस्तुते विवक्षितेऽपि तदनभिधाय तद्व्यञ्जयितु'मिति शेषः । विशेषोऽमृतविषयोर्विषामृतीभवनम् 1 अभिहितः । एवं पूर्वषाक्यार्थस्योत्तरवाक्यार्थेन समर्थनात् । च । अत्र । अप्रस्तुतप्रशंसामूलः । अर्थान्तरन्यासः। 'अपि ज्ञेय'इति शेषः । मनु अत्र बिम्बप्रतिबिम्बत्वसद्भावेन दृष्टान्त एवायं किन्न स्यादित्याशङ्कयाह-दृष्टान्ते । प्रख्यातं प्रसिद्धम् । एव'नत्वप्रसिद्धम्' इति शेषः । वस्तु । प्रतिबिम्बत्वेन । उपादीयते । इहाप्रस्तुतप्रशंसायाम् । तु। विषामृतयोः। अमृतविषीभावस्य । अप्रसिद्धेः प्रख्यातत्वाभावात् । तस्य दृष्टान्तस्य प्रतिबिम्बत्वसद्भावकल्पनस्य वा । सद्भावः। न ।
'सीताया जानक्याः । पुरतः पुरस्तात् । इन्दुश्चन्द्रः । अञ्जनेन । लिप्तः । इव । 'प्रस्तुत' इति शेषः । मृगीणाम्। दृष्टिः। जडिता स्तब्धा । इव । 'प्रस्तुत'इति शेषः । विद्रमदलं प्रवालपत्रम् । प्रम्लानारुणिम । प्रकर्षेण म्लानो हतश्रीररुणिमा रक्तिमा यस्य तादृशम् । इव । 'प्रस्तुत'इति शेषः । हेमप्रभा वर्णशोभा । श्यामा । इव । 'प्रस्तुत'इति शेषः । कोफिलवधूकण्ठेषु कोकिलानां पिकानां वध्वः तासां कण्ठा ध्वन्युद्भुततास्थानानि तेषु । इव । कलयाऽऽधिक्येन । कार्कश्यं कर्कशत्वम् । च । प्रस्तुतम् । हन्त । शिखिनां मयूराणाम् । बीः पिच्छानि । 'बह पिच्छे दलेऽस्त्रियाम् । इति मेदिनी। अत्र यद्यपि क्लीबलिङ्गतयैव निर्देशो युक्तः, तथाऽपि छन्दोऽनुरोधेन पुल्लिङ्गत्वेन निर्देशो बोध्यः । च । सगहाँ गर्हिताः । इव । 'प्रस्तुता' इति शेषः । इदमुक्तम्-सीताया मुखच्छवेः पुरस्तात् इन्दुच्छविरञ्जनलिप्तेव, सीताया दृष्टिच्छवेः पुरस्ताच्च मृगीणों दृष्टिच्छविश्चित्रितेव, सीताया अधरच्छवेः पुरस्ताच्च विद्रुमदलच्छविः प्रम्लानेव, सीतायाः शरीरच्छवेः पुरस्तात्सुवर्ण
३३