Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 842
________________ [ दशमः २६४ साहित्यदर्पणः। १४३ सामान्यं वा विशेषेण विशेषस्तेन वा यदि ॥ ११४॥ - ___ कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधम्र्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ ११५ ॥ क्रमेणोदाहरणम्--. 'बृहत्सहायः कार्यान्तं क्षोदीयानपिगच्छति।सम्भूयाम्भोधिमभ्येति महानद्या नगापगा।२०८॥ अत्र द्वितीयार्धगतेन विशेषरूपेणार्थेन प्रथमार्धगतः सामान्योऽर्थः सोपपत्तिकः क्रियते। 'यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ २०९॥' 'पृथ्वि ! स्थिरा भव, भुजङ्गम ! धारयैनां, स्वं कूर्मराज ! तदिदं द्वितयं दधीथाः। दिक्कुञ्जराः ! कुरुत तत्रितये दिधीर्षा देवः करोति हरकार्मुकमाततज्यम् ॥ २१० ॥' अर्थान्तरन्यास लक्षयति-१४३ सामान्यमित्यादिना। यदि । विशेषेण व्याप्यधर्मावच्छिन्नेन । सामान्य व्यापकधर्मावच्छिन्नम् । वा ( इदं समुच्चयार्थम् ) । तेन सामान्येन व्यापकधर्मावच्छिन्नेन । वा। विशेषो व्याप्यधर्मावच्छिन्नम्। कारणेन ज्ञापकनिष्पादकेतरसमर्थकरूपेण हेतुना । च । कार्य ज्ञाप्यनिष्पाद्येतरसमर्थ्यरूपं साध्यम् । कार्येण ज्ञाप्यनिष्पाद्येतरसमर्थ्यरूपेण साध्येन । च । इदं कारणं ज्ञापकनिष्पादकेतरसमर्थकरूपो हेतुरिति यावत् । समर्थ्यते। ततस्तर्हि । साधय॑ण साधर्म्यप्रकारकज्ञानेन । अथवा-इतरेण वैधयण वैधयंप्रकारकज्ञानेनेति यावत् । अर्थान्तरन्यासोऽर्थान्तरस्यानुपपद्यमानतया सम्भाव्यमानमर्थ समर्थयितुं तद्भिन्नस्योपपद्यमानतया सम्भाव्यमानस्यार्थस्य न्यासः समर्थकतया निरूपणमिति तथोक्तः। तत्रामाऽलङ्कार इति भावः । अष्टधाऽष्टप्रकारः । अयम्भावः-कमप्यनुपपद्यमानतया सम्भाव्यमानमर्थ समर्थयितुं कस्यचिदुपपद्यमानतया सम्भाव्यमानस्यार्थस्य समर्थकतया न्यासोऽर्थान्तरन्यासः । स च साधम्र्येण वैधयेण चेति द्विविधः । अयमपि प्रतिभेदं चतुर्धा भिद्यमानोऽष्टविधः । तत्र-विशेषेण सामान्यसमर्थनात्मैकः, सामान्येन विशेषसमर्थनात्मा द्वितीयः, कारणेन कार्यसमर्थनात्मा तृतीयः, कार्येण कारणसमर्थनात्मा पुनश्चतुर्थो भेदः । तथा च-अर्थान्तरस्य न्यास इति सामान्य लक्ष्म, अर्थान्तरस्य पुनासः साधयेण वैधयेण च भवतीति तस्य भेदद्वयम् , भेदयस्य पुनः प्रत्येक चातुर्विध्येऽष्टविधत्वमिति फलितम् ॥ ११४ ॥ ११५ ॥ उदाहत्तु प्रतिजानीते-क्रमेणेत्यादिना । क्रमेणानुपूर्येण । उदाहरणमुदाहियते 'ऽय'मिति प्रक्रमप्राप्तम् । बृहदित्यादिना। 'क्षोदीयान अतिशयेन क्षुद्र इति तथोक्तः । 'स्थूलदूरयवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।' ६।४ । १५६ इत्यनेन यणादिपरलोपः पूर्वगुणश्च । अपि । बृहत्सहायो बृहन्तः सहाया यस्य तथोक्तः सन् । कार्यान्तं कार्य्यस्यान्तः पारस्तम् । गच्छति । तथा हि-नगापगा पर्वतनदी। महानद्या गङ्गायमुनाऽऽद्यन्यतमया नद्या । सम्भय । अम्भोधि समुद्रम् । अभ्येति । शिशुपालवधस्येदं पद्यम् । उद्धवस्य सभायामुक्तिरियम् ॥ २०८॥' "उदाहृतमर्थ निर्दिशति-अत्रेत्यादिना । स्पष्टम् । 'माधवः श्रीकृष्णः । यावदर्थपदां यावानों यावदर्थ पदानि यस्यास्ताम् । 'यावदवधारणे।' २।१।८ इत्यव्ययीभावः । एवमुक्तरूपाम् । वाचम् । आदाय गृहीत्वोक्त्वेति यावत् । विरराम तूष्णीं बभूव । 'व्यापारीभ्यो रमः ।' ५। ३ । ८३ इति परस्मैपदम् । तथा हि-महीयांसोऽतिशयेन महान्तः । प्रकृत्या खभावेन । मितभाषिणो मितं भाषन्ते इत्येवंशीला भवन्तीति भावः । अत्र यावदर्थमुक्त्वे' पीत्यनुक्त्वा तथाऽभिधानं दुष्टमपि छन्दोऽ. नुरोधेन । एवं 'विररामे'त्यसहायस्योत्तरवाक्ये विन्यासोऽपि दुष्टः । शिशुपालवधस्येदं पद्यम् । अत्र सामान्येन 'महीयांस' इत्याद्यर्थेन विशेषस्य 'यावदर्थे' त्याद्यर्थस्य समर्थनम् । विवृण्वन्ति विवृतिकारा:-'अत्र व्यञ्जनया विधीयमानमपि माधवस्याल्पभाषणं प्रतिपाद्य बाहुल्ये सति अनुपपन्नमहत्तरस्य स्वभावत एवाल्पभाषणमिति सामान्यगोचरसाधर्म्यज्ञानेन समर्थ्यते। सामान्यधर्मो विशेषेष्वप्रतिहतप्रसर इति विशेषदर्शनेनानुपपत्तिनिरास इति भावः । इति ॥२०९॥ थ्वि! स्थिरा। भव । हे भुजड्रम शेषनाग ! एनां पृथ्वीम् । धारय । हे कूर्मराज! त्वम् । तत् । इदम् ।द्वितयं 'पृथ्वीभुजङ्गमयो' रिति शेषः । दधीथार्धारय । हे दिक्कुञ्जरा दिग्गजाः ! तत्त्रितये

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910