Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 845
________________ ताप परिच्छेदः] रुचिराख्यया व्याख्यया समेतः। २६७ अनेकपदं यथा मम-- 'पश्यन्त्यसङ्ख्यपथगां त्वद्दानजलवाहिनीम्। देव! त्रिपथगाऽऽत्मानं गोपयत्युग्रमूर्धनि॥२१५॥' इह केचिद् वाक्यार्थगतेन काव्यलिङ्गेनैव गतार्थतया कार्यकारणभावेऽर्थान्तरन्यासं नाद्रियन्ते, तदयुक्तम् । तथाहि अत्र हेतुस्त्रिधा भवति-ज्ञापको निष्पादकः समर्थकश्चेति । तत्र कोऽनुमानस्थ, निष्पादकः काव्यलिङ्गस्य, समर्थकोऽर्थान्तरन्यासस्यः इति पृथगेव कार्यकारणभावेर्थान्तरन्यासः काव्यलिङ्गात । तथाहि-'यत्त्ववेत्र' इत्यादौ चतुर्थपादवाक्यम्, अन्यथा साका. ङ्क्षतयाऽसमञ्जसमेव स्यात् इति पादत्रयवाक्यं निष्पादकत्वेनापेक्षते । 'सहसा विदधीत..'इत्यादौ 'तु 'परापकारनिरतैर्दुर्जनैः सह सङ्गतिः। वदामि भवतस्तत्त्वं न विधेया कदाचन ॥' इत्यादिवदुर पदेशमात्रेणापि निराकाङक्षतया स्वतोऽपि गतार्थ सहसाविधानाभाव सम्पद्धरणं सोपपत्तिकमेव करोतीति पृथगेव कार्यकारणभावेऽर्थान्तरन्यासः काध्यलिङ्गात । निष्पादक इति भावः । यथा वा-'वदनाम्बुसहालोकनिन्दितेन्दुप्रभामराम् । त्वामवेक्ष्य मनोजस्य को युवा न वशवदः ॥' इत्यत्र पूर्वाद्धकपदार्थः परार्थे हेतुः । हेतोरनेकपदार्थतायामुदाहरति-अनेकपदमनेकपदार्थतेति भावः । यथा । मम 'पश्यन्तीत्यादि । व्याख्यातपूर्व पद्यमिदम् ॥ २१५ ॥' अत्र क्रियाऽन्वयासमाप्तौ वाक्यत्वम्प्राप्तस्य ‘पश्यन्ती' त्यादिपदानैक्यस्य कविप्रौढोक्तिसिद्धो ऽर्थः सम्भाव्यमानो गङ्गाया आत्मगोपने हेतुरिति बोध्यम् । यथा वा-'प्रणयि सखी सलीलपरिहासरसाधिगतैर्ललितशिरी.. षपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्ड यमदंड इवैष भुजः ॥' इत्यत्र 'वपुषि शस्त्रमुपक्षिपतः' इत्यादीनां क्रियासाकाङ्क्षतया वाक्यत्वमप्राप्तानां शस्त्रोपक्षपरूपोऽर्थो भुजपातस्य निष्पादकः । अर्थान्तरन्यासादेरस्यावच्छेदक लक्षयन्मतान्तरमाक्षिपति-केचित काव्यप्रकाशकारादयः । इह काव्यलिङ्गोदाहरणप्रस्तावे । वाक्यार्थगतेन हेतोर्वाक्यार्थताया सम्भवतेति भावः ( पदार्थगतेन काव्यलि. ङ्गेनार्थान्तरन्यासासम्भवादिदमुक्तम् ) । काव्यलिङ्गेन । एव । गतार्थतया 'कारणेन कार्य्यस्य, कार्येण या कारणस्य समर्थकस्य परैः स्वीकृतस्यार्थान्तरन्यासस्येति शेषः । कार्यकारणभावे कार्य्यस्य कारणेन कारणस्य वा कारणेन समर्थने इति भावः । अर्थान्तरन्यासम् । न । आद्रियन्ते, 'किन्तु काव्यलि. अमेवेति शेषः । तत् । भयुक्तमसमजसम् । उपपादयति-तथा। हि । 'उपपाद्यत'इति शेषः । अत्रा लङ्कारप्रस्तावे । हेतुः। ज्ञापकः । निष्पादक उपपादकः । समर्थकः पोषकः । च । इति । त्रिधा । भवति । सत्र त्रिषु तेषु मध्ये इत्यर्थः । ज्ञापको बोधको हेतुः । अनुमानस्य 'उपस्कारक' इति शेषः, एवं पुरस्तात् । निष्पा. दकः। काव्यलिङ्गस्य । समर्थकः । अर्थान्तरन्यासस्य तदभिधेयस्यालङ्कारस्योपस्कारक इत्यर्थः । इति निरुकादस्माद्धेतोः । काव्यलिङ्गात् । अर्थान्तरन्यासः। कार्यकारणभावे । पृथक् । एव । काव्यलिङ्गार्थान्तरन्यासयोः कार्यकारणभावपार्थक्येन पार्थक्यं सुतरामिति भावः । एतेनोपपादितमर्थ निर्दिशति-तथा। हि अत एवेति भावः । 'यत्त्वनेत्र' इत्यादौ । चतुर्थपादवाक्यं निष्पाद्य'मिति शेषः । अन्यथा निष्पाद्यत्वानङ्गीकारे। साका. क्षतया कारणापेक्षितत्वेन । असमञ्जसमयुक्तं सुदृढप्रतिपत्तिजननाक्षममिति यावत् । एव । स्यात् । इति । पाद: वयवाक्यम् । निष्पादकत्वेनोपपादकत्वेन । अपेक्षते । नच अर्थान्तरन्यासोदाहरणेष्वप्येवमित्याह-'सहसा विदधीत' इत्यादौ । 'अर्थान्तरन्यासोदाहरणम्' इति शेषः । तु । 'परापकारनिरतः । दुर्जनः । सह । सङ्गतिः सङ्गः । कदाचन कदाऽपि । न । विधेया। इति-भवतः । तत्त्वं यथाऽर्थम् । वदामि ॥' इत्यादिवदित्यादाविव । उपदेशमात्रेण । अपि । निराकाङ्क्षतया । स्वतो हेतूक्तिं विना । अपि । गतार्थ सुदृढ प्रतिपादितस्वार्थम् । सहसाविधानाभावम् । सम्पदरणम् । सोपपत्तिकम् । एव । करोति । इति । काव्यलिङ्गात् । कार्यकारणभावः। अर्थान्तरन्यासः । पृथका एव । स्पष्टीकृतं च विवृतिकारैः-'तथा चहेत्वाकाङ्क्षया यद्वाक्यं ( कर्त) यद्वाक्यमपेक्षते, तदर्थस्य तदर्थों निष्पादकः, स एव काव्यलिङ्गस्य विषय: ( उपस्कारकः)। यत्र हेतूपदेशादिना हेतुनिरपेक्षं वाक्यं हेतुवाक्यस्यार्थः समर्थकः, सचार्थान्तरन्यासस्य विषयः (उपस्कारकः)।

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910