Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
तदेवंद्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा ।
रुचिराख्यया व्याख्यया समेतः ।
२१९
१२३ उक्त्यनुतयोः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
ता उत्प्रेक्षाः । उक्तौ यथा- ' ऊरुः कुरङ्गकदृशः' इति । अनुक्तौ यथा मम प्रभावत्याम्, 'प्रद्युम्नः - इह हि सम्प्रति दिगन्तरमाच्छादयता तिमिरपटलेनघटितमिवाञ्जनपुङ्खैः पूरितमिव मृगमदक्षोदैः ।
ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम् ॥ १४५ ॥
अञ्जनादिना घटितत्वादेरुत्प्रेक्षणीयस्य विषयव्याप्तत्वं नोपात्तंम् । यथा वा-'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ १४६ ॥ '
अत्र तमसो लेपनस्य व्यापनरूपो विषयो नोपात्तोऽञ्जनवर्षणस्य च तमःसम्पातः । अनयोरुत्प्रेक्षानिमित्तं च तमसोऽति बहुलत्वम्, धायरूपेणाधः संयोगश्च यथासङ्खयम् । केचित्तु - 'भलेपनकर्तृभूतमपि तमोलेपन कर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम्, एवं नभोऽपि वर्षक्रियाकर्तृत्वेन ।' इत्याहुः ।
परः पाकशासनः' इत्युत्प्रेक्षाया अनुपात्तनिमित्ताया उदाहरणं स्यात्, एतदेवाभेदे भेदरूपाया अतिशयोक्तेः । अतोऽनयोः साङ्कर्य मापद्येतेति । तत् । एवम् । द्वात्रिंशत्प्रकारा । प्रतीयमाना । उत्प्रेक्षा । अयम्भावः - जातिगता गुणगता क्रियागता द्रव्यगता चेति चतुर्विधा प्रतीयमानोत्प्रेक्षा, सा च भावाभिमानिन्यभावाभिमानिनी चेति अष्टविधा, एषा च गुणनिमित्त क्रियानिमित्ता चेति षोडशविधापि फलरूपा हेतुरूपा चेति द्विधा भिद्यमाना यथोक्तप्रकारा । इति । प्रकारान्तरेण भेदं निर्दिशति- १२३ ता अष्टाशीतिविधा उत्प्रेक्षाः । अपि । प्रत्येकम् । प्रस्तुतस्योपमेयस्य । उक्तयनुक्तयोरुक्तावनुक्तौ च सत्यामित्यर्थः । द्विधा द्विविधा भवन्ति । एवं रसैनगविधुमिताः सर्वा वाच्याः प्रतीयमानाश्चोत्प्रेक्षा ज्ञेया इति निष्कृष्टोऽर्थः ।
कारिकायाः कठिनांशं परिहर्तुं तत्पदं व्याचष्टे - ता इत्यादिना । स्पष्टम् । उदाहरति-उक्तौ 'प्रस्तुतस्ये' ति शेषः । यथा 'उत्प्रेक्षे'ति शेषः । ' ऊरुः कुरङ्गकदृशः' इति । अयम्भावः - अत्रोरुर्विजयस्तम्भत्वेन सम्भावित इत्यूरुरुपमेयभूतः, एतस्य चोक्तत्वात् उक्तप्रस्तुतेयमुत्प्रेक्षा । इति दिक् । अनुक्तौ । 'प्रस्तुतस्ये 'ति शेषः । यथा । मम । प्रभावत्याम् ' प्रद्युम्नः 'आहे'ति शेषः । इहास्मिन् रणप्रदेशे । हि । सम्प्रति । दिगन्तरम् । आच्छादयता तिरोदधानेन । तिमिरपटलेनान्धकारपुजेन 'सर्वे मलिनीकृतं यतः इति शेषः ।
अञ्जनपुरञ्जनस्य कज्जलस्य पुजास्तैः । 'अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ।' इति मेदिनी । घटितं निम्मितम् । इव । मृगमदक्षोदैः कस्तूरीचूर्णैः । 'चूर्णे क्षोद' इत्यमरः । पूरितं पूर्णम् । इव । तमालतरुभि स्तमालवृक्षैः । ततं विस्तृतम् । इव । नीलांशुकैर्नीलवस्त्रैः । वृतमावृतम् । इव । भुवनं लोकः । अनोपगीतिरछन्दः ॥ १४५ ॥ '
तमसा व्याप्तमित्युपक्रम्य 'घटितमिवाजनपुत्रै' रित्यायुत्प्रेक्षितमिति तमसो व्याप्तिः प्रस्तुता, अञ्जनपुजादिना घटितत्वाद्युत्प्रेक्ष्यमाणमप्रस्तुतं चेत्येवं स्थितौ तमसो व्याप्तेरुदाहृतपद्येऽनभिधानादनुपात्तप्रस्तुताऽत्रेत्याह- अत्रास्मिन्नुदाहृते ये । अञ्जनादिना । 'अञ्जनेने 'ति पाठे त्वादिपदमुपलक्षणीयम् । घटितत्वादेर्घटितत्वादिरूपस्य । उत्प्रेक्षणीयस्य । विषयव्याप्तत्वं विषय एक व्याप्तत्वं व्याप्तिः । 'तमस' इति तु शेषः । न । उपात्तम् । ननु' तिमिरपटलेने' त्यादिना विषय उपात्त एवेति चेदिदमुदाहार्य्यमित्याशयेनाह-यथा वेत्यादि । यथा । वा । तमोऽन्धकारः । अङ्गानि गात्राणि । लिम्पति लिप्तानि करोति । इव । नभ आकाशम् ( कर्तृपदम् ) अञ्जनं कज्जलम् । वर्षति वृष्टं करोति । इव । अतः - दृष्टिनैत्रम् । जातावेकवचनम् । असत्पुरुषसेवाऽसन्तो दुष्टाः कदर्य्या इति यावत् ये पुरुषास्तेषां सेवा । इव । निष्फलतां व्यर्थताम् । गता । मृच्छकटिकस्येदं पद्यम् ॥ १४६ ॥ '
अस्योत्तरेऽर्द्धे तूपमेति तच्चर्चा विहायाह- अत्रेत्यादि । स्पष्टम् । यथासङ्ख्यं यथाक्रमम् । अयम्भावः - 'लिम्पतीव तमोऽज्ञानी' त्यत्र तमसो व्याप्तिर्विषयः, स एव लेपनत्वेनोत्प्रेक्षितः 'वर्षतीवाञ्जनं नभः' इत्यत्र तमसः सम्मतो नभः
Loading... Page Navigation 1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910