Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 802
________________ २३४ साहित्यदर्पणः । [देशम:'यदेतचन्द्रान्तर्जलदलवलीला वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा। अहं त्विदं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥१५१॥' इत्यत्र 'मन्ये' शब्दप्रयोगेऽपि उक्तस्वरूपायाः सम्भावनाया अप्रतीतेर्वितर्कमात्रम्, नासावपह्नवोत्प्रेक्षा। १२६ सिद्धत्वेऽध्यवसायस्यातिशयोक्तिीनगद्यते ॥ ९९ ॥ . विषयनिगरणेन अभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य च-उत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात् साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् । विषयनिगरणं चोत्प्रे. क्षायां विषयस्याधःकरणमात्रेण, इहापि 'मुखं द्वितीयश्चन्द्रः' इत्यादौ । यदाहुः न चोत्प्रेक्षावाचकनिवेशमात्रेणोत्प्रेक्षैवेति दर्शयितुमाह-यत् । एतत् दृश्यमानं वस्तु इति भावः । चन्द्रान्तश्चन्द्रस्यान्तश्चन्द्रमण्डलस्य मध्य इति भावः । जलदलवलीलां जलदो मेघस्तस्य लवः खण्डस्तस्य लीला विलासः शोभेति यावत् ता तथोक्ताम् । वितनुते विस्तारयति । लोको जनः । 'लोकस्तु भुवने जने।' इत्यमरः । तत् (वस्तु)। शशकः शशसझो जन्तुविशेषः । इति। आचष्टे कथयते। किन्तु-नो। माम् । प्रति। तथा 'भासत'इति शेषः । किं त्वां तत्प्रतिभासत इत्याशङ्कायामाह-अहम् । तु। इन्दु चन्द्रम् । त्वदरिविरहाक्रान्ततरुणी...तनुं तवारयः शत्रुजनास्तेषां विरहेणाकान्ताः पीडिता या तरुण्यः (त्वया युद्ध समापितानां शत्रूणां या रमण्यः ) तासां कटाक्षा एवोल्कापातास्तैः (कृत) यद् वणं छिद्रं तस्य किणोऽशः स एव कलङ्कस्तेनाङ्किता चिह्निता तनुः शरीरं यस्य तं तथोक्तम् । मन्ये । शिखरिणीवृत्तम् ॥ १५१॥ तात्पर्य निर्दिशति-इत्यत्र । 'मन्ये शब्दप्रयोगे 'मन्ये' इति क्रियापदस्य प्रयोगे कृते । अपि। उक्तस्वरूपाया निगीणस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भावना' इत्यनन्तरोदितायाः । सम्भावनायाः । अप्रतीतेः प्रती. त्यभावात् । वितर्कमात्र वितर्क एव । ननु यदेतत्पदाभ्यां बोध्य वस्त्वपस्यान्यारोपादपह्नुतिमूलैवेपमास्तामिति चेने. त्याह-असौ । अपह्नवोत्प्रेक्षा अपद्धतिमूलोत्प्रेक्षा । न । अयम्भावः-यदेतदित्यनेन किमपि अनिर्दिष्टस्वरूपं घस्तु प्रस्तुतत्वेनाभिमतम्, तस्यैव शशरूपत्वं प्रतिषिध्य कलङ्करूपत्वेन व्यवस्थापितम्, ननूपमानसारूप्यमुद्भावितम् । अतोऽत्र नोत्प्रेक्षा। इति। . अतिशयोक्तिं लक्षयति-१२६ अध्यवसायस्य विषयं निगीयं तेन सहाभिन्नत्वेनावस्थितो यो विषयी तस्य यः प्रत्ययस्तस्येति भावः । सिद्धत्वे सिद्धौ सत्यामनिश्चयसम्भावनाभ्यामनालिङ्गितायां सम्पत्ताविति यावत् । . भतिशयोक्तिरतिशयेन विषयनिगरणसम्पादितविषयिप्रकर्षेणोक्तिरिति तथोक्ता । अत एव तथा प्रसिद्धोऽलङ्कार इत्यर्थः । निगद्यते । अयम्भावः-यत्र विषयिणो विषयनिगरणपूर्वक विषयेण सह निश्चितमभेदसिद्धत्वमभिधीयते । साऽतिशयोक्तिरलङ्कारः । इति ॥ ९९ ॥ । अध्यवसायपदार्थमाह-विषयनिगरणन विषयस्य प्रस्तुतस्य निगरणं स्वरूपेण प्रकटनाभावस्तेन तदभिनेनेति भावः। विषयिणोऽप्रस्तुतस्येति भावः । अभेदप्रतिपत्तिरभेदस्य निश्चयः । अध्यवसायस्तत्पदवाच्योऽर्थ इति भावः । ननु सिद्धत्वं साध्यतामतिक्रम्यावस्थितत्वम् , तत् किंनाम साध्यात्वमित्याशङ्कयाह-अस्याध्यवसायस्य । च । उत्प्रेक्षायांसम्भावनाऽवस्थायां तदाख्येऽलङ्कारे वा । विषयिण उपमेयस्य । अनिश्चितत्वेन । निर्देशात् । साध्यत्वमसम्पन्नंसिद्धत्वम् । इहास्यामतिशयोक्तौ सत्याम् । तु । निश्चितत्वेन । एव । प्रतीतिर्विश्वासः । इति अस्मात् कारणात् । सिद्धत्वं सम्पन्नखरूपत्वम् । ननु शब्देन विषयस्यानुपादानमेव तस्य निगरणम्, तच्च-उपात्तप्रस्तुतायामुत्प्रेक्षायामतिशयोक्तौ च न सम्भवति, तत् कथमनयोर्विषयनिगरणं, कथं वाऽनयोर्भेद इति चेत्, अत्र विषयनिगरणमधःकरणमात्रेण तच्चोभयत्र, उभयोश्च भेदो विषयनिगरणस्य साध्यत्वसिद्धत्वाभ्यामिति द्योतयितुमाहविषये यादि। विषयनिगरणम् । च । उत्प्रेक्षायाम् । इहास्यामतिशयोक्तौ । 'मुखम् । द्वितीयोऽपरः । चन्द्रः ।' इत्यादौ । अपि । विषयस्य । अधःकरणमात्रेणापकर्षकत्वेनैव 'नतु शब्दानुपादानेनैवेति नियम' इति शेषः ।

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910