________________
२३४ साहित्यदर्पणः ।
[देशम:'यदेतचन्द्रान्तर्जलदलवलीला वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा। अहं त्विदं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥१५१॥'
इत्यत्र 'मन्ये' शब्दप्रयोगेऽपि उक्तस्वरूपायाः सम्भावनाया अप्रतीतेर्वितर्कमात्रम्, नासावपह्नवोत्प्रेक्षा।
१२६ सिद्धत्वेऽध्यवसायस्यातिशयोक्तिीनगद्यते ॥ ९९ ॥ . विषयनिगरणेन अभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य च-उत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात् साध्यत्वम्, इह तु निश्चितत्वेनैव प्रतीतिरिति सिद्धत्वम् । विषयनिगरणं चोत्प्रे. क्षायां विषयस्याधःकरणमात्रेण, इहापि 'मुखं द्वितीयश्चन्द्रः' इत्यादौ । यदाहुः
न चोत्प्रेक्षावाचकनिवेशमात्रेणोत्प्रेक्षैवेति दर्शयितुमाह-यत् । एतत् दृश्यमानं वस्तु इति भावः । चन्द्रान्तश्चन्द्रस्यान्तश्चन्द्रमण्डलस्य मध्य इति भावः । जलदलवलीलां जलदो मेघस्तस्य लवः खण्डस्तस्य लीला विलासः शोभेति यावत् ता तथोक्ताम् । वितनुते विस्तारयति । लोको जनः । 'लोकस्तु भुवने जने।' इत्यमरः । तत् (वस्तु)। शशकः शशसझो जन्तुविशेषः । इति। आचष्टे कथयते। किन्तु-नो। माम् । प्रति। तथा 'भासत'इति शेषः । किं त्वां तत्प्रतिभासत इत्याशङ्कायामाह-अहम् । तु। इन्दु चन्द्रम् । त्वदरिविरहाक्रान्ततरुणी...तनुं तवारयः शत्रुजनास्तेषां विरहेणाकान्ताः पीडिता या तरुण्यः (त्वया युद्ध समापितानां शत्रूणां या रमण्यः ) तासां कटाक्षा एवोल्कापातास्तैः (कृत) यद् वणं छिद्रं तस्य किणोऽशः स एव कलङ्कस्तेनाङ्किता चिह्निता तनुः शरीरं यस्य तं तथोक्तम् । मन्ये । शिखरिणीवृत्तम् ॥ १५१॥
तात्पर्य निर्दिशति-इत्यत्र । 'मन्ये शब्दप्रयोगे 'मन्ये' इति क्रियापदस्य प्रयोगे कृते । अपि। उक्तस्वरूपाया निगीणस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भावना' इत्यनन्तरोदितायाः । सम्भावनायाः । अप्रतीतेः प्रती. त्यभावात् । वितर्कमात्र वितर्क एव । ननु यदेतत्पदाभ्यां बोध्य वस्त्वपस्यान्यारोपादपह्नुतिमूलैवेपमास्तामिति चेने. त्याह-असौ । अपह्नवोत्प्रेक्षा अपद्धतिमूलोत्प्रेक्षा । न । अयम्भावः-यदेतदित्यनेन किमपि अनिर्दिष्टस्वरूपं घस्तु प्रस्तुतत्वेनाभिमतम्, तस्यैव शशरूपत्वं प्रतिषिध्य कलङ्करूपत्वेन व्यवस्थापितम्, ननूपमानसारूप्यमुद्भावितम् । अतोऽत्र नोत्प्रेक्षा। इति। .
अतिशयोक्तिं लक्षयति-१२६ अध्यवसायस्य विषयं निगीयं तेन सहाभिन्नत्वेनावस्थितो यो विषयी तस्य यः प्रत्ययस्तस्येति भावः । सिद्धत्वे सिद्धौ सत्यामनिश्चयसम्भावनाभ्यामनालिङ्गितायां सम्पत्ताविति यावत् । . भतिशयोक्तिरतिशयेन विषयनिगरणसम्पादितविषयिप्रकर्षेणोक्तिरिति तथोक्ता । अत एव तथा प्रसिद्धोऽलङ्कार इत्यर्थः । निगद्यते । अयम्भावः-यत्र विषयिणो विषयनिगरणपूर्वक विषयेण सह निश्चितमभेदसिद्धत्वमभिधीयते । साऽतिशयोक्तिरलङ्कारः । इति ॥ ९९ ॥ । अध्यवसायपदार्थमाह-विषयनिगरणन विषयस्य प्रस्तुतस्य निगरणं स्वरूपेण प्रकटनाभावस्तेन तदभिनेनेति भावः। विषयिणोऽप्रस्तुतस्येति भावः । अभेदप्रतिपत्तिरभेदस्य निश्चयः । अध्यवसायस्तत्पदवाच्योऽर्थ इति भावः । ननु सिद्धत्वं साध्यतामतिक्रम्यावस्थितत्वम् , तत् किंनाम साध्यात्वमित्याशङ्कयाह-अस्याध्यवसायस्य । च । उत्प्रेक्षायांसम्भावनाऽवस्थायां तदाख्येऽलङ्कारे वा । विषयिण उपमेयस्य । अनिश्चितत्वेन । निर्देशात् । साध्यत्वमसम्पन्नंसिद्धत्वम् । इहास्यामतिशयोक्तौ सत्याम् । तु । निश्चितत्वेन । एव । प्रतीतिर्विश्वासः । इति अस्मात् कारणात् । सिद्धत्वं सम्पन्नखरूपत्वम् । ननु शब्देन विषयस्यानुपादानमेव तस्य निगरणम्, तच्च-उपात्तप्रस्तुतायामुत्प्रेक्षायामतिशयोक्तौ च न सम्भवति, तत् कथमनयोर्विषयनिगरणं, कथं वाऽनयोर्भेद इति चेत्, अत्र विषयनिगरणमधःकरणमात्रेण तच्चोभयत्र, उभयोश्च भेदो विषयनिगरणस्य साध्यत्वसिद्धत्वाभ्यामिति द्योतयितुमाहविषये यादि।
विषयनिगरणम् । च । उत्प्रेक्षायाम् । इहास्यामतिशयोक्तौ । 'मुखम् । द्वितीयोऽपरः । चन्द्रः ।' इत्यादौ । अपि । विषयस्य । अधःकरणमात्रेणापकर्षकत्वेनैव 'नतु शब्दानुपादानेनैवेति नियम' इति शेषः ।