________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।.
२२५ 'विषयस्यानुपादानेऽप्युपादानेऽपि सूरयः । अध:कस्यामात्रेण निगीर्णत्वं प्रचक्षते ॥' इति । १२७ भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ।
पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा ततः ॥ १० ॥ तद्विपर्ययौ अभेदे भेदः, असम्बन्धे सम्बन्धः । सातिशयोक्तिः । अत्र भेदेऽभेदो यथा मम
'कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात्॥ १५२ ॥'
एवं विषयनिगरणस्योभयत्र साधारण्येनोपात्तप्रस्तुतात्वसाधारण्येऽपि विषयनिगरणस्य साध्यत्वसिद्धत्वाभ्यां प्रानिर्दिष्ठाभ्यामेव भेदः, उत्प्रेक्षायां च विषयनिगरणं यदि, तर्हि शब्देन तस्योपादानेऽपि विषयिणाऽधःकरणमात्रेण; अथातिशयोक्तौ यदि, तर्हि शब्देन तस्योपादानेऽनुपादानेऽपि चेत्युभयथेत्यपि एनयोभदः । अत एवास्या अनुपात्तविषयात्वमपि सङ्गच्छते । इति निष्कृष्टोऽर्थः । विषयनिगरणस्य विषयाधःकरणमात्रत्वस्वीकारं प्राचां संवादेन द्रढयितुमाह-यत् यतः कारणात् । आहुः । 'सूरयो विद्वांसः । 'धीमान् सूरिः कृती...' इत्यमरः । विषयस्य । अनुपादाने 'शब्देने'ति शेषः । अपि । उपादाने । अपि । अधःकरणमात्रेण विषयिणा विषयस्य न्यूनत्वप्रत्यायनमात्रेणेति भावः । निगीर्णत्वं निगरणम् । प्रचक्षते ब्रुवते ॥' इति ।
अस्याः प्रभेदाँल्लक्षयति-१२७ भेदे । 'विषयविषयिणो'रिति शेषः । अपि । अभेदः। तथा-सम्बन्धे । 'अपी'ति शेषः । असम्बन्धः। तथा-तद्विपर्यायौ तयोर्भदेऽप्यभेदस्य सम्बन्धेऽप्यसम्बन्धस्य च विपर्ययो विपरीतौ। एवमू-कार्यहेत्वोः कार्यकारणयोः । पौर्वापर्यास्ययः पौर्वापर्य्यस्य पूर्वपश्चाद्भावस्यात्यय उल्लङ्घनम् । 'यतोऽस्या' मिति शेषः । ततः । साऽतिशयोक्तिः । पञ्चधा ॥ १०॥ .
कारिकायाः काठेनांशं सुगमयति-तदित्यादिना । स्पष्टम् । इदं बोध्यम्-अध्यवसायस्य सिद्धत्वमतिशयोक्तिः, सा च पञ्चविधा, भेदेऽप्यभेदप्रतिपत्तिरूपा, सम्बन्धेऽप्यसम्बन्धप्रतिपत्तिरूपा, अभेदेऽपि भेदप्रतिपत्तिरूपा, असम्बन्धेऽपि सम्बन्धप्रतिपत्तिरूपा, कार्यकारणयोः पूर्षपश्चाद्भावत्वेऽपि पूर्वपश्चाद्भावस्य विपर्ययस्तत्त्वप्रतिपत्तिरूपा चेति । अध्यवसायस्य सिद्धावस्था च विषयिणा विषयस्य निगरण, तच्चाधःकरणम् । अथ-यत्र विषयस्य विषयिणा भेदेऽप्यभेदप्रतिपत्तिस्तत्र विषयस्य विषयितया पर्यवसाने विषयस्य निगरण स्पष्टम् , एवम्-यत्र विषयस्य विषयिणाऽभेदेऽपि भेदप्रतिपत्तिस्तत्र विषयस्य विषव्यभिन्नत्वेऽपि विषयितो भेदप्रत्यायनं विषयस्य निगरणम् । यत्र च यस्य कस्यापि वस्तुनो येन केनापि वस्तुना यस्मिन् क्लस्मिंश्चित्सम्बन्धसद्भावेऽपि तस्य वस्तुनस्तेन वस्तुना तस्य सम्बन्धस्याप्रत्यायनं, तत्र यस्य सम्बन्धस्य यद् गोपनं तस्य तदेव निगरणमिति स्फुट विषयनिगरणम् । एवम्-यत्र यस्य कस्यापि वस्तुनो येन केनापि वस्तुना यस्य कस्यचित्सम्बन्धस्याभावेऽपि तस्य तेन तस्य सम्बन्धस्य प्रत्यायनम् , तत्र तस्याभावस्य निगरण विषयनिगरणम् । अथ-यस्य कार्य्यस्य यत् कारणं तस्य तत् पूर्वभावि, अस्य च तत् पश्चाद्भावीति नियमः, अस्य च यत्र विपर्यायः कारणात् प्राक कार्य्यस्य, कारणस्य समकाले वा कार्य्यस्य सद्भावः, तत्र तादृशनियमभङ्ग एव विषयनिगरणम् । इति सर्वेष्वप्येषु पञ्चसु भेदेषु सामान्यलक्षणानुगतेनं काऽपि अनुपपत्तिः, तथा च-यत् पञ्चधैव लक्षणलक्षण, तज्झटित्यवयोधार्थमेव । अत एव तत्तद्वयाख्यातार:-अतिशया उक्तिरित्यतिशयोक्तिारीत्येवं सामान्य लक्षणं व्याच. क्षाणा आसामन्योऽन्यं सजातीयत्वं समादधते । इति दिक्। . . उदाहर्तुमुपक्रमते-अत्रैषु पञ्चसु भेदेषु मध्ये इति यावत् । भेदे । अभेदः। यथा। मम । 'कलापिनो मयूरस्य । कलापो बर्हमस्यास्तीति कलापी । 'अत इनिठनौ ।' ५।२।११५ इतीनिः । उपरि शिरसीति भावः । कलापो बर्हम् । 'कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ।' इत्यमरः । कथम् । विलसति ! मयूरस्य बहे पुच्छवत्येव दृष्टचरम् , अस्य च कथमुपरिभागे.इत्याश्चर्यमिति भावः । तस्य कलापस्य । तलेऽधोभागे । अष्टमीन्दुखण्डमष्टम्या इन्दुश्चन्द्रस्तस्य (अष्टकलस्यात एवार्द्धपूर्णस्य चन्द्रस्य) खण्डम् । 'कथं विलसती'ति पूर्वतोऽनुषज्यते । अर्द्धश्चन्द्रः शिवस्य भाले दृष्टचरः, अथ कथं बर्हस्याधोभाग इत्याश्चर्यमिति भावः । ततस्तस्याष्टमीन्दुखण्डस्येति