________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
२२३ इत्यत्र तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण सन्दिह्यत इति सन्देहालङ्कारः । इति केचिदाहुः, तन्न; एकविषये समानबलतयाऽनेककोटिस्फुरणस्यैव सन्देहत्वात्, इह तु तर्वादिव्याप्तेः प्रतिसम्बन्धिभेदो व्यापनादेनिंगरणेन रञ्जनादेः स्फुरणं च। यच्चान्ये-~~-'अनेकत्वनिर्धारणरूपविच्छित्याश्रयत्वेन एककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारः।' इति वदन्ति स्म, तदप्ययुक्तम् । निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि सम्भावना, तस्याश्चात्र स्फुटतया सद्भावात् 'नु' शब्देन च 'इव' शब्देनेव तस्या द्योतनादुत्प्रेक्षवेयं भवितुं युक्ता। इत्यलमदृष्टसन्देहप्रकारकल्पनया।
भतानतेषु प्रदेशेषु । धरित्री पृथ्वी। पूरिता पूर्णतां नीता । नु ! 'विषमेषु धरित्री'ति समस्तपाठे तु विषमेषोर्मदनस्य धरित्री भूमिः आश्रयभूता रात्रिरिति यावत्, इत्यर्थः । अन्यत्पूर्ववत् । ककुभो दिशः । “दिशस्तु ककुभः काष्टा" इत्यमरः। संहता एकत्र समावेशिताः । नु! किरातार्जुनीयस्येदं पद्यम् । खागताछन्दः । 'खागता नौं भूगौ ग्।' इति च तल्लक्षणम् ॥ १५० ॥ ___ इत्यत्र । तर्वादौ। निमिराक्रान्तताऽन्धकाराच्छादितता। रञ्जनादिरूपेण । सन्दिह्यते । इति । सन्देहालङ्कारः । इति । तत् । न । 'युक्त मिति शेषः । हेतुं निर्दिशति-एकविषये एकस्मिन् प्रस्तुते (उपमेये)। समानबलतयोपमानसदृशकक्षतया। अनेककोटिस्फुरणस्यानेककोटिकावगाहिज्ञानस्य । एक । रुन्देहत्वात्सन्देहपदार्थत्वात् । 'स्थाणुर्वा पुरुषो वा' इत्यादौ यथैकस्मिन् विषये स्थाणुपुरुषाद्यनेककोटिकावगाहि ज्ञानं तुल्यकक्षकमित्यस्य सन्देहपदवाच्यत्वम् इति भावः । इहोत्प्रेक्षायामित्यर्थः । तु । तर्वादिव्याप्तस्तरुशैलादौ तिमिरव्याप्तेः । प्रतिसम्बन्धिभेदस्तरशैलगगनधरणिदिशः तमोव्याप्तेः सम्बन्धिभूताः, तासां प्रत्येकं रञ्जनादिना तत्तदवगाहि ज्ञानं भिन्नम् । तथा च-एकविषयकानेककोटिकावगाहिज्ञानत्वाभावात् अत्र सन्देहपदवाच्यताऽनुपपन्नेति निष्कृष्टोऽर्थः । उक्तमर्थ द्रढयितुमन्यदप्याह-व्यापनादेः (अनादिपदमुदाहरणान्तरविवक्षया) विषयस्य । निगरणेनाधःकरणेन । रखनादेः । आदिना नामनादेर्ग्रहणम् । स्फुरणम । च। अयम्भावः-अत्र विषयस्तमोव्याप्तिः, असौ तथाऽनभिधाय रञ्जनादिना अभिधीयते, अतोऽत्र रञ्जनादेर्यथा प्राधान्यं, न तथा तमोव्याप्तेः । सन्देहे तु-विषयस्य विषयिणश्च समकक्षत्वं नतु विषयविषयिणोः प्राधान्याप्राधान्याभ्यां भेदः । अतोऽत्रोत्प्रेक्षव, नतु सन्देहः । इति ।।
अत्र सन्देहं मन्वानानां युक्त्यन्तरं खण्डयितुमाह-यत् । च । अन्ये रजिता नु विविधा इत्यादौ सन्देहं खीकुर्वन्तः । अनेकत्व निर्धारणरूपविच्छित्याश्रयत्वेन एकत्वस्य निर्धारणं तदभावोऽनेकत्वनिर्धारणमेव रूपं यस्याः साऽसौ विच्छित्तिश्चमत्कारस्तस्या आश्रय आधारभूतस्तस्य भावस्तत्त्वं तेन । एककोट्यधिकोऽनेककोटिकः । अपि । अयम्। भिन्नो द्वितीयः । सन्देहप्रकारः।' इति । वदन्ति। स्म । एषामयमभिप्रायः-यत्रैष एवैक इति निर्धारणं न स्यात्, तत्कृतां विच्छित्तिमाश्रित्यानेककोटयवगाहि ज्ञानमपि सन्देहविशेषः । तथा च-रजिता नु' इत्यादौ रञ्जिता एव नामितमेवेत्येवमेकस्य निश्चयस्याभावाद् रञ्जननामनाद्यनेककोटिकस्य ज्ञानस्य च सद्भावात्सन्देह इति फलितम् । इति । निराकरोति-तत् । अपि । अयुक्तम् । तदेवोपपादयति-हि यतः । निगीर्णस्वरूपस्याधःकृतस्वरूपस्य . विषयस्य । अन्यतादात्म्यप्रतीतिरन्येन विषयिणा तादात्म्यं तस्य प्रतीतिः । सम्भावना। तस्याः सम्भावनायाः। च । अत्र । स्फुटतया। सद्भावात् । 'नु' शब्देन 'उत्प्रेक्षावाचकत्वेनाभिमतेने'ति शेषः । च । 'इव' शब्देन । इव । तस्या । सम्भावनायाः । द्योतनादुद्बोधनात् । इयम् 'रजिता नु'इत्या दौ सन्देहोपस्कारकत्वेन तवाभि. मता प्रतीतिरिति भावः । उत्प्रेक्षा। एव भवितुम् । युक्ता । अयम्भावः -'तरुशैलेषु तिमिरं व्याप्त'मित्याअर्थ: प्रस्तुतः, तं च निगीर्य रञ्जनादिना साम्यप्रतीतिः 'रञ्जिता'इत्यादिनोद्भाविता, तस्याश्च 'नु' शब्देनोत्प्रेक्षोपस्कारकतां प्रतिनीतत्वम् । अतोऽत्रोत्प्रेक्षैव । इति एवमलङ्कारान्तरतो व्यतिरिक्तविषयतयोत्प्रेक्षां निर्धाय विवेचनमुपसंहरन्नाहइति । अदृष्टसन्देहप्रकारकल्पनयाऽदृष्टः परैरनालोचितः (अत एवान्यथाऽसिद्धान्तितः) यः सन्देहप्रकार उत्प्रेक्षाया अलङ्कारान्तरेण साङ्कय॑मस्ति न वेति सन्देहावस्थापनं तस्य कल्पना तया। अलम् ।