________________
२२३
साहित्यदर्पणः।
[ दशमःइत्यत्र विकासिनीलोत्पलति स्म कणे मृगायताक्ष्याः कुटिलः कटाक्षः।' इत्यादौ च ज्ञेयम् । भ्रान्तिमदलङ्कारे-'मुग्धा दुग्धधिया' इत्यादौ भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रिकाऽऽदेखनं नास्ति, तदुपनिवन्धनस्य कविनैव कृतत्वात् । इह तु सम्भावनाक विपयस्यापि ज्ञानमिति द्वयो दः। सन्देहे-समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा खम्भाव्यभूता एका कोटिः। अतिशयोक्ती विषयिणः प्रतीतस्य पर्यवसानेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः । यनु
'रञ्जिता नु विविधास्तरुशैला नामितं नु गमनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहता नु ककुभस्तिमिरेण ॥ १५०॥"
रितम् । 'प्रयास्यन्तं प्रियं श्रुत्वा गोविन्दं व्रजयोषिताम् । तत्क्षणाज्जातमौनाना' मिति पूर्व पादत्रयमिति बोद्धव्यम् । 'कङ्कणैरङ्गदायित'मिति पाठान्तरम् ।' इत्यत्र 'आय'प्रत्ययस्योपमावाचकत्वेनोपक्रमे उपमायाः प्रतीतावपि भुजमध्ये कङ्कणस्थितेरसम्भवात् सम्भावनोपयोगितायां पर्यवसानादुत्प्रेक्षा इति शेषः । मृगायताक्ष्या मृगाक्षिणी इवायते अक्षिते अक्षिणी यस्यास्तस्याः । कुटिलः । कटाक्षः । कर्णे । विकासिनीलोत्पलति विकसनशीलं नीलकमलमिवाचरति । स्म । 'नासाऽग्रमुक्तामधरप्रसारिरोचिनिनायेव च विद्रुमाभाम् ॥' इत्युत्तरमर्द्धमिति बोध्यम् । उपेन्द्रवज्रेन्द्रवज्रयोरुपजातिश्छन्दः ॥' इत्यादौ । च । 'क्वि'प्रत्ययस्योपमावाचकत्वेनोपमाया उपक्रमे प्रतीतावपि कर्णे कटाक्षस्यासम्भवात्तत्त्वेन सम्भावनादुत्प्रेक्षवेति । ज्ञेयम् ।।
. अस्या मालारूपात्वमपि दृश्यते यथा-'द्विनेत्र इव वासवः करयुगो विवस्खानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिषुहारव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥' इति ।
बोधसौकायास्या अलङ्कारान्तरतः साम्यभ्रमं निराकर्तुमुपक्रमते-भ्रान्तिमदलङ्कारे-'मुग्धादुग्धधिया' इत्यादौ मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुश्चिनोति शयरी मुक्ताफलाकाक्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥' इत्यत्रेत्यर्थः । भ्रान्तानाम् । वल्लवादीनाम् । विषयस्योपमेयभूतस्य । चन्द्रिकाऽऽदेः । ज्ञानम् । न । अस्ति । तदुपनिबन्धनस्य तस्य चन्द्रिकाऽऽद्यज्ञानस्योपनिवन्धनं वर्णनम् । कविना । एव । कृतत्वात् दर्शितत्वात् । इहास्यामुत्प्रेक्षायाम् । तु । सम्भावनाकर्तुरुत्प्रेक्षकस्य कवैरन्यस्य वेति भावः । विषयस्योपमेयभूतस्य 'ऊरुः कुरुङ्गकदृश' इत्यादावूर्वादेरिति भावः । ज्ञानम् । अपि एव (निपातानामनेकार्थत्वम् ) । इति । द्वयोन्तिमदुत्प्रे. क्षयोः । भेदः । सन्देहे । 'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी' इत्यादाविति शेषः । कोटिद्वयस्योपमेयोपमानयोः । समकक्षतया समानावस्थाकत्वेन । अभेदे तृतीया । प्रतीतिः । इहास्यामुत्प्रेक्षायाम् । तु । उत्कटा निश्चितप्राया । सम्भाव्यभूतोत्प्रेक्षणीया अनिर्धारितखरूपेति यावत् । एकोपमानरूपा । कोटि: प्रकारः । 'कोटि: स्त्री धनुषोऽग्रेऽश्री सङ्ख्याभेदप्रकर्षयोः ।' इति मेदिनी । 'अतोऽनयोर्भेद'इति शेषः । अतिशयोक्तौ 'कथमुपरि कलापिनः कलाप' इत्यादौ । प्रतीतस्य ज्ञातस्य । विषयिण उपमानस्य । पर्यवसाने विचारान्तिमदशायाम् । असत्यता प्रतीयते । इहोत्प्रेक्षायाम् । तु । प्रतीतिकाले । एव । असत्यता प्रतिष्ठितेति शेषः । इति । भेदः । अयम्भावः-आहार्योऽन्यतादात्म्यप्रत्ययः सम्भावना,एषैवोत्प्रेक्षाया मूलम् । अनाहार्योऽन्य. तादात्म्यप्रत्ययोऽध्यवसानम् , एतदेवातिशयोक्तबीजम् । अतः-पूर्वत्र न निश्चितोऽन्यतादात्म्यप्रत्ययः । अतिशयोक्तौ तु निश्चित इत्यनयोर्भेदकम् । इति ।
क्वचिदाचार्याणामपि भ्रमः सम्भवतीति नितान्तं गवेषणीयमित्युपदेष्टुकाम आह-यत् । तु । केचित् । अलङ्कारसर्वखकारादय इति भावः । आहुः । 'तिमिरेणान्धकारेण । विविधा अनेकविधाः। तरुशैलास्तरवः शैला इवेति, तरव एव शैला इति वा, तरवश्च शैलाश्चेति वा, तरुभिरुपलक्षितादशैला इति वेति तथोक्ताः। रचिताः। नु किमु ! गगनमाकाशम् । नामितमधःपातितम् । नु किमु ! स्थगितमाच्छादितम् । नु किमु ! विषमेष