________________
। परिच्छेदः । रुचिराख्यया व्याख्यया समेतः।
२२१ ___भत्र-गुणतत्त्वे श्लेषः। कम्बुग्रीवाऽधिवासादिवेति हेतूत्प्रेक्षाया हेतुः । अत्र 'जामीमहे' इत्युत्प्रेक्षावाचकम् । एवम्
१२५ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः । क्वचिदुपमोपक्रमोत्प्रेक्षा, यथा'पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः । बनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ १४९ ॥
इत्यत्र-आभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा, पर्यवसाने तु-जलधितीरे शैवालस्थितेः सम्भावनानुपपत्तेः सम्भावनोत्थानमित्युत्प्रेक्षा । एवम्-विरहवर्णने, 'केयूरायितमङ्गदैः ॥'
लक्ष्यं सङ्गमयति-अत्रागुणवत्वे गुणवत्त्वं' मिति पद इति भावः । श्लेषः। गुणो मौामप्रधाने...त्यागशौर्यादि सत्त्वादिसन्ध्याऽऽद्यावृत्तिरज्जुषु ।...' इति मेदिनीकरायुक्त्या गुणशब्दस्यानेकार्थवाचितयाऽत्र च प्रयुक्तत्वादिति शेषः । कम्बुग्रीवाऽधिवासादिवेति । 'चेति शेषः । हेतूत्प्रेक्षायाः । हेतुः । अतस्तदुभयमूलेयमुत्प्रेक्षेति भावः । इदं बोध्यम्-हारस्य (मुक्तोत्करस्य ) गुण (सूत्र ) वत्त्वं स्वतः सिद्धम् , अथापि-अपकृष्टकुलभवानामप्युत्कृष्टकुलभवाश्रययशाद् गुण (यशखिताऽऽदि) शालित्वं भवतीति सूचयितुं श्लेषमुपजीव्यगुणवत्त्वमुत्प्रेक्षितमिति श्लेषमूलात्वमेतस्याः । तत्र च हेतुर्वासा' दिति पञ्चम्युक्तः । शुक्तिमध्यापेक्षया कम्बुग्रीवाया महत्त्वात्तत्राधिवासस्य गुणवत्त्वलाभे च हेतुत्वमुचितमेवोत्प्रेक्ष्यमाणम् । इति ।
ननूत्प्रेक्षामहे इत्यादेरभावात् कथमियमुत्प्रेक्षेत्याशङ्कयाह-अत्रत्यादि। स्पष्टम् । न केवलमेतदेवेत्याह-एवं यथेदं तथेति भावः ।
१२५ मन्ये । शङ्के । ध्रुवम्। प्रायः। नूनम् । इत्येवमादय इत्यादय इत्यर्थः । 'उत्प्रेक्षावाचका'इति शेषः । आदिपदेन-'जानीमहे, सम्भावयामः, उत्प्रेक्षामहे, खलु, किल, इव, किमु, ननु' प्रभृतीनां ग्रहणम् । अत एवाहुश्चित्रमीमांसाकारा:- "मन्ये, शङ्के, ध्रवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दरिवशब्दोऽपि तादृशः । इत्यत्रादिशब्देन'तर्कयामि, सम्भावयामि, जाने, उत्प्रेक्षे, स्यात् ; इत्येवमादीनां सङ्ग्रहः ।" इति ।
उपमामूलामुदाहरति-क्वचित् । उपमोपक्रमोपमोपक्रमे आरम्भे (मूलत्वेन स्थिता) यस्यास्तथोक्ता । उत्प्रेक्षा। यथा । 'मुरारिः श्रीकृष्णचन्द्रः । नीरनिधेः समुद्रस्य । पारेजलं जलस्य पारे । 'पारे मध्ये षष्ठया वा' २।१।१८ इत्यव्ययीभावः, तत्सम्बन्धात् पारशब्दस्यैदन्तत्वं निपातसिद्धम् । आनीलपलाशराशीरासमन्तानीला इत्यानीलाः पलाशराशयः (पलाशानां पत्राणां राशयः पुजाः) यासां ताः तथोक्ताः । 'पत्रं पलाशं छदनम्' इत्यमरः । उत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभा उत्कलिकानामूमीणां सहस्रं तेन प्रतिक्षणमुत्कूलिता उद्गताः कूलं कूलदेशं प्रापिता इति यावत् ,ये शैवलाः शेवालानि तेषामाभेवाभा यासां ताः तथोक्ताः । 'अम्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा।' इति हलायुधः । 'तत्करोति तदाचष्टे।'* इति ण्यन्ताद् उत्कूलशब्दात् कर्मणि क्तः । 'जलनीली तु शेवालं शैवलः' इत्यमरः । वनावलीवनपङ्क्ती: । अपश्यत् । शिशुपालवधस्येदं पद्यम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ॥ १४९ ॥'
उदाहृतमर्थं सम्भावयति-इत्यत्रोदाहृते पद्य । आभाशब्दस्य शैवलाभा' इत्यंशभूतस्येति शेषः । उपमावाच. कत्वात् । उपक्रमे आरम्भे । उपमा । पर्यवसाने विचारदशायाम् । तु । जलधितीरे । शैवालस्थितेः । सम्भावनानुपपत्तेरसम्भव इत्यस्माद्धेतोरित्यर्थः । सम्भावनोत्थानमुत्प्रेक्षणोदभावनम् । इति । उत्प्रेक्षा । अयम्भावः-साम्यमाश्रित्यानिदम इदमा सम्भावनमुत्प्रेक्षा, यद्यपि जलाशयप्रान्ते शैवलः प्रायः सम्भवति, किन्तु न समुद्रस्य प्रान्ते, अत्र हि दूरस्थितस्य दृष्ट्या समुद्रजलस्य खाभाविको नीलिमैव शैवलत्वेन प्रतीयते, अनः प्रतीतिरियं यद्यपि भ्रान्तिरूपा, तथाऽपि प्रकृते शैवलस्य जलीयत्वेन जलाशयान्तरवत्समुद्रस्यापि जलाशयत्वेनात्र तत्सम्भवः स्यादिति नास्या भ्रान्तिरूपत्वम्, किन्तु तथोत्प्रेक्षाया उपस्कारकत्वमेव । इति । __अन्यत्राप्येवमूत्यमित्याह-एवम् । विरहवर्णने 'उत्क्रान्त' इति शेषः । 'अङ्गदैः कङ्कणैः । 'अङ्गदं करभूषायां केयूरे सुहृदि त्रिषु । अङ्गदो वालिपुत्रे ना हस्तिनीदिग्भिदोः स्त्रियाम् ॥' इति गोपालः । केयूरायितं केयूरिवाच.