________________
१६०
साहित्यदर्पणः।
[दशम:१२४ अलङ्कारान्तरोत्था सा वैविध्यमाधकं भजेत् ॥ ९८ ॥ . तत्र सापहवोत्प्रेक्षा यथा मम'अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः। अप्राप्य मानमते विगलति लावण्यवारिपूर इव ॥ १७ ॥' श्लेषहेतुगा यथा-मुक्तोत्करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः।
जानीमहे स्याः कमनीयकम्बुग्रीवाऽधिवासाद्गुणवत्त्वमाप ॥ १४८॥" कर्तृकाजनकर्मकवर्षणत्वेनोत्प्रेक्षितो 'विषयः । उभयोरप्यनुपादानमिति अनुपात्तविषयो (प्रस्तुतो) त्प्रेक्षेयमुभयत्र । अत एवोक्तम्-'अत्र..तमः । सम्पातः'इति । तमःकर्तकं सम्भाव्यमानं लेपनं च तमसो भूयस्त्वनिमित्तकम्, तमोभूयस्त्वे हि तमःकर्त्तकेन लेपनेन भुवनमलिनीकरणत्वोपपत्तिः । नभःकर्तृकमन्ननवर्षणं च सम्भाव्यमानं तमसोऽधःप्रसारनिमित्तकम्, तमसोऽधःप्रसारे हि नभःकर्तृकाजनकर्मकवर्षणसम्भावनाया उपपत्तिः । अत एवोक्तम्-अनयोरित्यादि । परमतेन समाधत्ते-केचित्त्वित्यादिना । स्पष्टम् । अयम्भावः-अचेतनं तमः, तस्य लेपनकर्तृत्वमसम्भवम्, अथाप्येतदुत्प्रेक्षितम्, इति तमसो लेपनाकतत्वेऽपि तमोलेपनकर्तकत्वोत्प्रेक्षणे तमसो व्यापनं विषयः, स च नोक्तः । तथा-नभसी वर्षणक्रियाकर्तत्वम्, अञ्जनस्य च वर्षणक्रियाकर्मत्वमसम्भवम्, अथाऽप्येतदुभयमुत्प्रेक्षितम्, इति नभसोऽअनावर्षकत्वेऽपि अञ्जमवर्षकत्वोत्प्रेक्षणे तमसोऽधः संयोगो विषयः, स च नोक्तः । एवम्-अञ्जनस्य नभःकर्त्तकवर्षणकर्मकत्वासम्भयेऽपि नभःकर्तकवर्षणकर्मकत्वोत्प्रेक्षणे तमसो निबिडीभवनं विषयः, सोऽप्यनुपात्तः । अत एवात्रानुफप्रस्तुतो(विषयो)त्प्रेक्षा । इति । अत्र विवृतिकारा आहुः-'नभसोनवर्तत्वेन सम्भावनायां प्रकृतस्योपमेयस्य तमसो बोधो दुर्घट इत्यखरसः 'केचि'दित्यनेन सूचितः । अपरे तु-'तमोऽजनत्वेनोत्प्रेक्षितम्, नीलत्वमत्रोत्प्रेक्षितम्'इत्याहुः ।' इति ।
अस्यां चमत्कारातिशयाधानायोपायं निर्दिशति-१२४ सा निरुक्तोत्प्रेक्षा । अलङ्कारान्तरोत्थाऽलङ्कारा. न्तरादुत्थोत्थितेति तथोक्ता । अलङ्कारान्तरमाश्रित्योत्पादितेति भावः। अधिकम् । वैचित्र्यं विच्छित्तिम्।भजेतावहे' दिति पाठान्तरम् । एवं च-अस्या यदि चमत्कारातिशयोऽभिमतो भवेत् , तर्हि अलङ्कारान्तरेणैनां संमिश्रयेत् । इति फलितोऽर्थः ॥
उदाहरति-सत्र तासूत्प्रेक्षासु मध्ये । सापह्नवा । उत्पेक्षा । यथा । मम। हुतपावकधूमकलुषाक्ष्या हुतः कृतहोमो यः पावकोऽमिस्तस्य धूमस्तेन कलुषे आविले अक्षिणी यस्यास्तस्या इति तथोक्तायाः ।सुदृशः। अश्रुच्छलेन जलोद्गममिषेण । लावण्यवारिपूरो लावण्यमेव वाार तस्य पूरः प्रवाहः । 'पूरो जलप्रवाहे स्याद्रणसंशुद्धिखाद्ययोः ।' इति मेदिनी। अङ्गे शरीरे । 'अझं गात्रे...त्रिष्वङ्गवति चान्तिके' इति मेदिनी । मानमियत्ताम् । अप्राप्यालब्ध्वा । इव।विगलति । अत्रोद्गीतिश्छन्दः ॥ १४७ ॥
__ अत्रेदम्बोध्यम्-छलशब्दस्य कैतवार्थकतया तेनाश्रूणामपह्नवश्चेति कैतवापहृतिः, नेत्रयोः कलुषाभिधानेन अभ्रद्मयोग्यतायाश्च समर्थनमिति परिकरः, लावण्यस्य वारिपूरत्वेन परिणामोक्तेः परिणामश्चेत्येवं यद्यपि केवलया नापद्धत्येयमुत्प्रेक्षा सङ्कीर्णा, किन्तु परिकरपरिणामाभ्यामपि, अथापि अUण्यपह्वय लावण्यवारिपूरत्वेनोत्प्रेक्षणे एव परिकरपरिणामयोरन्तः. साचिव्यम् । इति सापहवा (अपत्यलकारमूला) एधोत्प्रेक्षा चमत्कुरुते । इति यथोक्तं ज्यायः ।
एवमपह्नुतिमूलीमुदाहृत्यश्लेपहेतूभयमूलामुदाहरति-श्लेषहेतुगा श्लेषहेतू गच्छतीति तथोक्ता । श्लेषहेतुमूलोत्प्रेक्षति भावः । यथा । सङ्कटशुक्तिमध्यात्सङ्कटं सङ्कीर्णे यत् शुक्तिमध्यं शुक्तिगर्भभागस्तस्मात् तदध्युध्येति भावः । विनिर्गतः। 'कारागारमनुभूय निस्तीर्णप्रत्यवायक्लेश' इति तु ध्वन्योऽर्थः । मुक्तोत्करो मुक्तानां मौक्तिकानामुत्करः समूहः । 'मुक्तानां बन्धनतो निस्तीर्णाना मिति तु ध्वन्योऽर्थः । अस्याः । सारसलोचनायाः कमलनेत्रायाः । (अत्रार्द्धान्तरैकपदत्वम्)। कमनीयकम्बुग्रीवाऽधिवासात् कमनीयो रमणीयो यः कम्बुः शङ्खस्तद्रीवा (तस्य ग्रीवेति तु ध्वन्योऽर्थः ) तस्या अधिवास आश्रयः, तस्यामधिवासो निवास इति वा तस्मात् । गुणवत्त्वं सुकतफलभूत. यशस्विताऽऽदिशालित्वम्' सूत्रवत्त्वं वा । भाप प्राप्तवान् । इति-जामीमहे वयं भावयाम इति भावः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ।। १४८ ।।'