Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२४५ खाहित्यदर्पणः।
[दशमः'अत्र रागपदे श्लेषः। ___ 'सह कुमुदकदम्बैः काममुल्लासयन्तः सह धनतिमिरौधैर्धेर्यमुत्तारयन्तः।
सह सरसिजपण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ॥ १७८॥' इदम्मम । अत्रोल्लासादीनां सम्बन्धिभेदादेव भेदः, नतु श्लिष्टतया । उदाहार्य दर्शयति-अत्रेत्यादिना । स्पटम् ।
इदं तु बोध्यम्-'सहाधरदलेनास्या यौवने रागभाक् प्रियः । कान्तायाश्चोन्नतो जातः स्तनद्वन्द्वेन दर्पकः ॥' इत्यत्र पूर्वार्द्ध सहयोगे परत्र सहाथे तृतीया । 'रागभाक्' 'उन्नत'इति (पदं वस्तु वा ) च अधरप्रिययोः स्तनद्वन्द्वकामदेवयोश्वान्वयिरागभजनोन्नमनबोधकम् । तथा च-अधरदलप्रतियोगिकसाहित्यशाली प्रियः स्तनद्वन्द्वप्रतियोगिकसाहित्यशाली कन्दर्पश्च क्रमेण 'रागभाक' 'उन्नत'इति शाब्दबोधः । अथ-अधरदलवृत्तिरागभजनसमानकालभवसमानकालभवरागभजनवान् प्रिय इति, स्तनद्वन्द्ववृत्त्युन्नमनसमानकालभवसमानकालभवोन्नतिमान् कन्दर्प इति च मानसो बोधः । अत्र तृतीयाऽन्तस्य विशेषणतयाऽप्रधानत्वम् , प्रथमान्तस्य विशेष्यतया च प्रधानत्वम् । एवं च प्रथमान्ते रागभजनोन्नमनयोः शाब्दः, तृतीयान्ते सहार्थसामादार्थः । एवं पुरस्तादन्यत्र च । रागशब्दः श्लिष्टः, तेन-प्रेमलौहित्ययोरभेदारोपः, एवमुन्नतशब्दः श्लिष्टः, तेनोच्छितोद्धतत्वयोरभेदारोपः । इति । यथा वा-'बहु मन्यामहे राजन्न वयं भवतः कृतिम् । विपद्भिः सह दीयन्ते सम्पदो भवता यतः॥' इति, अत्र हि 'दीयन्ते'इति श्लिष्टम् ।
एवं श्लेषभित्तिकतयोदाहृत्य तद्वैपरीत्येऽप्युदाहरति-'कुमुदकदम्बैः कुमुदानि रात्रिविकासीनि कमलानि तेषां कदम्बानि पुञ्जास्तैः । 'कदम्वं निकुरम्बे स्यानीपसर्षपयोः पुमान् ।' इति मेदिनी । सह । कामं मदनम् । उल्लासयन्तो विकासयन्तो वर्धयन्तश्चेति भावः । घनतिमिरौधैर्घनानि निबिडानि यानि तिमिराणि तेषामोधास्तरिति तथोक्तैः । सह । धैर्यम् । उत्सारयन्तः सम्बन्धाभावं विनाशं वा नयन्तः । सरसिजषण्डैः सरसिजानि कमलानि तेषां षण्डानि समुदायास्तैः । 'अब्जादिकदम्बे षण्डमस्त्रियाम् ।' इत्यमरः । सह । स्वान्तं चित्तम् ।
खान्त हृन्मानस मनः।' इत्यमरः । आमीलयन्तः सङ्कोचयन्तो विषयान्तरादाकषेयन्तो वा । अमृतांशोश्चन्द्रन मसः। अंशवः । प्रतिदिशं सर्वासु दिक्षु । सश्चरन्ति । अत्र मालिनीछन्दः ॥ १७८॥'
___अस्य पद्यस्य स्वकीयत्वं सम्भावयति-इदम्ममेति । स्पष्टम् । .. अत्राभेदारोपं दर्शयितुं भेदं दर्शयति-अत्रेत्यादिना।।
अत्रोदाहृते पद्ये । उल्लासादीनाम् । आदिपदेनोत्सारणामीलनयोर्महणम् । सम्बन्धिभेदात् कुमुद-कामादिसम्बन्धिभेदात् । एव । भेदः। एवकारव्यवच्छेद्यं निर्दिशति-न तु । श्लिष्टतया । अतोऽत्राभेदारोपः सादृश्यमूल इति भावः । इदमभिहितम्-कुमुदस्योल्लासो विकासः, कामस्य पुनर्वर्द्धनम् ; तिमिरस्योत्सारणं तद्देशे सम्बन्धाभावः, धैर्य्यस्य पुनर्विनाशः; सरसिजस्यामीलनं सङ्कोचः, स्वान्तस्य पुनर्विषयान्तरादाकर्षणम् ; इत्येवं कुमुदकामादीनां भेदादेवो. ल्लासादेर्भेदः, तस्मिन् सत्यपि विकास इव वर्धनमिति सादृश्यमूलोऽभेदारोपः । इति । _ यथा वा-सह दिअसणिसाहिं दीहरा सासदंडा सह मणिवलयेहिं बाप्पधारा गलंति । तुह सुहअ विओए तीअ उबिग्गिरीए सह अ तुणुलदाए दुब्बला जीविदासा ॥' अत्र हि दीर्घत्वादेः श्वासादिनाऽन्वयः शाब्दः, दिवसनिशादिना त्वन्वयसामा.दार्थः, दीर्घादेश्च सम्बन्धिभेदादेव भेद इति दिवसनिशादीनां दीर्घत्वाभेदाध्यवसायः। तथा हिदिवसादेर्दीर्घत्वमनायासमनपनेयत्वम् , श्वासस्य पुनर्दूरप्रसारित्वमतिवेगशालित्वं वा, मणिवलयस्य गलनं पतनं, नेत्राम्बुनः पुनः प्रवहणम् , तनुलतायां दौर्बल्यं कार्यमकर्मण्यत्वं वा, जीविताशायाः पुनः कादाचित्कत्वम् ; इति भेदेऽप्यभेदाध्यवसायः । इति । एतेन-यदुक्त विवृतिकारैः-'वस्तुतस्तु यत्र वैचित्र्यमनुभूयते तत्रैवास्यालङ्कारत्वमङ्गीकरणीयम् । अन्यथा-'सह मणिवलयेहिं बाप्पधारा गलंति' इति काव्यप्रकाशदत्तोदाहरणमसङ्गतं स्यात् । अत्र स्वस्थानाच्च्यवनरूपं गलनमेकमेव । न च गलनयोरेकजातीयत्वेऽपि व्यक्तिभेदाद् भेद इति वाच्यम् , 'लक्ष्मणेन समं रामः काननं गहनं ययौ।'
१ 'सह दिवसनिशाभिर्दीघाः श्वासदण्डाः, सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥'इति संस्कृतम् ।
Loading... Page Navigation 1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910