Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । लताव्यवहारप्रतीतिः। रूपकगर्भत्वे यथा-'लावण्यमधुभिः पूर्ण'मित्यादि । सङ्करगर्भस्वे यथा-- 'दन्तप्रभापुष्पचिता'इत्यादौ 'सुवेशा इत्यत्र-झुपमारूपकसाधकबाधकाभावात्सङ्करसमाश्रयणम् । समासान्तरं पूर्ववत्, समासान्तरमहिना लेताप्रतीतिः। एषु च येषां मते उपमासङ्करयोरेकदेशविवर्तिता नास्ति, तन्मते आद्यतृतीययोः समासोक्तिः। द्वितीयस्तु प्रकार एकदेशविवतिनुपमै क्षणायाम् । लताव्यवहारप्रतीतिः । अयम्भावः-यद्यपि 'दन्तप्रभे'त्यादि विशेषणं प्रकृताप्रकृतानुगतत्वेन साधा
1, अथापि 'सुवेशे ति प्रकृतमात्रानुगतमिति प्रथममुपमितं समासमाश्रित्य 'दन्तप्रभेत्यादि उपमेयमेवानुगतं .सङ्गाच्छते । एवं च-पुष्पादिसदृशदन्तप्रभाचितत्वादिशालिनी हरिणेक्षणेति प्रथमोऽवगमः शक्त्योदेति, अनन्तरम् ‘दन्तप्रभा इव पुष्पाणी'ति समासान्तरमाहात्म्येन दन्तप्रभासदृशपुष्पचितत्वादिशालिनी हरिणेक्षणेत्यवगमस्तयैव शक्त्या व्यक्त्या वोदेति, अस्मिन् पक्षे हारणेक्षणा कापि लतेति प्रतीतिरीषद्गुरते । अथ-द्वाविमौ वाक्याौँ सव्येतरगोविषाणवद् विश्लिष्टौ यदि भवेता, तर्हि-हारणेक्षणाया लतात्वं सहृदयहृदयानुमतं न स्यात् , अस्ति च, एवं पुनर्वाक्यभेदोऽपि; अत:-यदि आनन्तरोऽर्थः प्रकृते आरोप्यते तदा न वाक्यभेदः, अत्र हेतुर्विशेषणसाम्यम् , एतदपि न श्लिष्टं, किंतु औपम्यगर्भितम् । एवं च-लतात्वव्यवहारवती हारणेक्षणेति बोधः सम्पद्यते, नतु लतेव हरिणेक्षणेति; 'सुवेशा' इति विशेषणस्य लक्षणया 'परीता' इत्यर्थेऽप्रकृतानुगते सम्पद्यमानेऽपि राजत्युमावल्लभ' इत्यत्रेव 'हरिणेक्षणा' इत्यत्र श्लिष्टत्वस्यानुपपत्तेः । इति ।
एवमौपम्यगर्भितमुदाहृत्य रूपकगर्भितविशेषणसाम्यत्वे समासोक्तिमदाहरति-रूपकगर्भत्व इत्यादिना । 'विशेषणसाम्यस्य समासोक्तिरिति शेषः । स्पष्टम् । ननु कथमिदमेकदेशविवर्ति रूपकोदाहरणमपीति चेत् ! मतान्तरमिदमिति गृहाण । अत एव विवृतिकारा अप्याहुः-'अत्र लावण्यमधुनोराह्लादकत्वे लोचनरोलम्बयोः श्यामत्वादिना स्फुटसादृश्यसम्भवाद्रूपकाणां बहुत्वाभावाच्च समासोक्तिरेव, न त्वेकदेशविवर्तिरूपकम् । एकदेशविवर्तिरूपकस्य यदेतदुदाहरणं दत्तं तन्मतभेदेनेत्यवगन्तव्यम् । नन्वत्र मध्वादीनां मुखे बाधात् प्राथमिकबोधानुपपत्तिारति चेत् ! न; यथा 'मुखचन्द्रं चुम्बति' इत्यादौ चुम्बनस्य मुखचन्द्रे बाधान्मुखे पर्यवसानं तथा मुखसम्बन्धस्य मध्वादावसम्भवालावण्यादौ पर्यवसानमिति खीकारात् । नन्वेवमपि पूर्ववत् समासद्वयाङ्गीकारेणोपमागर्भमेवेदमस्तु किमधिकेन रूपकगर्भत्वकल्पनेनेति चेत् ! सत्यम् , गतानुगतिकन्यायेनास्य प्रकारस्य स्वीकाराद् ग्रन्थकृतैव खण्डनीयत्वाच ।' इति ।
उपमारूपकगर्भत्व उदाहरति-सङ्करेत्यादिना।
सङ्करगर्भत्वे सङ्कर उपमारूपकयोः सन्दिग्धत्वं गर्भे यस्य तस्य भावस्तत्त्वं तस्मिन् सतीत्यर्थः 'विशेषणसा. म्यस्य समासोक्ति'रिति शेषः । यथा । 'दन्तप्रभापुष्पचिता'इत्यादौ।
नचेदमौपम्यमात्रगर्भत्वे उदाहृतं, कथं पुनरौपम्यरूपकोभयगर्भत्व उदाहियते इत्याशङ्कयाह-'सुवेशेत्यादि ।
हि यतः । 'सुवेशा इत्यत्र । 'परीता' इति पाठे। उपमारूपकसाधकबाधकाभावात् उपमारूपकयोः साधकबाधको तयोरभावस्तस्मात् । उपमाया यत्साधकं तदेव रूपकबाधकं, यच्च रूपकसाधकं तदेवोपमाबाधकम् , एवं च प्रकते 'सुवेशा' इत्यत्र 'परीते'ति पाठे नोपमा न वा रूपकं साधयितुं बाधितुं वा शक्यते, 'सुवेशे'त्येव पाठे तु उपमा सिध्यति रूपकं च बाध्यते; अत उपमारूपकयोः यत्साधकं बाधकं वा तस्या भाव: स्फुटः । इति भावः । सडुरसमाश्रयणम् । तथा च 'सुवेशे'ति पाठसत्त्वे इदमुपमाया एव, 'परीते'ति पाठे पुनरिदमेवोपमारूपकयोरिति फलि. तम् । ननु तथा समासे कथं रूपकमपीत्याह-समासान्तरमन्यः समासः समासपरिवर्तनमिति यावत् । पूर्ववत पूर्व यथा समासद्वैविध्यं दर्शितं तथात्र तृतीयविधः समासः समाश्रयणीयः । तथा च-रूपकगर्भत्वाङ्गीकारे 'दन्तप्रभा एव पुष्पाणि तैश्चिते'त्येवं समासो बोध्यः । ननु कथं तर्हि हरिणेक्षणायां लतात्वारोपः सेत्स्यतीत्याह-समासान्तरमहिना समासान्तरस्य रूपकानुयोगितः समासस्य महिमा सार्थक्यान्वेषणं तेन । लताप्रतीतिः।
अत्रापि मतभेदं दर्शयन् खमतमपि दर्शयति-एषु चेत्यादिना।
एषूदाहृतेषु त्रिषु विशेषणसाम्येषु मध्ये । च । येषाम् । मते सिद्धान्ते । उपमासङ्करयोरुपमाया उपमारूपकयोश्चेत्यर्थः । एकदेशविवर्तिता । न । अस्ति । ये उपमां रूपकं तदुभयं वा एकदेशविवर्तित्वेन नाङ्गीकुर्वन्ति इति भावः । तन्मते । आद्यतृतीययोः प्रथमतृतीययोरुदाहरणयोः । 'दन्तप्रभा...सुवेशा' इत्यत्र 'दन्तप्रभा..
Loading... Page Navigation 1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910