Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 833
________________ परिच्छेदः रुचिराख्यया व्याख्यया समेतः। स्वरूपमेव तत्पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो नतु स्वरूपसमारोपः" इत्याहुः । उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम् , इह तु विशेषणमात्रस्य; अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्य; इति भेदः। १३८ उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ॥ ११० ॥ यथा--'अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण ! रक्षेनं भीमाद्दुःशासनम् ॥' १३९ शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् । 'स्वभावादेकार्थे 'रित्यनेन शब्दश्लेषादस्य व्यवच्छेदः, 'वाचन' मित्यनेन च ध्वनेः । वस्थासाधम्य तस्याः समारोपस्तेन । अवच्छादितस्वरूपमवच्छादितं तिरोहितं स्वरूपं यस्य तत्तथोक्तम् । एव । तत् प्रकृतम् । पूर्वावस्थातः पूर्वाऽप्रकृप्तसाधारोपात्प्राग्भवाऽवस्था तस्याः । विशेषयति उत्कृष्टत्वेन बोधयतीति भावः । अत्र कर्तृपदमप्रकृतमित्येव । अतः। एव । "अत्र समासोक्तौ । व्यवहारसमारोपः । नतु । स्वरूपसमारोपः।"इति । आहः । उपमाध्वनौ । श्लेषे । च। विशेष्यस्य । अपि विशेषणस्य तु स्फुटमेवेति शेषः । साम्यम् । इहास्यां समासोक्तौ । तु । विशेषणमात्रस्य'साम्य'मिति पूर्वतोऽन्वेति 'प्रतीयत'इति शेषः । अप्रस्तसप्रशंसायाम। प्रस्तुतस्योपमेयस्य । गम्यत्वं ब्यङ्गयत्वम् । इह समासोक्तौ । तु। अप्रस्तुतस्योपमानस्य । इति इत्येवमित्यर्थः । भेदः। परिकरं लक्षयति-१३८ उक्तैः कथितैः । साभिप्रायैरभिप्रेतार्थबोधकतापूर्णैः प्रकृतार्थोपकारकचमत्कारि.. व्यङ्गथताशालिभिरिति यावत् (अत एवास्य हेतो_लक्षण्यम, व्यङ्गयस्य तत्रानावश्यकत्वात् )। विशेषणैः। परिकरः । मतः। परिकरोति प्रकृतमर्थमुपकरोतीति सोऽस्मिन्नस्तीति तथोक्तः । अत्र मत्वर्थीयोऽन् । 'संपरिभ्यां करोती भूषणे।' ६।१।१३७ इत्यनेन सुट् तु न, भूषणार्थाभावात् । अत्र 'विशेषणैरिति बहुवचनमविवक्षितम् , तेन-एकस्मिन् अपि प्रकृतार्थोपकारकचमत्कारिताव्यञ्जके विशेषणेऽप्ययं सम्भवति । अत एव वयं त्वालोचयामः-तादृशैक. विशेषणोपन्यासेऽप्यलकारत्वमुचितम्, अपुष्टार्थत्वविरहस्य निर्विशेषणतयाऽप्युपपत्ते,रनुभवसिद्धत्वाभावाद्वैचित्र्यस्य चानुभवसिद्धत्वात् । इति प्रदीपकाराः । अत्रोदाहरणं यथा-'क्षितिभृतैव सदैवतका वयं वनवता,ऽनवता किमहिनुहा' इति, 'विशेषण रिति विशेष्यस्याप्युपलक्षकम्, एतेन-'साभिप्राये विशेष्ये तु भवेत्पारकराङ्कुरः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥'इति चन्द्रालोककृताऽङ्गीकृतः पारकराङ्कुरोऽत्रैवान्तर्भावितः ॥ ११० ॥ उदाहरति-यथा-'अराजेत्यादिना ।। 'हे अङ्गराज अङ्गस्य दुर्योधनदत्तस्य देशविशेषस्य राजेति तत्सम्बुद्धौ तथोक्त ! सेनापते सेनाया रक्षकपदे नियुक्त । द्रोणोपहासिन् द्रोणं तन्नामानमाचार्यमुपहसतीत्येवंशील इति तत्सम्बुद्धौ तथोक्त ! हे कर्ण ! एनं दुर्योधनस्य भ्रातरं युवराजपदारूढमिति भावः । दुःशासनम् । भीमात् । रक्ष।' वेणीसंहारे भीमेन हन्यमानं दुःशासनं रक्षितुमक्षममाणं कर्ण प्रति तत्कृताचार्योपहासामर्षितस्याश्वत्थाम्न उक्तिरियम् । अत्र विशेषणत्रयं कर्णस्य तद्रक्षणौचित्यं सूचयत्रपां समुद्भावयति । यथा वा-'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव हो विभो। रभसा बत हन्त तावकं प्रहरन्ते न कथं निहंसि तान् ॥' इति । . श्लेषं लक्षयति-१३९ शब्दरित्यादिना । १३९ स्वभावात वस्तुतत्त्वविचारतः। एकाथैरनेकार्थप्रतिपादकताशुन्यैः । अनेकार्थवाचनमनेकार्थाभिधायकं शक्या, लक्षणया वा, तदुभयेन वाइति शेषः । श्लेषः। शब्दश्लेषाद्भेदकं निर्दिशति-'स्वभावादित्यादिना । स्पष्टम् । ध्वनेर्भेदकं निर्दिशति-वाचनमित्यादिना । स्पष्टम् । इदमुक्तम्-स्वभावत एकार्थकाः शब्दाः परिवृत्तिसहाः सन्त एवानेकार्थप्रतिपादका भवन्तीति शब्दश्लेषादेतस्य भेदः । अत एव प्रदीपकारा अप्याहु:-'परिवृत्तिसहानामेव शब्दानामैकबुन्तफलगत फलद्वयन्यायेन यत्रानेकार्थप्रतिपादकता सोऽर्थश्लेषः।' इति । एकस्मिन्नर्थेकाकरणादिना नियन्त्रिते ध्यानया द्वितीयोथों यत्र बुध्यते, स ध्वनिर्भवति, यथा--'राजत्युमावल्लभ' इत्यादौ, श्लेषोऽयं पुनरेकार्थशब्दमूलः, अतोऽत्र प्रकरणादिनियन्त्रणाभावः, प्रकरणादिनियन्त्रणभयं हि अनेकार्थानां शब्दानाम् । स्फुटश्चैवं ध्वनिश्लेषयोर्भेदः ।

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910