________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः। स्वरूपमेव तत्पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहारसमारोपो नतु स्वरूपसमारोपः" इत्याहुः । उपमाध्वनौ श्लेषे च विशेष्यस्यापि साम्यम् , इह तु विशेषणमात्रस्य; अप्रस्तुतप्रशंसायां प्रस्तुतस्य गम्यत्वम्, इह त्वप्रस्तुतस्य; इति भेदः।
१३८ उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः ॥ ११० ॥ यथा--'अङ्गराज ! सेनापते ! द्रोणोपहासिन् ! कर्ण ! रक्षेनं भीमाद्दुःशासनम् ॥'
१३९ शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाचनम् । 'स्वभावादेकार्थे 'रित्यनेन शब्दश्लेषादस्य व्यवच्छेदः, 'वाचन' मित्यनेन च ध्वनेः । वस्थासाधम्य तस्याः समारोपस्तेन । अवच्छादितस्वरूपमवच्छादितं तिरोहितं स्वरूपं यस्य तत्तथोक्तम् । एव । तत् प्रकृतम् । पूर्वावस्थातः पूर्वाऽप्रकृप्तसाधारोपात्प्राग्भवाऽवस्था तस्याः । विशेषयति उत्कृष्टत्वेन बोधयतीति भावः । अत्र कर्तृपदमप्रकृतमित्येव । अतः। एव । "अत्र समासोक्तौ । व्यवहारसमारोपः । नतु । स्वरूपसमारोपः।"इति । आहः । उपमाध्वनौ । श्लेषे । च। विशेष्यस्य । अपि विशेषणस्य तु स्फुटमेवेति शेषः । साम्यम् । इहास्यां समासोक्तौ । तु । विशेषणमात्रस्य'साम्य'मिति पूर्वतोऽन्वेति 'प्रतीयत'इति शेषः । अप्रस्तसप्रशंसायाम। प्रस्तुतस्योपमेयस्य । गम्यत्वं ब्यङ्गयत्वम् । इह समासोक्तौ । तु। अप्रस्तुतस्योपमानस्य । इति इत्येवमित्यर्थः । भेदः।
परिकरं लक्षयति-१३८ उक्तैः कथितैः । साभिप्रायैरभिप्रेतार्थबोधकतापूर्णैः प्रकृतार्थोपकारकचमत्कारि.. व्यङ्गथताशालिभिरिति यावत् (अत एवास्य हेतो_लक्षण्यम, व्यङ्गयस्य तत्रानावश्यकत्वात् )। विशेषणैः। परिकरः । मतः। परिकरोति प्रकृतमर्थमुपकरोतीति सोऽस्मिन्नस्तीति तथोक्तः । अत्र मत्वर्थीयोऽन् । 'संपरिभ्यां करोती भूषणे।' ६।१।१३७ इत्यनेन सुट् तु न, भूषणार्थाभावात् । अत्र 'विशेषणैरिति बहुवचनमविवक्षितम् , तेन-एकस्मिन् अपि प्रकृतार्थोपकारकचमत्कारिताव्यञ्जके विशेषणेऽप्ययं सम्भवति । अत एव वयं त्वालोचयामः-तादृशैक. विशेषणोपन्यासेऽप्यलकारत्वमुचितम्, अपुष्टार्थत्वविरहस्य निर्विशेषणतयाऽप्युपपत्ते,रनुभवसिद्धत्वाभावाद्वैचित्र्यस्य चानुभवसिद्धत्वात् । इति प्रदीपकाराः । अत्रोदाहरणं यथा-'क्षितिभृतैव सदैवतका वयं वनवता,ऽनवता किमहिनुहा' इति, 'विशेषण रिति विशेष्यस्याप्युपलक्षकम्, एतेन-'साभिप्राये विशेष्ये तु भवेत्पारकराङ्कुरः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥'इति चन्द्रालोककृताऽङ्गीकृतः पारकराङ्कुरोऽत्रैवान्तर्भावितः ॥ ११० ॥
उदाहरति-यथा-'अराजेत्यादिना ।।
'हे अङ्गराज अङ्गस्य दुर्योधनदत्तस्य देशविशेषस्य राजेति तत्सम्बुद्धौ तथोक्त ! सेनापते सेनाया रक्षकपदे नियुक्त । द्रोणोपहासिन् द्रोणं तन्नामानमाचार्यमुपहसतीत्येवंशील इति तत्सम्बुद्धौ तथोक्त ! हे कर्ण ! एनं दुर्योधनस्य भ्रातरं युवराजपदारूढमिति भावः । दुःशासनम् । भीमात् । रक्ष।' वेणीसंहारे भीमेन हन्यमानं दुःशासनं रक्षितुमक्षममाणं कर्ण प्रति तत्कृताचार्योपहासामर्षितस्याश्वत्थाम्न उक्तिरियम् । अत्र विशेषणत्रयं कर्णस्य तद्रक्षणौचित्यं सूचयत्रपां समुद्भावयति । यथा वा-'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव हो विभो। रभसा बत हन्त तावकं प्रहरन्ते न कथं निहंसि तान् ॥' इति । . श्लेषं लक्षयति-१३९ शब्दरित्यादिना ।
१३९ स्वभावात वस्तुतत्त्वविचारतः। एकाथैरनेकार्थप्रतिपादकताशुन्यैः । अनेकार्थवाचनमनेकार्थाभिधायकं शक्या, लक्षणया वा, तदुभयेन वाइति शेषः । श्लेषः।
शब्दश्लेषाद्भेदकं निर्दिशति-'स्वभावादित्यादिना । स्पष्टम् ।
ध्वनेर्भेदकं निर्दिशति-वाचनमित्यादिना । स्पष्टम् । इदमुक्तम्-स्वभावत एकार्थकाः शब्दाः परिवृत्तिसहाः सन्त एवानेकार्थप्रतिपादका भवन्तीति शब्दश्लेषादेतस्य भेदः । अत एव प्रदीपकारा अप्याहु:-'परिवृत्तिसहानामेव शब्दानामैकबुन्तफलगत फलद्वयन्यायेन यत्रानेकार्थप्रतिपादकता सोऽर्थश्लेषः।' इति । एकस्मिन्नर्थेकाकरणादिना नियन्त्रिते ध्यानया द्वितीयोथों यत्र बुध्यते, स ध्वनिर्भवति, यथा--'राजत्युमावल्लभ' इत्यादौ, श्लेषोऽयं पुनरेकार्थशब्दमूलः, अतोऽत्र प्रकरणादिनियन्त्रणाभावः, प्रकरणादिनियन्त्रणभयं हि अनेकार्थानां शब्दानाम् । स्फुटश्चैवं ध्वनिश्लेषयोर्भेदः ।