________________
२५४
साहित्यदर्पणः। पस्तुव्यवहारसमारोपः, शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्दा। तत्र लौकिकवस्त्वपि रसादिभेदादनेकविधम्, शास्त्रीयमपि तर्कायुर्वेदज्योतिःशास्त्रादिप्रसिद्धतयेति बहुप्रकारा समासोक्तिः। दिङ्मात्रं यथा-व्याधूय यद्धसनम्...' इत्यादौ लौकिके वस्तुनि लौकिकस्य हठकामुकस्य व्यवहारादेः समारोपः।
'येरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरध्ययमसङ्ख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥ १९१॥'
अघ्रागमशास्त्रमसिद्ध वस्तुनि व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपः। एवमन्यत्र, रूपके ऽप्रकृतमात्मस्वरूपसन्निवेशेन प्रकृतस्य रूपमवच्छादयति, इह तु स्वावस्थासमारोपेणावच्छादितसमारोपः । शास्त्रीये 'वस्तुनि' इति शेषः । वा। लौकिकवस्तुव्यवहारसमारोपः । इति । चतुर्दा । तत्र तेषु चतुष्षु प्रकारेषु मध्ये । लौकिकवस्तु । अपि । रसादिभेदात् । अनेकविधम् । एवम्-शास्त्रीयम् । अपि 'वस्त्वि'ति शेषः । तर्कायुर्वेदज्योतिशास्त्रादिप्रसिद्धतया 'अनेकविध मिति पूर्वेणान्वेति । इति । बहुप्रकाराऽनेकविधा। समासोक्तिः।
उदाहरति-दिङ्मात्रम् । यथा । 'व्याधूय । यद्धसनम्...' इत्यादौ । लौकिके । वस्तुनि । लौकिकस्य । हठकामुकस्य । व्यवहारादेः। समारोपः।
'हे भगवन् ! (इदमध्याहार्यम् ) । अखिलासु समस्तासु । अपि । वृत्तिषु वस्तुषु पदार्थान्वयेषु वा। अव्ययमविनाशिनं निपातविशेषं वा । असंख्यतयाऽनन्तरूपतया सख्याविशेषप्रतिपादकतया वा। प्रवृत्तम् । त्वाम् । एकरूपम् । पश्यद्धिः।यः। परत्वजुषः परत्वस्योत्कर्षस्य पुरोवर्तित्वस्य वा । विभक्त दाहस्य प्रत्ययविशेषस्य वा । लोपो निरासः । किलाकृतः। तैः। तव । लक्षणं विशिष्टज्ञानं सूत्रं वा । कृतम् । इति-ध्रुवं निश्चितम् । एव । मन्ये । वसन्ततिलकं वृत्तम्, एतल्लक्षणं चोक्तं प्राक् ॥ १९१ ॥'
उदाहाय्य निर्दिशति-अत्रेत्यादिना ।
अत्रोदाहते पद्ये । आगमशास्त्रप्रसिद्ध आगमा वेदाः शास्त्राणि न्यायादीवि तेषु प्रसिद्धस्तत्र । आगमानां शास्त्रत्वेऽपि ततो विभज्याभिधानं तेषामपौरुषत्वेन वैलक्षण्यद्योतनार्थम् । वस्तुनि 'भगवद्पे'इति शेषः । व्याकरणप्रसिद्धवस्तुव्यवहारसमारोपो व्याकरणप्रसिद्ध वस्तु अव्ययरूपं तस्य व्यवहारसमारोपः। एवम् । अन्यत्र लौकिके शास्त्रीयस्य शास्त्रीये वा लौकिकस्य व्यवहारस्य समारोप ऊह्य इति भावः । तत्र लौकिके शास्त्रीयव्यवहारसमारोपो यथा-'सीमानं न जगाम यन्नयनयोनान्येन यत्सङ्गतं न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत् तत् किश्चिदेणीदृशा लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥' शास्त्रीये लौकिकव्यवहारसमारोपो यथा कृत्वा सूत्रः सुगूढाथैः प्रकृतेः प्रत्ययं परम् । आगमान भावयन् भाति वैयाकरणपुङ्गवः ॥' इति दिक् । अत्र रसगङ्गाधरकाराः-'इयं चालङ्कारान्तरेषु बहुष्वानुगुण्येन स्थिता, यथा-"स्थितेऽपि सूर्ये पभिन्यो वर्तन्ते मधुपैः सह । अस्तंगते तु सुतरां स्त्रीणां कः प्रत्ययो भवेत् ॥' अत्र समर्थ्यत्वेन स्थिताऽर्थान्तरन्यासानुगुण्यमाधत्ते । "उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः कैरविण्यो रमन्ते मधुपैः सहः ।" अत्र समर्थकत्वेन"व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य स्तुतिमुदयत्रपाऽतिरेकात् । आभूमीतलनतकन्धराणि मन्येऽरण्येस्मिन्नवनिरुहां कुटुम्बकानि ॥" अत्र हि परकृतनिजस्तुत्याकर्णनकन्धरानमनादिविशेषणसाम्योत्थापितया समासोक्त्या सज्जनव्यवहाराभिन्नतया स्थित एब तरुव्यवहारे भूशाखासम्बन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतूत्प्रेक्षा सम्भवति,अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकताऽऽपत्तेः । इत्युत्प्रेक्षाऽनुगुणा समासोक्तिः । एवम्-“राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्य लिम्पतीव सुधाकरः ॥" इत्यत्रापि स्वामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसम्बन्धिखरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् ।' इत्यप्याहुः । - अलङ्कारान्तरादस्या भेदं निर्दिशति-रूपके इत्यादिना।।
रूपके । अप्रकृतमुपमानरूप । वस्तु । आत्मस्वरूपसन्निवेशेनात्मखरूपारोपणेन । प्रकृतस्योपमेयस्य । रूपं स्वरूपम् । अवच्छादयति तिरोधत्ते । इहास्यां समासोक्तौ । तु । स्वावस्थासमारोपेण खस्याप्रकृतस्य
निश्चितम् । एकाति-अत्रेत्यादिना
आगमा वेदाः