________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'नेरिवोत्पलैः पर्मुखैरिव सरः श्रियः। पदेपदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ १९० ॥'
इत्यादौ नास्त्येवान्यगतेः सम्भवः । किश्च उपमायां व्यवहारप्रतीतेरभावात् कथं तदुपजीविकायाः समासोक्तेः प्रवेशः ? यदाहुः--
'व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते । तन्नौपम्य समासोक्तिरेकदेशोपमा स्फुटा॥' इति ।
एवं च-उपमारूपकयोरेकदेशविवर्तिताऽङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टविशेषणोत्था- . पिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुष्प्रकारा समासोक्तिः, सर्वत्रैवात्र व्यवहारसमारोपः कारणम्। सच क्वचित् लौकिके वस्तुनि लौकिकघस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीय समाधानं तस्याः कल्पनं प्रणयनं दुराग्रहेण समर्थनं तस्मात् । एकदेशविवर्तिन्युपमाऽङ्गीकारस्य । एव । ज्यायस्त्वान्महनीयत्वात् । ननु धर्मिकल्पनातो धर्मकल्पनायां लाघव'मिति मयेनैकदेशविवर्तिन्युपमाकल्पनाऽपेक्षयोपमेयस्योपमानत्वकल्पनं वरमित्याशङ्कयाह-अस्तु । वा । अत्र 'ऐन्द्रं धनुरित्यादौ । यथा । कथञ्चित् । समासोक्तिः । किन्तु । 'नेरिवोत्पलैः...॥ १९०॥
अन्यगतेरेकदेशविवर्त्तिन्युपमाऽङ्गीकारभिन्नाश्रयस्य । सम्भवः। एव । न । अस्ति । 'किन्तु- . 'नेत्रै...।''...सम्भवः' इत्यस्य स्थाने नेत्ररिवोत्पलै' रित्यादौ चान्यगत्यसम्भवात् इति विवृतिकारसम्मतः पाठः,अत एव 'अन्यगत्यसम्भवात्समासोक्तिप्रकारासम्भवात् एकदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता' इति पूर्वेणान्वयः । ननु प्रागुक्तयुक्त्या उत्पलादावुपमानत्वं सञ्चारणीयमिति चेत्, न; 'आईनखक्षताभ'मित्यत्राा उपमाया अर्थवशेनैव कल्पनाया योग्यत्वात प्रकृते तु श्रौत्यास्तदसम्भवादिति भावः ।' इति विवृतिकाराः । ननु अत्रापीवशब्दव्यत्ययेन व्यवहारारोप: सेत्स्यतीत्यत आहकिश्चान्योऽपि तत्र समासोक्तरनङ्गीकारे हेतुरिति भावः । उपमायाम् । व्यवहारप्रतीते। अभावात् असम्भवात् । 'विशेषणानां सादृश्योपलम्भमहिनाविशेष्यस्यापि अध्याहारेण प्रथमत एव सादृश्यप्रतीतिरनुभवसिद्धा, तयैव श्रोतुराकाङ्क्षाविरहाद् व्यवहारव्यञ्जनं न भवतीति भावः ।' इति विवृतं तर्कवागीशैः कथम् । तदुपजीविकायाः सा व्यवहारप्रती. तिरेवोपजीवितोपस्कारिका यस्यास्तस्यास्तथोक्तायाः। समासोक्तेः । प्रवेशोऽन्तर्भावः । ननु समासोक्तो प्राधान्येन व्यवहारप्रतीत्यङ्गीकारे किं मानमित्याशङ्कय प्राचां संवादं निर्दिशति-यत् । आहुः।
'यत् यस्मिन् । औपम्ये सादृश्ये सति । व्यवहारोऽप्रस्तुतसाधर्म्यम् । अथवा । तत्त्वम् अप्रस्तुतत्वम् । 'तत्त्वप्रतीतौ समासोक्तिमन्ये स्वीकुर्वन्ति तन्मतानुसारेणैवा 'थवा तत्त्व' मित्युक्तम् ।' इति विवृतिकाराः । प्रतीयते व्यज्यते । तत् । औपम्यम् । समासोक्तिः। न । किन्तु-एकदेशोपमा एकदेशविवर्तिन्युपमा । • स्फुटाऽनुभवसिद्धा। औपम्योत्थापितमप्रस्तुतसाधर्म्यमप्रस्तुतत्वं वा । समासोक्तरविषयः, विषयः पुनरेकदेशोपमाया इति फलितोऽर्थः ॥' इति । ___उक्तमर्थं प्रकृते सङ्गमयति-एवम् । च । उपमारूपकयोः । एकदेशविवर्तिताऽङ्गीकारे । तन्मूलसधेरे एकदेशविवर्तितामूलकोपमारूपकसङ्करे । अपि चेत्यर्थः । समासोक्तेः । अप्रवेशोऽति न्यायसिद्धः । एव । तेन । औपम्यगर्भविशेषणोत्थापितत्वं विशेषणसाम्यस्यौपम्यगर्भत्वमिति भावः । अस्याः समासोक्तेः । विषयः । न । इति । विशेषणसाम्ये । श्लिष्टविशेषणोस्थापिता । साधारणविशेषणोत्थापिता । च 'समासोक्ति' रिति शेषः । इति । द्विधा, 'ननु त्रिधा' इति शेषः । कार्यलियोः । तुल्यत्वे सादृश्ये । च । 'सम्भवतीति शेषः । द्विविधा । इति । चतुष्प्रकारा । समासोक्तिः। सर्वत्र सर्वप्रभेदासु । एव । अत्रासु समासोक्तिध्विति भावः । व्यवहारसमारोपः । 'अप्रस्तुतस्य'ति शेषः। कारणम् । सोऽप्रस्तुतव्यवहारसमारोपः । च । क्वचित् । लौकिके । वस्तुनि । लौकिकवस्तुव्यवहारसमारोपस्तद्रूप इति भावः । शास्त्रीये । वस्तुनि । शास्त्रीयवस्तुव्यवहारसमारोपः। लौकिके । वा 'वस्तुनी'ति शेषः । शास्त्रीयवस्तुष्यवहार.