________________
वाङ्गीकर्नुमुचिता। अन्यथा--
'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । .
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रखेरभ्यधिकं चकार ॥ १८९ ॥' - इत्यत्र कथं शरदि नायिकाव्यवहारप्रतीतिः । नायिकापयोधरेणार्द्रनखक्षताभशकचापधारणासम्भवात् । ननु अत्र 'आर्द्रनखक्षताभ'मित्यत्र स्थितमप्युपमानत्वं वस्तुपथ्योलोचमया ऐन्द्रे धनुषि सञ्चारणीयम् । यथा-'दना जुहोती' त्यादौ हवनस्यान्यथा सिद्धेर्दधि सञ्चार्यते विधिः । एवं च--इन्द्रचापाभमानखक्षतं दधानेति प्रतीतिर्भविष्यतीति चेत् ! न एवंविधानिर्वाहे कष्टसृष्टिकल्पनादेकदेशविवर्तिन्युपमाऽङ्गीकारस्यैव ज्यायस्त्वात् । अस्तु वाऽत्र यथाकथञ्चित समासोक्तिः, किन्तुरीता' इत्यत्र चेति यावत् । समासोक्तिः। द्वितीयो रूपकगर्भितत्वरूपः । तु । प्रकारो भेदः । एकदेशविवर्तिरूपकविषयः । एव । एवकारेण समासोक्तेढुंदासः । तदेवाहुः मुखे मध्वाद्यन्वयस्यासम्भवात् प्रथमत एव पद्माध्याहारेण प्रतीतिः, कुतो व्यजनामात्रप्राणासमासोक्तिरिति भावः । इति । पालोचने परितः सिद्धान्तत्वेनालोचनं विचारस्तस्मिन् सति । तु । आद्य प्रकारे । 'दन्तप्रभा...सुवेशा...' इत्युदाहरण इति भावः । एकदेशविवर्तिनी। उपमा । एव । एवकारेण समासोक्तयुदासः अङ्गीकर्तुम् । उचिता । अन्यथा प्रकृते तदनङ्गीकारात्
'पाण्डुपयोधरेण पाण्डुनीलतया श्वेतः, अन्यत्र दुग्धसम्भूततया श्वेतपीतः, असौ पयोधरो मेघः, अन्यत्र कुचस्तेन । 'पाण्डः कुन्तीपतौ सिते ।' इति हैमः, 'हरिणः पाण्डुरः पाण्डु'रित्यमरः, 'पयोधरः कोषकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि'इति मेदिनी । आईनखक्षताभमानखक्षतसदृशम् । ऐन्द्रमिन्द्रसम्बन्धि । धनुश्वापम् । दधाना । सकलडूंचिह्नविशेषशालिनं परस्त्रीगामिताऽपवाददूषितं वा । इन्दुम् । प्रमोदयन्ती 'प्रसाधयन्तीति पाठान्तरम् । शरत रवेः सूर्यापेक्षया सूर्यस्य वा। अभ्यधिकम् । तापमूचकार । अनेन्द्रवज्रोपैन्द्रवज्रयोरुपजातिश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १८९ ॥
इत्यत्र । शरदि। नायिकाव्यवहारप्रतीतिः। कथम् । शरदो नायिकासहशत्वेन सहृदयहृदयाभ्यनुमता प्रतीतिन स्यात्, किन्तु अस्ति; तस्मात्तत्राप्यत्रेव सङ्गतिर्बोद्धव्येति भावः । ननु किमिह कारणमित्याशक्य तनिर्दिशतिनायिकापयोधरेण नायिकावत् (नायिकाया इव) पयोधरस्तेन । 'शरद'इति शेषः । आर्द्रनखक्षताभशक्रचापधारणासम्भवात् । इदमुक्तम्-नायिकेव यदि शरनाङ्गीक्रियेत ! तदा तथाऽभिधानं न सङ्गच्छेत । अतः-नायिकायाः शरदश्च, पयोधरस्य पयोधरस्य च, इन्दोर्जारस्य च, नायकस्य सूर्य्यस्य च यत्सादृश्यं तदार्थम् , आर्द्रनखक्षतस्यन्द्रधनुषश्च सादृश्यं शाब्दमित्येकदेशविवर्तिन्युपमा यथा प्रकृतेऽङ्गीक्रियते तथा 'दन्तप्रभापुष्पचिते'त्यत्रापीति निधिोपपत्तिः । इति । एतदेव स्थूणानिखननन्यायेन द्रढयति-ननु । अत्र 'आर्द्रनखक्षताभ'मित्यत्र । स्थितम् । अपि । उपमानत्वम् । वस्तुपालोचनया वस्तुनोऽभिप्रेतार्थस्य पालोचना तात्पर्य्यान्वेषणं तया। ऐन्द्र। धनुषि । सञ्चारणीयम् । 'याचितमण्डनन्यायेनेति शेषः । तदेवागमसिद्धं दृष्टान्तेन स्पष्टयति-यथा। 'दना । जहोति । इत्यादौ'आगमवाक्ये' इति शेषः । हवनस्य होमस्य । अन्यथा अग्निहोत्र जुहुयात्'इत्यागमपचनद्वारा । सिद्धेः। दनि दधिपदे । विधिरप्राप्तप्रापकत्वरूपाऽऽगमोपदेशशक्तिः । सश्चार्य्यते । 'तथाऽऽनखक्षताभमित्यत्र स्थितमप्युपमानत्वं वस्तुप-लोचनया ऐन्द्रे धनुषि सञ्चार्यते इति प्रकृतः सम्बन्धः । फलितमवगमयति-एवम । च । ऐन्द्रचापाभम् । आर्द्रनखक्षतम् । दधाना। शर'दिति शेषः। इति । प्रतीतिः। भविष्यति । इदमुक्तम्-'अग्निहोत्रं जुया'दित्युत्पत्तिवाक्यम्, एतेन हवनं विहितम्, विहितस्यास्य च 'दना जुहोती'त्यादिना पुनर्विधानमनुपयुक्तम् , तदिति तत्रादग्धदहनन्यायेन दधिपदे याचितमण्डनमिव सञ्चार्य्यते, तथा प्रकृते नायिकाया आईनखक्षतामैन्द्रधनुर्धारणोपयोगिताऽनुपपत्तौ ऐन्द्रे धनुषि उपमानत्वं याचितमण्डनन्यायेन सञ्चारणीयम् । एवं च-'ऐन्द्रधनुराभमानखक्षत'मिति प्रत्ययोपपत्तौ नायिकाया उपमानत्वप्रत्ययो निर्बाधं सम्पत्स्यते । एतेन ऐन्द्र'मित्यादौ कथं शरदि 'नायिकाव्यवहारप्रतीतिरिति दत्तोत्तरम् । इति । आक्षिपति-इति । चेत् 'समाधत्से'इति शेषः । न। 'एवं समाधेय'मिति शेषः । हेतुं निर्दिशति-एवंविधानिर्वाहे । कष्टसृष्टिकल्पनात् कष्टाया सृष्टिः