Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 836
________________ २५८ साहित्यदर्पणः । [ दशम: अत्र सम्भाव्यमानेभ्य इन्द्रादिगताञ्जनलिप्तत्वादिभ्यः काय्येभ्यो वदनादिगतसौन्दर्य्यविशेरूपं प्रस्तुतं कारणं प्रतीयते । 'गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्य्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ॥ १९६ ॥ अत्र कस्यचिदगमनरूपे कार्य्यं कारणमभिहितम् । तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा, श्लेषमूला, सादृश्यमात्रमूला चः श्लेषमूलाऽपि समासोक्तिवद्विशेषणमात्रश्लेषे श्लेषवद्विशेभ्यस्यापि - श्लेषे भवतीति द्विधा । क्रमेण यथा- 'सहकारः खदामोदो वसन्त श्रीसमन्वितः । समुज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः॥ १९७॥' च्छविः श्यामेव सीताया गिरो माधुर्य्यात् पुरस्ताच कोकिलानां कण्ठध्वनिः कर्कश इव, सीतायाः केशच्छवेः पुरस्ताच्च बर्हाणि गर्हितानीव जातानि । इति । महानाटकस्येदं पद्यम्, अत्र शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ १९५ ॥ लक्ष्यार्थं निर्दिशति - अत्रेत्यादि । अत्रोदाहृते पद्ये । सम्भाव्यमानेभ्य उत्प्रेक्ष्यमाणेभ्यः । इन्द्रादिगताञ्जनलिप्तत्वादिभ्य आदिपदाभ्य दृष्टया देर्जडितत्वादेश्व ग्रहणम् । काय्यैभ्यः । 'अभिधीयमानेभ्य' इति शेषः । वदनादिगतसौन्दर्य्यविशेषरू पभू | 'सीताया' इति शेषः । प्रस्तुतम् । कारणम् । प्रतीयते । 'गच्छामि साम्प्रतं गमिष्यामि । ' वर्त्तमानसामीप्ये वर्त्तमानवद्वा । ३ । ३ । १३१ इति लट् । इति । मया । उक्तया । मृगदृशा मृगाक्ष्या । उद्वेकिणं दीर्घम् । निःश्वासम् । त्यक्त्वा । बाष्पकलुषेण बाष्पेणाअनकलुषितेनाश्रुणा कलुषं तेन मलिनं तेन । 'कलुषोऽनच्छ आविल: ।' इत्यमरः । एकेन । चक्षुषा । माम् । तिर्यक् वक्रम् । अवेक्ष्य दृष्टा । अद्य । मदर्पितं मय्यर्पितमिति तत्तथोक्तम् । प्रेम ( कर्म ) । त्वया । प्रियसखीवृन्दे प्रियाः प्रीतिपात्रभूताः सख्योऽनुरागेण गृहीता अन्या अङ्गनास्तासां वृन्दं समूहस्तत्र । बध्यताम् । इत्थate प्रकारेण | स्नेहविवर्धितः स्नेहेन विवर्धितः परिपोषितः । मृगशिशुर्मृगपोतः । सोत्प्रासं साक्षेपम् । आभाषितः । कस्यचित् सखायं प्रति स्वभाविप्रयाणश्रवणदुःखितकुपिताया: खोत्सङ्गस्थ मृगशावकनिराकरणेन खप्रयाणं निषेधन्त्याश्चेष्टितवर्णनमिदम् । अनु शार्दूलविक्रीडितं वृत्तम् ॥ १९६ ॥ ' लक्ष्यार्थ निर्दिशति - अत्रेत्यादिना । अत्र । कस्यचित् ( स्वप्रियायाश्चेष्टितं वर्णयतः ) । अगमनरूपे गमनावरोधात्मनि । काय्यें । प्रस्तुते तदनभिधाय' इति शेषः । कारणं प्रेयस्या उद्वेगाधिक्यरूपो हेतुः । अभिहितम् । अय प्रेमे' त्यादिनेति शेषः । तथा - प्रेयस्या उद्वेगाधिक्यरूपादभिहितादप्रस्तुतात् कारणात् प्रेयसो गमनावरोधरूपं प्रस्तुतं कार्य्यं सूचितमिति निष्कृष्टोऽर्थः । समात् समे प्रस्तुतेऽस्या भेदानाह - तुल्ये इत्यादिना । तुल्ये समे । प्रस्तुते । तुल्याभिधाने तुल्यस्य समस्य अप्रस्तुतस्याभिधानं तत्र । च । 'अप्रस्तुतप्रशंसे 'ति शेषः । द्विधा । तदेव स्पष्टयति- श्लेषमूला । सादृश्यमात्रमूला । मात्रपदेन श्लेषस्य व्यवच्छेदः । च । श्लेष मूला । अपि । समासोक्तिवत् समासोक्तिरिव । विशेषणमात्रश्लेषे । मात्रपदेन विशेष्यस्य व्यवच्छेदः । 'सम्भवती 'ति शेषः । श्लेषवत् श्लेष इव । विशेषस्य । अपि 'विशेषणस्य चे 'त्यर्थः । श्लेषे । भवति । इति । द्विधा । उदाहर्तुमुपक्रमते - क्रमेणेत्यादिना । स्पष्टम् । 'सहकार इत्यादि । 'सदामोदः सन्नामोदः सौरभमानन्दो वा यस्य तथोक्तः । 'आमोदः सोऽति निर्हारी 'ति '... प्रमोदा मोदसम्मदाः ' इति चामरः । वसन्त श्रीसमन्वितो वसन्तस्य श्री : शोभा वेशरचना वा तया समन्वितो वसन्तशोभाया हेतुत्वेनावस्थितः, वसन्तकालोचितवेशशाली वेति भावः । 'श्रीर्वेश (ष) रचना शोभा भारतीसरलदुमे । लक्ष्म्यां त्रिवर्गस. पत्तौ वेषोपकरणे मतौ ॥' इति विश्वमेदिन्यौ । समुज्वलरुचिः सम्यगुज्ज्वला मनोरमा रुचिदप्तिः सम्यगुज्ज्वले शृङ्गारे रुचिरभिलाषो वा यस्य तथोक्तः । 'उज्ज्वलस्तु विकासिनि । शृङ्गारे विशदे दीसेऽपीति हैमः । श्रीमान्

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910