Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 834
________________ साहित्यदर्पणः । उदाहरणम् 'प्रवर्त्तयन् क्रियाः साध्वीर्मालिन्यं हरितां हरन् । महसा भूयसा दीप्तो विराजति विभाकरः ॥ १९२॥' अत्र प्रकरणादिनियमाभावाद् द्वावपि राजसूय्यौ वाच्यौ । ३५६ [ दशमः १४० क्वचिद्विशेषः सामान्यात्सामान्यं वा विशेषतः ॥ १११ ॥ कार्य्यान्निमित्तं कार्यं च हेतोरथ समात् समम् । अप्रस्तुतात् प्रस्तुतं चेद्गम्यते पञ्चधा ततः ॥ ११२ ॥ अप्रस्तुतप्रशंसा स्याद् क्रमेणोदाहरणम् 'पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्था देवापमानेऽपि देहिनस्तद्वरं रजः ॥ १९३ ॥ ' एतेन -'विभाकरः सूर्य्यस्तन्नामको राजा चे 'ति श्लेषोदाहरणप्रसङ्गे व्याख्यानं निरस्तम्, तत्सद्भावाङ्गीकारे हि उपमाध्वनिवारणासम्भवः । इति सुष्छूक्तम् 'वाचन' मित्यादि । इति । उदाहर्तुमुपक्रमते - उदाहरणम् । (उदाह्रियते इति भावः ) ' प्रवर्तयन्नित्यादिना । ‘साध्वीः शोभनाः सन्ध्योपासनादिरूपा निर्विघ्नगमनादिरूपाश्च, अन्यत्राविरुद्धाचरणरूपाः । क्रियाः । प्रवर्त्तयन् । हरितां दिशाम्, अन्यत्र तत्रत्यदस्युजनानाम् । मालिन्यं तमखितासम्पत्तिम्, अन्यत्रोद्दण्डत्वादिरूपम् । हरन् निरस्यन् निर्वर्त्तयन् वा । भूयसाऽतिविपुलेन । महसा तेजसा । दीप्तः । विभाकरः सूर्यः, अन्यत्र लक्षणा तथाऽभिमतो राजा । विराजति ॥ १९२॥' विभाकरशब्दस्य राजविशेषवाचकत्वाभावेनानेकार्थकत्वाभावादभिधाया नियन्त्रणं न सम्भवति, अतोऽत्रोपमाध्वनिशङ्का हेयेत्याशयेनाह - अत्रेत्यादिना । स्पष्टम् । वाच्यो 'अभिधया लक्षणया चे 'ति शेषः । अत्र वाच्यशब्दो व्यङ्गयातिरिक्ताभिप्रायपरतया लक्ष्यस्याप्युपलक्षको बोध्य इति सर्वे निरवद्यम् । यथा वा - 'स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ इत्युदाहृते पद्ये । अप्रस्तुतप्रशंसां लक्षयति-१४० क्वचित् । सामान्यात् साधारणात् । विशेषः । वा । क्वचित्-विशेषतो विशेषात् । सामान्यम् । कचित् कार्य्यात् । निमित्तं कारणम् । क्वचित् हेतोः कारणात् । च । कार्य्यम् । अथ । क्वचित्-समात् सदृशात् । समं सदृशम् । इत्येवम् - अप्रस्तुतात् । प्रस्तुतम् । चेत् । गम्यते व्यज्यते । ततः । अप्रस्तुतप्रशंसाऽप्रस्तुतस्य प्रशंसाकथनमिति तदभिधेयाऽलङ्कृतिः । पञ्चधा पञ्चविधा । स्यात् । इदमुक्तम् - अप्रस्तुतात् प्रस्तुतस्य व्यङ्गयत्वमप्रस्तुतप्रशंसा, सा च पञ्चविधा, अप्रस्तुतात् प्रस्तुतस्य व्यज्यमानस्य पञ्चवि धत्वात् । तत्र प्रस्तुतं सामान्यरूपं, विशेषरूपं, कार्य्यं रूपं, निमित्तरूपं, समरूपं च प्रस्तुतमप्येवं क्रमेण विशेषरूपं, सामान्यरूपं, निमित्तरूपं, कार्यरूपं, समरूपं चेति । तथा च - 'अप्रस्तुतात्' इति 'सामान्या' दित्यादिना, 'प्रस्तुत 'मिति लिङ्ग विपरिणामविपरिणामाभ्यां 'विशेष' इत्यादिना च विशिनष्टि, तथा हि- चेत् सामान्यात् अप्रस्तुतात् क्वचित् विशेषः प्रस्तुत गम्यते तर्हि प्रथमा, चेत् विशेषादप्रस्तुतात् सामान्यं प्रस्तुतं क्वचिद् गम्यते तर्हि द्वितीया, चेत् क्वचित् कार्य्यादप्रस्तुतात् निमित्तं प्रस्तुतं गम्यते तर्हि तृतीया, चेत् निमित्तात् अप्रस्तुतात् क्वचित् कार्य्यं प्रस्तुतं गम्यते तर्हि चतुर्थी, कचिचेदेवं समादप्रस्तुतात्समं प्रस्तुतं गम्यते तर्हि पञ्चमी अप्रस्तुतप्रशसा स्यात् इति फलितोऽर्थः । अस्याः सामान्यं लक्षणम् 'अप्रस्तुतात् प्रस्तुतं गम्यते चे' दिति, विशेषलक्षणं पुनः 'क्वचिद्विशेषः सामान्या' दित्यादि । अत्राप्रस्तुतात्प्रस्तुतस्य व्यङ्ग्यत्वम्, समासोन्तौ तु प्रस्तुतात् अप्रस्तुतस्य व्यङ्ग्यत्वम्, इत्यनयोर्भेदः । इति ॥ १११ ॥ ११२ ॥ उदाहर्तुमुपक्रममाण आह- क्रमेणेत्यादि । स्पष्टम् | 'पादेत्यादि । 'यत् (रजः ) पादाहतं पादेनाहतं ताडितमिति तथोक्तम् । 'स' दिति शेषः । उत्थायोगतं भूत्वा । मूर्धानं मस्तकम् । अभरोहत्यधितिष्ठति । तत् । रजः । अपमानेऽवज्ञायां सत्याम् । अपि । स्वस्थादप्रति• कारेच्छो: । एव । देहिनः प्राणिनस्तदपेक्षयेति यावत् । वरमुत्तमम्, मनागभिमतं वा । 'देवावृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक प्रिये ।' इत्यमरः । शिशुपालवस्येदं पद्यम् । बलदेवस्य सभायामुक्तिरियम् ॥ १९३ ॥'

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910