Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 828
________________ . - साहित्यदर्पणः। [ दशमः-- नन्वस्ति रणान्तःपुरयोरपि सुखखञ्चारतया स्फुटं सादृश्यमिति चेत् ! सत्यमुक्तम् । अस्त्येव, किंतु वाक्यार्थपालोचनसापेक्षम्, न खलु निरपेक्षम् ; मुखचन्द्रादेर्मनोहरत्वादिषद रणान्तःपुरयोः स्वतः सुखसञ्चारत्वाभावात् । साधारण्येन यथा-- . 'निसर्गसौरभोद्धान्तभृङ्गसङ्गीतशालिनी। उदिते पाखराधीशे स्मेराऽजनि सरोजिनी॥१८७॥' .. अत्र 'निसगैत्यादिविशेषणसाम्यात् सरोजिन्या नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मरत्वधर्मस्य समारोपः कारणम्, तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । औपम्यगर्भवं पुनस्त्रिधा सम्भवति, उपमारूपकसङ्करगर्भत्वात् । तत्रोपमागर्भत्वे यथा 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेशा हरिणेक्षणा॥१८८॥'इति, अत्र सुवेशत्ववशात् प्रथम दन्तप्रभाः पुष्पाणीवे'त्युपमागर्भत्वेन समासः, अनन्तरं च 'दन्तप्रभासदृशैः पुष्पैश्चिते' त्यादिसमासान्तराश्रयेण समानविशेषणमाहात्म्यारिणेक्षणायां तदेव ढयितुमाशङ्कयोत्तरयति-नन्वित्यादिना। स्पष्टम् । साधारण्येन विशेषणसाम्ये समासोक्तिमुदाहर्तुमाह-साधारण्येनेत्यादि । स्पष्टम् । 'वासराधीशे वासराणां दिनानामधीशस्तत्र । उदिते 'सती'ति शेषः । निसर्गसौरभोद्धान्तभृङ्गसङ्गीतशालिनी निसर्गसौरभेण खभावसिद्धन सौगन्ध्येनोद्धान्ता अत्यन्तं मत्तता नीता ये भृङ्गा भ्रमरास्तेषां सङ्गीतं झङ्कार. शब्दरूपं सुष्ठ गानं तद्वद्वा सङ्गीतं तेन शालते शोभत इत्येवंशीलेति तथोक्ता । सरोजिनी पद्मिनी । स्मेरा सुस्मिता । -अजनि जाता ॥ १८ ॥ ननु श्लिष्टविशेषणस्य द्वयर्थवाचकतयाऽस्तु नामार्थान्तरप्रतिपादकत्वेन, तेन चास्तां समासोक्तिप्रत्ययः, किन्तु प्रकृते कथं साधारणविशेषणत्वे सङ्कतिरित्याशङ्कयाह-अत्रेत्यादि । अत्रोदाहते पद्ये । 'निसर्गे'त्यादिविशेषणसाम्यात् 'निसर्गसौरभोझान्तभृङ्गसङ्गीतशालिनीति विशेषणस्य सरोजिनीनायिकोभयसाधारण्येन । सरोजिन्याः । नायिकाव्यवहारप्रतीतौ । स्त्रीमात्रगामिनः । मात्रपदेन सरोजिन्या व्यवच्छेदः । स्मरत्वधर्मस्य । समारोपः। कारणं । सहकारिकारणमिति भावः । तेन स्मरत्वसमा. रोपेण । विना । विशेषणसाम्यमात्रेण । नायिकाव्यवहारप्रतीतेः । असम्भवात् । इदमुक्तम्-उदाहृते पद्ये 'निसर्गे'ति विशेषणं विषयविषय्युभयसाधारण 'स्मेरे'तिविशेषणसादिव्येन सरोजिन्यां नायिकाव्यवहारं प्रत्याययति इति । अत एव विवृतिकारैरप्युक्तम्-'असम्भवादिति।साधारणविशेषणस्य वाच्यविशेषणाधानेनैवोपक्षीणतया व्यङ्गयबोधे सामर्थ्यामावादिति भावः।एवं च-साधारणविशेषणमप्रस्तुतासाधारणधर्मारोपादिसहकृतमेवार्थान्तरप्रतिपादकमिति फलितम् ।'इति । औपम्यगर्भेण विशेषणसाम्येन समासोक्तिमुदाह कामस्तत्रतावत्तस्य त्रैविध्यमाह-औपम्येत्यादिना । औपम्यगर्भत्वमौपम्य सादृश्यं गर्भन्तर्यस्य (विशेषणसाम्यस्य ) तस्य भावस्तत्त्वम् । पुनः । उपमारूपका सरगर्भत्वात् उपमा च रूपकं च सङ्कर उपमारूपकयोः सन्दिग्धत्वं चेति ते गर्भ येषां तेषां भावस्तत्त्वं तस्मात् । उपमागर्भत्वेन रूपकगर्भत्वेन उपमारूपकोभयगर्भत्वेन चेति भावः । त्रिधा । सम्भवति । तत्र तेषु मध्ये । उपमागर्भत्वे 'सति विशेषणसाम्यात्समासोक्ति'रिति शेषः । यथा-'दन्तेत्यादि । ___ 'दन्तप्रभापुग्पचिता दन्तानां प्रभाः, ताः पुष्पाणीव तैश्चिता व्याप्ता । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।' २१५।५६ इति सूत्रेणोपमेयस्य पूर्वनिपातः । पक्ष-दन्तप्रभा इव पुष्पाणि तैश्चिता । पाणिपल्लवशोभिनी पाणिः पल्लव इवेति,पक्ष पाणिरिव पल्लव इति; शोभत इत्येवंशीला इति तथोक्ता । केशपाशालिवृन्देन केशपाशोऽलि. न्दमिवेति, पक्षे केशपाश इवालियन्दमिति, तेन । सुवेशा रुचिरनेपथ्या । हरिणेक्षणा ॥ इति ॥ १८८ ॥' अत्रौपम्यगर्भत्वं विशदीकस्य निर्दिशति-अवेत्यादिना। अत्र । सुवेशस्ववशात्सुवेशत्वसामर्थ्यात् । (हरिणेक्षणायाः) 'सुवेशे'ति विशेषणमाश्रित्येति यावत् । प्रथमम् । 'दन्तप्रभाः । पुण्याणीष ।' इत्युपमागर्भत्वेनोपमितत्वेनेति भावः । समासः। अनन्तरम् । च । 'दन्तप्रभासदृशैः। पुष्पैः । चिता व्याप्ता।' इत्यादिसमासान्तराश्रयेण तद्भिन्नसमासस्याश्रयेण । समानविशेष. णमाहात्म्यात् समान प्रकृताप्रकृतोभयानुगतं यद्विशेषणं ('दन्तप्रभापुष्पचिता' इत्यादि) तस्य माहात्म्य तस्मात् । हरि

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910