________________
. - साहित्यदर्पणः।
[ दशमः-- नन्वस्ति रणान्तःपुरयोरपि सुखखञ्चारतया स्फुटं सादृश्यमिति चेत् ! सत्यमुक्तम् । अस्त्येव, किंतु वाक्यार्थपालोचनसापेक्षम्, न खलु निरपेक्षम् ; मुखचन्द्रादेर्मनोहरत्वादिषद रणान्तःपुरयोः स्वतः सुखसञ्चारत्वाभावात् । साधारण्येन यथा-- .
'निसर्गसौरभोद्धान्तभृङ्गसङ्गीतशालिनी। उदिते पाखराधीशे स्मेराऽजनि सरोजिनी॥१८७॥' .. अत्र 'निसगैत्यादिविशेषणसाम्यात् सरोजिन्या नायिकाव्यवहारप्रतीतौ स्त्रीमात्रगामिनः स्मरत्वधर्मस्य समारोपः कारणम्, तेन विना विशेषणसाम्यमात्रेण नायिकाव्यवहारप्रतीतेरसम्भवात् । औपम्यगर्भवं पुनस्त्रिधा सम्भवति, उपमारूपकसङ्करगर्भत्वात् । तत्रोपमागर्भत्वे यथा
'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेशा हरिणेक्षणा॥१८८॥'इति,
अत्र सुवेशत्ववशात् प्रथम दन्तप्रभाः पुष्पाणीवे'त्युपमागर्भत्वेन समासः, अनन्तरं च 'दन्तप्रभासदृशैः पुष्पैश्चिते' त्यादिसमासान्तराश्रयेण समानविशेषणमाहात्म्यारिणेक्षणायां
तदेव ढयितुमाशङ्कयोत्तरयति-नन्वित्यादिना। स्पष्टम् । साधारण्येन विशेषणसाम्ये समासोक्तिमुदाहर्तुमाह-साधारण्येनेत्यादि । स्पष्टम् ।
'वासराधीशे वासराणां दिनानामधीशस्तत्र । उदिते 'सती'ति शेषः । निसर्गसौरभोद्धान्तभृङ्गसङ्गीतशालिनी निसर्गसौरभेण खभावसिद्धन सौगन्ध्येनोद्धान्ता अत्यन्तं मत्तता नीता ये भृङ्गा भ्रमरास्तेषां सङ्गीतं झङ्कार. शब्दरूपं सुष्ठ गानं तद्वद्वा सङ्गीतं तेन शालते शोभत इत्येवंशीलेति तथोक्ता । सरोजिनी पद्मिनी । स्मेरा सुस्मिता । -अजनि जाता ॥ १८ ॥
ननु श्लिष्टविशेषणस्य द्वयर्थवाचकतयाऽस्तु नामार्थान्तरप्रतिपादकत्वेन, तेन चास्तां समासोक्तिप्रत्ययः, किन्तु प्रकृते कथं साधारणविशेषणत्वे सङ्कतिरित्याशङ्कयाह-अत्रेत्यादि ।
अत्रोदाहते पद्ये । 'निसर्गे'त्यादिविशेषणसाम्यात् 'निसर्गसौरभोझान्तभृङ्गसङ्गीतशालिनीति विशेषणस्य सरोजिनीनायिकोभयसाधारण्येन । सरोजिन्याः । नायिकाव्यवहारप्रतीतौ । स्त्रीमात्रगामिनः । मात्रपदेन सरोजिन्या व्यवच्छेदः । स्मरत्वधर्मस्य । समारोपः। कारणं । सहकारिकारणमिति भावः । तेन स्मरत्वसमा. रोपेण । विना । विशेषणसाम्यमात्रेण । नायिकाव्यवहारप्रतीतेः । असम्भवात् । इदमुक्तम्-उदाहृते पद्ये 'निसर्गे'ति विशेषणं विषयविषय्युभयसाधारण 'स्मेरे'तिविशेषणसादिव्येन सरोजिन्यां नायिकाव्यवहारं प्रत्याययति इति । अत एव विवृतिकारैरप्युक्तम्-'असम्भवादिति।साधारणविशेषणस्य वाच्यविशेषणाधानेनैवोपक्षीणतया व्यङ्गयबोधे सामर्थ्यामावादिति भावः।एवं च-साधारणविशेषणमप्रस्तुतासाधारणधर्मारोपादिसहकृतमेवार्थान्तरप्रतिपादकमिति फलितम् ।'इति ।
औपम्यगर्भेण विशेषणसाम्येन समासोक्तिमुदाह कामस्तत्रतावत्तस्य त्रैविध्यमाह-औपम्येत्यादिना ।
औपम्यगर्भत्वमौपम्य सादृश्यं गर्भन्तर्यस्य (विशेषणसाम्यस्य ) तस्य भावस्तत्त्वम् । पुनः । उपमारूपका सरगर्भत्वात् उपमा च रूपकं च सङ्कर उपमारूपकयोः सन्दिग्धत्वं चेति ते गर्भ येषां तेषां भावस्तत्त्वं तस्मात् । उपमागर्भत्वेन रूपकगर्भत्वेन उपमारूपकोभयगर्भत्वेन चेति भावः । त्रिधा । सम्भवति । तत्र तेषु मध्ये । उपमागर्भत्वे 'सति विशेषणसाम्यात्समासोक्ति'रिति शेषः । यथा-'दन्तेत्यादि ।
___ 'दन्तप्रभापुग्पचिता दन्तानां प्रभाः, ताः पुष्पाणीव तैश्चिता व्याप्ता । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।' २१५।५६ इति सूत्रेणोपमेयस्य पूर्वनिपातः । पक्ष-दन्तप्रभा इव पुष्पाणि तैश्चिता । पाणिपल्लवशोभिनी पाणिः पल्लव इवेति,पक्ष पाणिरिव पल्लव इति; शोभत इत्येवंशीला इति तथोक्ता । केशपाशालिवृन्देन केशपाशोऽलि. न्दमिवेति, पक्षे केशपाश इवालियन्दमिति, तेन । सुवेशा रुचिरनेपथ्या । हरिणेक्षणा ॥ इति ॥ १८८ ॥'
अत्रौपम्यगर्भत्वं विशदीकस्य निर्दिशति-अवेत्यादिना।
अत्र । सुवेशस्ववशात्सुवेशत्वसामर्थ्यात् । (हरिणेक्षणायाः) 'सुवेशे'ति विशेषणमाश्रित्येति यावत् । प्रथमम् । 'दन्तप्रभाः । पुण्याणीष ।' इत्युपमागर्भत्वेनोपमितत्वेनेति भावः । समासः। अनन्तरम् । च । 'दन्तप्रभासदृशैः। पुष्पैः । चिता व्याप्ता।' इत्यादिसमासान्तराश्रयेण तद्भिन्नसमासस्याश्रयेण । समानविशेष. णमाहात्म्यात् समान प्रकृताप्रकृतोभयानुगतं यद्विशेषणं ('दन्तप्रभापुष्पचिता' इत्यादि) तस्य माहात्म्य तस्मात् । हरि