Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 808
________________ २३० . साहित्यदर्पणः। [दशम:अन्येषामप्रस्तुतानां धर्मो गुणक्रियारूपः । उदाहरण - 'अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः । समयेन तेन सुचिरं शयित-प्रतिबोधितस्मरमबोधिषत ॥ १५८ ॥ अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात् प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाऽभिसम्बन्धः । 'तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ १५९ ॥' अयम्भावः-अत्र 'वा'शब्दः प्रस्तुतानामप्रस्तुतानां व्यवच्छेदकः, तथा च प्रस्सुतानामेव, अप्रस्तुतानामेव वेति फलितोऽर्थः, साधय व्यङ्गय, तत्प्रयोजकस्योपादीयमानत्वेऽप्यवाच्यत्वात् । तथोक्तम् 'प्रस्तुतानां तथाऽन्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति । अत्र च बहुवचनमविवक्षितम् , द्वयोधमक्येनाप्यन्वयेऽस्याः सम्भवात् । एवं च-'सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । 'प्रिये ! विषादं विजहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां, मनसश्च मानः ॥” इत्यायुदाहरणानि सङ्गच्छन्ते । इति । न चात्र सादृश्यस्य व्यङ्ग्यतया व्यङ्गयोपमयैव निर्वाहः स्यादिति वाच्यम्, तावन्मात्रकृतचमत्काराभावात्, एकधर्मान्वयकृतस्यापि सद्भावात् ; यज्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वात् । इति ।। १०१॥ कारिकायाः कठिनाशं सुगमयति-अन्येषाम् 'इत्यस्येति शेषः । अप्रस्तुतानाम् । 'इत्यर्थ' इति शेषः । धर्मः। गुणक्रियारूपो गुणक्रिय रूपं यस्य तादृशः । गुणक्रिये, इत्यत्र गुणपदमेककालत्वादेरप्युपलक्षकम् । अत । एवाहुः पण्डितराजाः 'प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता।' इति । एतेन-'निर्दिशन युधि रुषा निजाधरं दंशयत्यरिजनं पिशाचकैः । प्रार्थ्यमान उदरम्भरैरपि प्रार्थयत्यमरनायकैश्च तान् ॥' इत्यादावपि तुल्ययोगितैव, अत एव-'गाढकान्तदशनक्षतव्यथासङ्कटादारवधूजनस्य यः । ओष्टविद्रुमदलान्यमोचयन् निर्दशन् युधि रुषा निजाधरम् ॥' इत्यत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता इति प्रकाशोऽपि सङ्गच्छते । इत्यन्ये प्राहुः । वस्तुतस्तु-'निर्दशन्...' इत्यादौ नास्ति तुल्ययोगिता किन्तु कार्यकारणयोः पौर्वापात्ययरूपाऽतिशयोक्तिरेव, 'गाढ'मित्यत्र तु समुच्चयः । अत एव-तुल्ययोगितेति पदस्य तुल्ययोगिताऽलङ्कार इत्यर्थस्तु न, 'नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता।' इति सूत्रेण लक्षितायाः प्रकृतानामप्रकृतानां वा एकधर्मसम्बन्धरूपतुल्ययोगितायाः प्रकृतेऽसम्भवात् ; तुल्ययोगितायां धर्मस्य गुणक्रियाऽन्यतररूपस्यैव ग्रहणात् । किन्तुतुल्ययोगिपदस्याधरो निर्दष्टश्च शत्रवो व्यापादिताश्चेति तुल्यकालं योगो ययोस्तौ तुल्ययोगिनौ तयोर्भावस्तुल्ययोगितेति व्युत्पत्त्या समुच्चयालङ्कारः, अधरनिर्दशन-शत्रुव्यापादनक्रिययोयोगपद्यप्रतीतेः । इति प्रदीपकाराः प्राहः । उदाहरन्नाह-उदाहरणम् 'यथेति शेषः । तेन । समयेन सन्ध्याकालेनं । अनुलेपनान्यङ्गरागद्रव्याणि । कुसुमानि पुष्पाणि । पतिषु खामिजनेषु । कृतमन्यवः कृतकोपाः। अबला नायिकाः । तथा-दीपदशा दीपानां दशा वर्तय इति तथोकाः । सुचिरमतिचिरकालावधि । शयितप्रतिबोधितस्मरं शयितः प्रथम कृतशयनः पश्चात् प्रतिबोधितो जागरितः स्मरः कामदेवो यत्र तद् यथा तथ ( इदं क्रियाविशेषणम् ) अबोधिषत बोधिताः । शिशुपालवधस्येदं पद्यम् । अत्रानुलेपनानां कुसुमानां सायङ्कालस्य च कामोद्दीपकत्वेन मानभञ्जनसाधनत्वात्, दीपदशानां सुरतसामग्रीत्वाचाप्रबुद्धकामप्रबोधकत्वम्, इति 'अबोधिषते'ति बोधनार्थकक्रियया सम्बन्धात्तुल्ययोगिता । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति च तल्लक्षणम् ॥ १५८॥' . उदाहृतमर्थ खयमपि दर्शयति-अत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भाव:-सन्ध्याकालस्य कामोद्दीपकस्य प्रस्तुत. स्वात् अनुलेपनादीनामपि कामोद्दीपकत्वेन प्रस्तुतत्वमित्येषां 'शयितप्रतिबोधितस्मर' मिति क्रियाविशेषणेन 'अबोधिषते' ति क्रियायामन्वयात्तुल्ययोगत्वम् । अतोऽत्र बोधनक्रिया समानधर्मत्वेनोपात्ता । इति । एकगुणरूपधर्माभिसम्बन्धा यथा-'न्यञ्चति वयसि प्रथमे, समुदञ्चति किं च तरुणिमनि सुदृशः । उल्लसति काऽपि शोभा वचसां च दृशां च विभ्रमाणां च ॥' अत्र मदनाक्रान्तत्वेन यौवनस्यैव वचनादीनामपि प्रस्तुतत्वात् शोभारूपेणैकेन गुणेन योगः। , अप्रस्तुतानां गुणरूपैकधर्मसम्बन्धानुदाहरति-तदङमार्दवं तस्या अङ्गानि तेषां मार्दवं सौकुमार्य तत्तथोक्तम् । निलोकाव्ययनिष्ठाखलर्थतनाम् । ३।३।६९ इति सूत्रेण षष्टया निषेधः । द्रष्टः । कस्य ।

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910