Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 813
________________ परेच्छेदः ] रुचिराख्यया व्याख्यया समेतः। २३५ वैधयेण यथा-- 'चकोर्य एव चतुराश्चन्द्रिका चामकर्मणि। विनाऽवन्तीनं निपुणाः सुदृशो रतनर्मणि॥१६५॥' १३१ दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम् । सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः। अयमपि साधर्म्यवैधाभ्यां द्विधा। क्रमेणोदाहरणम् 'अविदितगुणाऽपि सत्कवि-भणितिः कर्णेषु वमति मधुधाराम् । । अनधिगतपरिमलाऽपि हि हरति दृशं मालतीमाला ॥ १६६ ॥' 'त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसते मदनव्यथा। दृष्टाऽनुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः॥१६७॥' वैधयेऽप्यस्याः सम्भव इति सूचयनुदाहरति-वैधयेणेत्यादिना । स्पष्टम् । 'चन्द्रिकाचामकर्मणि चन्द्रिकायाश्चामः पानमिति तस्य कर्म तत्र । विषये सप्तमीयम् । 'चामे त्यत्र 'पाने ति पाठान्तरे स्पष्टोऽर्थः । चकोर्यः। एव । चतुराः कुशलाः । अवन्तीवन्ति ( उज्जयनी) देशोत्पन्ना नारीरिति भावः । विना । सुदृशो नायिकाः । रतनर्मणि सुरतक्रीडायाम् । 'क्रीडा खेला च नर्म च ।' इत्यमरः । निपुणाः प्रवीणाः । न । 'भवन्तीति शेषः । किन्तु-यथाऽवन्त्य एव रमणकेलिविषये चतुरास्तथा चकोर्य्यः (चकोराङ्गनाः ) चन्द्रिकापानकर्मणि निपुणा इति भावः । बालरामायणस्येदं पद्यम् ॥ १६५॥ दृष्टान्तं लक्षयति-१३१ दृष्टान्तो दृष्टो ज्ञातप्रामाण्यकोऽन्तो दार्टान्तिकवाक्यार्थनिश्चयो यत्र तथोक्तः, अत एव तन्नाम्ना प्रसिद्धोऽलङ्कार इति भावः । तु । 'वाक्ययो' रिति पूर्वतोऽनुवर्तनीयम् । वाक्यद्वयस्येत्यर्थः, उपमानो. पमेययोरिति शेष इत्यावेदितपूर्वम् । सधर्मस्य समानो धर्म इति तस्य, तपस्येति भावः । 'समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु ।' ६।३।८४ इति 'समानस्येति योगविभागे सादेशः । 'सदृशस्येति तु नार्थः । 'धर्मादनिच केवलात् ।' ५।४।१२४ इत्यनिजापत्तेः । वस्तुनः । प्रतिबिम्बनं प्रतिरूपणम् । एवं च-यत्रोपमानोपमेयवाक्ययोः सतोस्तदुभयवर्तिनः साधारणधर्मस्य प्रतिरूपतया निर्देशोऽवतिष्ठत स दृष्टान्त इति स्थूलार्थः । सति वाक्यद्वये उपमानोपमेययोः साधारणधर्मस्य च (बिम्बभूतस्य ) प्रतिबिम्बतया निर्देशो दृष्टान्त इति फलितोऽर्थश्च । तथोक्तम्-'प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च विम्बप्रतिबिम्बभावे दृष्टान्त' इति गङ्गाधरकारैः । ____नन्वस्य प्रतिवस्तूपमातः को भेदः ? यत् 'दृष्टान्तस्त्विति तु नाव्यवच्छेदः सूचितः; इत्याशङ्कयाह-सधर्मस्योपमानोपमेयवर्तिनः साधारणधर्मस्येति भावः । इति 'अनेनेति शेषः । प्रतिवस्तूपमाव्यवच्छेदः प्रतिवस्तूपमाया - व्यवच्छेदो भेदः।अयम्भावः-प्रतिवस्तूपमायां न साधारणो धर्मः प्रतिरूपतया निर्दिश्यते,किन्तु भिन्नतयैवेत्यन्योः पार्थक्यम्। इति। प्रतिवस्तूपमाया इवास्यापि भेदं निर्दिशति-अयमित्यादिना । स्पष्टम् । उदाहर्तुकाम आह-क्रमेणेत्यादि । स्पष्टम् । 'अविदितगुणा न विदिता गुणा माधुर्यादयो यस्यास्तादृशी । अपि । 'किं पुनर्विदितगुणेति शेषः । सत्कविभणितिः सत्कवेर्भणितिर्वचनम् । कर्णेषु । श्रोतृणामिति शेषः । मधुधारा मधुन उपचारात्तदुपमरमणीयताया धारोपचारादतिशयस्ताम् । रमणीयताऽतिशयमिति निष्कृष्टोऽर्थः । वमति उपचारात् प्रकटयति । हि यतः । अनधिगतपरिमलाऽनधिगतोऽप्राप्तः परिमलः सौरभविशेषो यस्यास्तादृशी । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।' इत्यमरः । अपि । मालतीमाला मालतीनां तत्पुष्पाणां मालेति तथोक्ता । दृशं दृष्टिम् । हरति खवशं जयति । वासवदत्तायाः पद्यमिदम् । अत्रााछन्दः, तल्लक्षणं च प्रागुक्तम् ॥ इदम्बोध्यम्-अत्र भणितिमालयोर्गुणपरिम: कर्णविषयकमधुधारावमन-दृग्घरणयोश्च बिम्बप्रतिबिम्बत्वमिति अनधिगतपरिमलाऽपि मालतीमाला यथा दृशं हरति तथाऽविदितगुणाऽपि सुकविभणितिः कर्णेषु मधुधारां वमतीत्युपमा प्रतीयते । स्फुटश्चैवं साधर्म्यनिबन्धनोऽयमिति ॥ १६६ ॥' . 'त्वयि कान्ते नरवर इति यावत् । दृष्टे । सति सप्तमीयम् । कुरङ्गाक्ष्याः । मदनव्यथा 'त्वद्विरहमूले'ति शेषः । स्रंसते भ्रश्यति विनश्यतीति यावत् । इन्दौ चन्द्रमसि । अनुदयभाजि अस्तं सेवमाने सति । अस्तमिते सतीति भावः । कुमुदसंहतेः कुमुदानां नक्तं विकासिनां सरोजानां पुत्रस्य । ग्लानिर्विकासाभावः । दृष्टा।

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910