________________
परेच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२३५ वैधयेण यथा-- 'चकोर्य एव चतुराश्चन्द्रिका चामकर्मणि। विनाऽवन्तीनं निपुणाः सुदृशो रतनर्मणि॥१६५॥'
१३१ दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम् । सधर्मस्येति प्रतिवस्तूपमाव्यवच्छेदः। अयमपि साधर्म्यवैधाभ्यां द्विधा। क्रमेणोदाहरणम्
'अविदितगुणाऽपि सत्कवि-भणितिः कर्णेषु वमति मधुधाराम् । ।
अनधिगतपरिमलाऽपि हि हरति दृशं मालतीमाला ॥ १६६ ॥' 'त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसते मदनव्यथा। दृष्टाऽनुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः॥१६७॥'
वैधयेऽप्यस्याः सम्भव इति सूचयनुदाहरति-वैधयेणेत्यादिना । स्पष्टम् । 'चन्द्रिकाचामकर्मणि चन्द्रिकायाश्चामः पानमिति तस्य कर्म तत्र । विषये सप्तमीयम् । 'चामे त्यत्र 'पाने ति पाठान्तरे स्पष्टोऽर्थः । चकोर्यः। एव । चतुराः कुशलाः । अवन्तीवन्ति ( उज्जयनी) देशोत्पन्ना नारीरिति भावः । विना । सुदृशो नायिकाः । रतनर्मणि सुरतक्रीडायाम् । 'क्रीडा खेला च नर्म च ।' इत्यमरः । निपुणाः प्रवीणाः । न । 'भवन्तीति शेषः । किन्तु-यथाऽवन्त्य एव रमणकेलिविषये चतुरास्तथा चकोर्य्यः (चकोराङ्गनाः ) चन्द्रिकापानकर्मणि निपुणा इति भावः । बालरामायणस्येदं पद्यम् ॥ १६५॥
दृष्टान्तं लक्षयति-१३१ दृष्टान्तो दृष्टो ज्ञातप्रामाण्यकोऽन्तो दार्टान्तिकवाक्यार्थनिश्चयो यत्र तथोक्तः, अत एव तन्नाम्ना प्रसिद्धोऽलङ्कार इति भावः । तु । 'वाक्ययो' रिति पूर्वतोऽनुवर्तनीयम् । वाक्यद्वयस्येत्यर्थः, उपमानो. पमेययोरिति शेष इत्यावेदितपूर्वम् । सधर्मस्य समानो धर्म इति तस्य, तपस्येति भावः । 'समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु ।' ६।३।८४ इति 'समानस्येति योगविभागे सादेशः । 'सदृशस्येति तु नार्थः । 'धर्मादनिच केवलात् ।' ५।४।१२४ इत्यनिजापत्तेः । वस्तुनः । प्रतिबिम्बनं प्रतिरूपणम् । एवं च-यत्रोपमानोपमेयवाक्ययोः सतोस्तदुभयवर्तिनः साधारणधर्मस्य प्रतिरूपतया निर्देशोऽवतिष्ठत स दृष्टान्त इति स्थूलार्थः । सति वाक्यद्वये उपमानोपमेययोः साधारणधर्मस्य च (बिम्बभूतस्य ) प्रतिबिम्बतया निर्देशो दृष्टान्त इति फलितोऽर्थश्च । तथोक्तम्-'प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च विम्बप्रतिबिम्बभावे दृष्टान्त' इति गङ्गाधरकारैः । ____नन्वस्य प्रतिवस्तूपमातः को भेदः ? यत् 'दृष्टान्तस्त्विति तु नाव्यवच्छेदः सूचितः; इत्याशङ्कयाह-सधर्मस्योपमानोपमेयवर्तिनः साधारणधर्मस्येति भावः । इति 'अनेनेति शेषः । प्रतिवस्तूपमाव्यवच्छेदः प्रतिवस्तूपमाया - व्यवच्छेदो भेदः।अयम्भावः-प्रतिवस्तूपमायां न साधारणो धर्मः प्रतिरूपतया निर्दिश्यते,किन्तु भिन्नतयैवेत्यन्योः पार्थक्यम्। इति। प्रतिवस्तूपमाया इवास्यापि भेदं निर्दिशति-अयमित्यादिना । स्पष्टम् । उदाहर्तुकाम आह-क्रमेणेत्यादि । स्पष्टम् ।
'अविदितगुणा न विदिता गुणा माधुर्यादयो यस्यास्तादृशी । अपि । 'किं पुनर्विदितगुणेति शेषः । सत्कविभणितिः सत्कवेर्भणितिर्वचनम् । कर्णेषु । श्रोतृणामिति शेषः । मधुधारा मधुन उपचारात्तदुपमरमणीयताया धारोपचारादतिशयस्ताम् । रमणीयताऽतिशयमिति निष्कृष्टोऽर्थः । वमति उपचारात् प्रकटयति । हि यतः । अनधिगतपरिमलाऽनधिगतोऽप्राप्तः परिमलः सौरभविशेषो यस्यास्तादृशी । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।' इत्यमरः । अपि । मालतीमाला मालतीनां तत्पुष्पाणां मालेति तथोक्ता । दृशं दृष्टिम् । हरति खवशं जयति । वासवदत्तायाः पद्यमिदम् । अत्रााछन्दः, तल्लक्षणं च प्रागुक्तम् ॥ इदम्बोध्यम्-अत्र भणितिमालयोर्गुणपरिम: कर्णविषयकमधुधारावमन-दृग्घरणयोश्च बिम्बप्रतिबिम्बत्वमिति अनधिगतपरिमलाऽपि मालतीमाला यथा दृशं हरति तथाऽविदितगुणाऽपि सुकविभणितिः कर्णेषु मधुधारां वमतीत्युपमा प्रतीयते । स्फुटश्चैवं साधर्म्यनिबन्धनोऽयमिति ॥ १६६ ॥'
. 'त्वयि कान्ते नरवर इति यावत् । दृष्टे । सति सप्तमीयम् । कुरङ्गाक्ष्याः । मदनव्यथा 'त्वद्विरहमूले'ति शेषः । स्रंसते भ्रश्यति विनश्यतीति यावत् । इन्दौ चन्द्रमसि । अनुदयभाजि अस्तं सेवमाने सति । अस्तमिते सतीति भावः । कुमुदसंहतेः कुमुदानां नक्तं विकासिनां सरोजानां पुत्रस्य । ग्लानिर्विकासाभावः । दृष्टा।