________________
२३४
साहित्यदर्पणः।
[दशमः१३० प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः।
एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ १०३ ॥ - यथा-धन्याऽसि वैदर्भि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।
तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ १६३॥ अत्र-समाकर्षणमुत्तरलीकरणं च क्रियैकैव मौनरुक्त्यनिरासाय भिन्नवाचकतया निर्दिष्टा । इयं मालयाऽपि दृश्यते यथा--
विमल एव रविर्विशदः शशी, प्रकृतिशोभन एव हि दर्पणः ।
शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः ॥ १६४ ॥ अत्र विमलविशदादिरर्थत एक एव ।
प्रतिवस्तूपमा लक्षयति-१३० यत्र यस्मिन् काव्ये । गम्यसाम्ययोर्गम्यं व्याय साम्यं साधये यत्र (प्रतिपाद्यमानं ) तयोस्तथोक्तयोः । साधर्म्य चोपमानोपमेयत्वम् , तथा च-यत्रोपमानोपमेयभावो व्यज्यते तादृशयो. रिति फलितोऽर्थः । वाक्ययोर्वाक्यद्वय इत्यर्थः । अत एव-वाक्यद्वये' इति प्रकाशोऽपि । उपमानोपमेययोरिति शेषः । उपमानोपमेयसम्बन्धिनोरित्यर्थः । तथा च-उपमानवाक्यमेकम् , अपरं चोपमेयवाक्यम् ; इति वाक्यद्वयं च बोध्यम् । एकोऽपृथग्भूतः । अपि । सामान्य उपमानोपमेयोभयसाधारणः । धर्मः । पृथक् भिन्नतया। निर्दिश्यते। सा। प्रतिवस्तूपमा प्रतिवस्तु प्रत्यर्थमुपमासादृश्यं व्यज्यमानेति शेषः, इति तथोक्ता, तव्यपदेश्योऽ. लङ्कार इति भावः । स्यात् । एवं च-'पद्मं मनोज्ञ, रुचिरः शशाक' इत्यादौ एकस्यैव धर्मस्य पृथनिर्देशेऽपि वाक्यद्वयगतत्वाभावाभातिप्रसङ्गः । 'प्रकाशते मुखं तस्याश्चन्द्रमा दीप्यते यथा।' इत्यादौ पुनः साम्यस्य वाच्यत्वमिति व्यवच्छेदः । दीपकादावप्येवं धर्मस्य पृथनिर्देशाभावात् न साङ्कर्यमिति सूचितम् ॥ १०३ ॥
उदाहरति-यथा-'हे वैदर्भि विदर्भराजनन्दिनि दमयन्ति ! इति भावः । यया (त्वया) । नैषधो निषधाधिराजो नलः । अपि (एतेनास्य गभीरताऽतिशयतया 'समाकृष्यते'ति क्रियायाः कर्मत्वायोग्यत्वमावेद्यते)। उदारैः। गुणैः। समाकृष्यत खवशं प्रापितः । सा त्वम्-धन्या प्रशंसनीया । असि । तदेव विशदयति-इतोऽस्मादपेक्षया। चन्द्रिकायाश्चन्द्रसुषमायाः । 'चन्द्रिका कौमुदी ज्योत्स्ने' त्यमरः । का। खल । स्तुतिः प्रशंसान काऽपी' त्यवसितोऽर्थः । यत् । अधि (गभीरतया प्रसिद्धम् ) अपि । उत्तरलीकरोति समाकर्षति चञ्चलयतीति यावत् । नैषधचारतस्येदं पद्यम् । दमयन्ती प्रति हंसस्योक्किारयम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ॥ १६३ ॥' ।
लक्ष्यं समर्थयते-अत्रेत्यादिना । स्पष्टम् । अयम्भाव:-'समाकृष्यते'ति, 'उत्तरलीकरोती'ति च क्रियाद्वयं स्वरूपतः परम्, न त्वर्थभेदात् ; इति तात्पर्य्यबलात्समाकर्षणोत्तरलीकरणक्येन नैषधसमुद्रयोरुपमेयोपमानभावौ प्रत्याय्यमानौ सम्भवतः, अनयोश्चैवं साम्यं स्फुटं प्रतीयमानम् । तथा च-समुद्रोत्तरलीकरणमिव नैषधसमाकर्षणमित्युपमा व्यज्यमा. नाऽपि वाक्यद्वयगततया व्यङ्गयोपमान्तरतो व्यवच्छिद्यत इति फलितम् । इति ।
इयं मालारूपाऽपीत्यपदिशन्नदाहरति-डयमित्यादिना । स्पष्टम। रविः सर्यः । विमलः स्वच्छप्रकाशः । एवेतिप्रसिद्धमिति भावः । शशी चन्द्रः । विशदो विपुलसुप्रकाश: । 'एवेति पूर्वतोऽनुषज्यते। दर्पणः। प्रकृतिशोभनः प्रकृत्या स्वभावेन शोभनो रमणीयः। एव । हि । शिवगिरिः कैलासः । शिवहाससहोदरः शिवं कल्याणं, तच्च हासश्च तयोः सहोदरः सजन्मा-तत्तया यथाऽर्थमनुगत इति यावत् । सज्जनः । सहजसुन्दरः सहज आजन्मसिद्धः सुन्दरः पवित्रात्मा। एव ।हि। अत्र द्रुतविलम्बितं वृत्तम् , 'दूतविलम्बितमाह नभौ भरौ।' इति च तल्लक्षणम् ॥ १६४ ॥'
लक्ष्यं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । विमलादीनां पदानां भिन्नार्थतया प्रतीयमानत्वेऽपि तात्पथ्येण विमलता. रूपस्यैकस्यैवार्थस्य बोधकत्वमिति भावः ।