________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'दूरसमा गतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा। उत्तिष्ठति स्वपिति वासगृहं त्वदीयमायाति याति हसति श्वसिति क्षणेन ॥ १६२ ॥'
इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादि. मध्यावसानसद्भावेन चैविध्यं न लक्षितम् , तथाविधवैचित्र्यस्य सर्वत्रापि सहस्रधा सम्भवात् । राजिभिः ॥' इत्युदाहार्य्यम् , प्रावृष उपक्रमे जीमूतपङ्क्तीनामिव शाद्वलराजीनामपि प्रस्तुतत्वेन तुल्ययोगिताया एवाङ्गीकारौचित्यात् । इति । ।
कारकदीपकमुदाहरति-'त्वयि । जीवनाथे प्राणनाथे प्राणेभ्योऽप्यतिप्रिये । दूरम् असन्निहितत्वम् । समागतवत्यागच्छति सतीति भावः । सा त्वदेकाधारा । मनोभवशरण कामबाणप्रहारेण । भिन्ना। तपस्विनी दुःखिता, तथाऽपि त्वदनुग्रहाभिलाषैकवतपरेति वा भावः । उत्तिष्ठति 'त्वामायान्तमिव सम्भाव्ये ति शेषः । स्वपिति 'त्वत्सङ्गानिवतेवेति शेषः । त्वदीयम् । वासगृहं निवासभवनम् । आयाति 'कदाचिनिलीय मद्वञ्चनार्थ नात्र स्थित इति द्रष्टु मिति शेषः । याति । 'त्वा तत्र अप्राप्ये ति शेषः । हसति 'त्वन्नर्मोक्तिं स्मृत्वेवे' ति शेषः । क्षणेन । पुनः-श्वसिति उच्छासं प्रकटयति 'तव वस्तुतो दूरं प्रयाण निश्चित्येति शेषः । वसन्ततिलकं वृत्तम् । अत्र कस्या अपि नायिकादूत्या नायकं प्रति तदुःखावस्थावर्णनम् ॥' अत्र परकीयत्वभ्रममपनेतु. माह-इदमित्यादि । स्पष्टम् ॥ १६२॥'
उदाहरणं सङ्गमयितुमाह-अत्रेत्यादि । स्पष्टोऽर्थः । इदम्बोध्यम्-अत्रोत्थानादीनामनेकासा क्रियाणां तत्पद वाच्या नायिकवेकं कर्तकारकम् । अथ-यद्यपि नायिकाया विरहावस्थायां वर्ण्यमानायां सर्वासामेव क्रियाणां प्रकृतत्वमिति वक्तुं शक्यते, तथाऽपि-नायकागमनालिङ्गनादीनां सम्भाव्यमानानां परस्परं विजातीयत्वेनैकस्याः क्रियायाः प्रस्तुतात्वम् , अपरस्या अप्रस्तुतात्वमित्यासां प्रस्तुताप्रस्तुतात्वं समाधेयम् । यथा वा-'वासयति हीनसत्त्वानतिसत्त्वानुद्धतान् विवासयति । त्रासयति सकलशत्रून् नीतिविदामग्रणीनराधिपतिः ॥' इति, अत्र हि-कस्यचित् हीनसत्त्वस्य, सत्त्वाधिकं वाऽसहमानस्य, शत्रुणा पीडितस्य वा; राजानं प्रत्युक्तो सामान्यविशेषात्मिकायामप्रस्तुतप्रशंसायामेकस्याः क्रियायाः प्रकृतात्व इतरयोरप्रकृतात्वम् । यथा वा-'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च मादृशान् राजन्नतीव निपुणो भवान् ॥' इति, अत्र हि कस्यचिवृत्तिहीनस्य दीनस्योक्तौ वसुदानखत्राणलक्षणयोः क्रिययोःप्रकृतयोः सत्योररिमर्दन-यशोधानलक्षणयोः क्रिययोरप्रकृतात्वम् । इति । अत्र रसगङ्गाधरमतं निराकुर्वन्तोऽलकारसर्वस्वकाराः प्राहुः 'अत्र वदन्ति-दीपकमपि तुल्ययोगितायामेवान्तर्भवति, धर्मस्य सकृवृत्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वादिविशेषस्य चावान्तरभेदसाधकत्वेऽपि अलङ्कारतायामसाधकत्वात् । अन्यथा श्लेषस्य तद्भेदयोरपि भिन्नालङ्कारत्वापत्तेः। तस्मात् प्रकृतानामेवाप्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्योगिताया एव त्रयो भेदा वक्तुमुचिताः, तथा सति दीपकस्य तुल्ययोगिताया भेदं वदतां प्राचीनानां दुराग्रह एवेति, तच्चिन्त्यम् ; 'नानाऽधिकरणस्थानां शब्दानां सम्प्रदीपकः । एकवाक्येन संयोगो यस्तु दीपकमुच्यते ॥' यथा-'सरांसि हंसैः कुसुमैश्च वृक्षा मदिरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानि सदा क्रियन्ते ॥' इति भगवता भरतमुनिना दीपकस्याङ्गीकारास्तत्रैव तुल्ययोगिताऽन्तर्भावस्यौचित्यात् ।' इति, अन्ये तु 'नच दीपके तुल्ययोगिताया अप्यन्तर्भावः स्थाने, अन्वर्थतायाः उच्छेदात् । दीपकं हि दीप इवेत्यर्थकम् , दीपस्य च अभेदेन सर्वेषां प्रकाशकत्वम् । न चैतत्तुल्ययोगितायाः । तुल्यानां योगितेत्यन्वर्थताया अपहानात् ।' इति । यदपि 'न भाति रमणीयोऽपि वैराग्येण विना यतिः। वैदुष्येण विना विप्रो, नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवान्, राजन् भवता च बसुमतीवलयम् ॥' 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' इत्यादौ धर्मस्यादिमध्यान्तगततयाऽस्य भेदान्तरं न चमत्कारीत्युपेक्षमाण आह-अत्रेत्यादि । स्पष्टम् । बिम्बप्रतिबिम्बभावेऽपि इदं दृश्यते, यथा-'शीलभारवती कान्ता, पुष्पभारवती लता। अर्थभारवती वाणी, भजते कामपि श्रियम् ॥' इति ।।
१ भवानित्यर्थः । खार्थे कः ।
-