________________
३३२ - साहित्यदर्पणः।
[ दशमः१२९ अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते।
अथ कारकमेकं स्यादनेकासु क्रियासु. चेत् ॥ १०२॥ क्रमेणोदाहरणम्-'बलावलेपादधुनाऽपि पूर्ववत् प्रबाध्यते तेन जगजिगीषुणा।
सती च योषित्प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥१६१॥' अत्र प्रस्तुताया निश्चलायाः प्रकृतेः प्रकृतत्वेऽप्रस्तुतायाश्च सत्या योषित एकानुगमनक्रियासम्बन्धः।
. दीपकं लक्षयति-१२९दीपकम् । तु। अप्रस्तुतप्रस्तुतयोः । द्विवचनमविवक्षितम् , तेन-अप्रस्तुतप्रस्तुतानामित्यपि लभ्यते । अप्रस्तुताना प्रस्तुतानां च सम्मिलितानामिति भावः । एतेन-तुल्ययोगिताया व्यवच्छेदः । 'यदा भवेत् एकधर्माभिसम्बन्धः तदा' इति पूर्वसूत्रादनुवर्तनीयम् । निगद्यते । धर्मश्चानापि गुणक्रियाऽन्यतररूप एवेति बोध्यम् । अथ अथवेति भावः । चेत् । अनेकासु । क्रियासु । 'सतीषु' इति शेषः । एकं 'कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥' इत्युक्तेषु षट्स्वेकतममिति भावः । कारकम् । स्यात् । तदोऽपि दीपकं निगयते इति शेषः । दीपकं द्विविधम् एकस्य धर्मस्यैकत्रैवाप्रस्तुतानां प्रस्तुतानां च सम्बन्धित्वेनोपातत्वात् , एकस्यैव कारकस्य वा एकत्रानेकासां क्रियाणां सम्बन्धित्वेनोपात्तत्वात् । अत्र च यासां क्रियाणामेकं कारकमपेक्ष्यते, ता अप्रस्तुतप्रस्तुता ज्ञेयाः, यत्र प्रस्तुतासु अप्रस्तुतास्वेव वा क्रियासु सतीष्वेकं कारकं तत्र कारकोपाधिका तुल्ययोगितैव, यत्र तु अप्रस्तुतासु प्रस्तुतासु च सम्मिलितासु क्रियासु सतीष्येकं कारकं तत्र कारकोपाधिकं दीपकं ज्ञेयम् । दीपकत्वं च प्रकृताप्रकृतप्रकाशकत्वम् । अतएवास्य 'दीप इवेति, दीपयतीति वा घटादिमिव सर्व वाक्य' मिति अन्वर्था सज्ञा । अत्रापि तुल्ययोगितायामिव सादृश्यं व्यङ्गयम् । तुल्ययोगितायां प्रस्तुतानामप्रस्तुतानामेव वेति तुल्यत्वमपेक्षितम्, अत्र तु प्रस्तुताप्रस्तुतोभयसाधारणत्वमिति विवेकः ॥ १०२ ॥
उदाहतुकाम आह-क्रमेणेत्यादि । स्पष्टम् । 'जिगीषुणा जेतुमिच्छुना नित्योत्साहवतेति यावत् । तेन शिशुपालेन । बलावलेपावलरय सामर्थ्यविशेषस्यावलेपस्तत्प्रयोज्यो गर्वस्तस्मात्तं प्राप्येति भावः । अधुना साम्प्रतं वर्तमाने जन्मनीति यावत् । अपि । पूर्ववत् पूर्वजन्मनीव । जगत् । प्रवाध्यते तदेवोपपादयतिसती पतिव्रता 'पतिं या नाभिचरति मनोवाक्कायसंयता । सा भर्तर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ।' इत्यादिप्रसिद्धमाहात्म्येति यावत् । योषित् । च । निश्चला दृढा । प्रकृतिः स्वभावः । च । भवान्तरेषु जन्मान्तरेषु । अपि, किं पुनस्तस्मिन्नेव जन्मनीति भावः । पुमांसं पुरुषम् । अभ्येति अन्वेति । शिशुपालवधस्येदं पद्यम् । वंशस्थविलं छन्दः ॥ १६१ ॥
उदाहरणसङ्गतिं दर्शयितुमाह-अवेत्यादि । स्पष्टोऽर्थः । इदम्बोध्यम्-प्रकृतौ प्रस्तूयमानायां सत्या अप्यनुगमभक्रियारूपैकधर्मान्वयोपपादनमिति क्रियादीपकमिदम् , तथा च-सतीष प्रकृतिरित्यर्थों व्यज्यते । अत्र च प्रस्तुतैकत्वमिवाप्रस्तुतैकत्वमपि, प्रकृताप्रकृतानां बहुत्वे पुनारदमेव यथा-'किवणाण धणं णाआण फणमणी केशराई सीहाणं । कुलवालिआण स्थणआ कुत्तो छिप्पंति अमुआणं' ॥' इति, अत्र कुलवधूस्तनानां प्रस्तुतत्वे स्पर्शनक्रियैकरूपधर्मान्वयित्वेन कृपणधमादीनां वर्णनादप्रस्तुतत्वम् । यथा वा-भूष्यन्ते प्रमदवनानि बालपुष्पैः, कामिन्यो मधुमदमांसप्लैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै, राजानो विरलितवैरिभिः प्रतापैः ॥' इति, अत्र हि प्रतापकर्तृकराजकर्मकभूषणक्रियारूपैकधर्मान्वयित्वेन बालपुष्पादिप्रमदवनादीनां वर्णनमप्रस्तुतमिति । धर्मस्य गुणक्रियाऽन्यतरत्वेनाङ्गीकारात् अस्य व द्वैविध्यम्, तत्रान्त्यमुदाहृतम्, आद्यं यथा-'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ।' इति । अत्र कुटिलस्य मैत्र्या असम्भवत्वे प्रस्तूयमाने मृतलिप्सादेरुपमानभूतस्योपादानम् इति कुटिलमैत्री प्रस्तुता, मृतलिप्सादिरप्रस्तुता, अभावो गुणश्च; एवम्-अभावगुणरूपैकधर्मान्वयं दीपकमिदम् । नच 'श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपक्तिभिः । भुवश्च सुकुमाराभिर्नवशाल.
१ 'कृपणानां धनं, नागानां फणामणिः, केसराः सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥ इति संस्कृतम् ।