________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
२३१ इत्यत्र मालत्यादीनामप्रस्तुतानां कठोरतारूपैकगुणसम्बन्धः । एवम्'दानं वित्तादृतं वाचः कीर्तिधर्मी तथाऽऽयुषः । परोपकरणं कायादसारात् सारमाहरेत् ॥ १६० ॥'
अब दानादीनां कर्मभूतानां सारतारूपैकगुणसम्बन्ध एकाहरणक्रियासम्बन्धः।
चित्ते । मालतीशशभृल्लेखाकदलीनां मालती च शशभृत् ( चन्द्रः ) च कदली चेति तासाम् । कठोरता । न । भासते प्रतीतिं प्रतिपद्यमाना भवतीत्यर्थः । नायिकाया अङ्गमात्रापेक्षया न मालत्यादीनां सौकुर्माय॑मिति स्थूलोऽर्थः, सूक्ष्मस्तु-नायिकाया रदनापेक्षया मालत्याः, मालतीपदस्य च कोकनदेन्दीवरादीनामुपलक्षकत्वेन करचरणनयनाद्यपेक्षया कोकनदादीनां च, मुखापेक्षया शशलाञ्छितत्वेन दूषितस्य चन्द्रस्य, ऊर्वपेक्षया कदल्याश्च न किमपि सुकुमारत्वम् , प्रत्युतात्यतिशयितं कठोरत्वमेव, तां विना नायकस्य मालत्यादिसत्त्वेऽपि विरसत्वावहत्वात् प्रत्युतासह्यमदनानलज्वाल. कत्वात् । इति ॥ १५९ ॥
लक्षणीयं निर्दिशति-इत्यत्रेत्यादिना । स्पष्टोऽर्थः । वर्णनीयतया नायिका प्रस्तुता, मालत्यादीनां तूपमानत्वेनाप्रस्तुतत्वम् ; इति बोध्यम् । क्रियारूपैकधर्मसम्बन्धाऽसावेव यथा-'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्नि पाण्डिमनि । न्यश्चति राकाऽधिपतिर्लवलीपुरटं पुण्डरीकं च॥'इत्यत्र न्यञ्चनक्रियारूपस्य धर्मस्य लवल्यादिभिरुपमानभूतैः सम्बन्धः । असौ गुणविशिष्टक्रियारूपधर्मसम्बन्धाचारीयस्तामावहति, तत्र प्रस्तुतानां खयमुदाहर्तुमाह-एवं-'वाची वचनात्(लिङ्गविपरिणामेन 'असारा' दिति 'असाराया' इति विशेषणत्वेन योज्यम् ) । वित्ताहतं वित्तानुकूलं वित्तशाठ्यं विवर्जयेत् । इति निषेधानास्पदभूतमिति यावत् । दानम् । तथा। आयुषो जीवनात् 'असारा'दिति शेषः । कीर्तिधर्मों कीर्तिरूपं धर्मरूपं चेत्यर्थः । असारात् । कायाच्छरीरात् । 'पुनरिति शेषः । परोपकरणं परोपकाररूपमिति भावः । सारं तत्त्वम् । आहरेत् सञ्चिनुयात् ॥ १६० ॥'
अत्र । दानादीनाम् । कर्मभूतानाम् । 'आहरे'दिति क्रियाया इति शेषः । सारतारूपैकगुणसम्बन्धे सारता रूपं यस्य तादृशोऽसावेकगुणस्तस्य सम्बन्धो योगस्तत्र । एकाहरणक्रियासम्बन्ध एकाऽसावाहरणक्रिया तस्याः सम्बन्धः । इदमुक्तम्-पुरुषस्य कर्त्तव्यतायां प्रस्तूयमानायां कर्तव्यत्वेन दानादीनां प्रस्तुतत्वम्, एषां च सारतारूपैकगुणविशिष्टाहरणैकक्रियया सम्बन्धः । इति । यथा वा-'न्यञ्चति वयसि प्रथमे समुदश्चति किञ्च तरुणिमनि सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥' इत्यत्र मधुरिमरूपैकगुणविशिष्टधातिरूपैकक्रियासम्बन्धः । अप्रस्तुतानां यथा-'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्नि पाण्डिमनि । धवलीभवत्यनुदिनं लवनी कनकं कलानिधिश्वायम् ॥' इत्यत्र नायिकाया गण्डयोः पाण्डिमोदये प्रस्तुनेऽप्रस्तुतानां धवल्यादीनां धवलीभवनरूपैकगुणविशिष्टक्रियायोगः । इयं लेषानुगुणिताऽपि सम्भवति, यथा-'प्रदीयते पराभूतिमैत्रशात्रवयोस्त्वया ॥ इति । अत्र पराभूतिपदस्यानेकार्थकतया पराभूतिप्रदानक्रियारूपैकधर्मसम्बन्धः । इयं रसनारूपाऽपि, यथा-'दधीचिबलिकर्णेषु हिमहेमाचलाधिषु । अदातृत्वमधैयं च दृष्टे भवति भासते ॥'इति, अर्थान्तरन्यासानुगताऽप्येषा यथा-'दूरीकरोति कुमति, विमलीकरोति, चेतश्चिरन्तनमघं चुलकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति । इति, अत्र ह्यर्थान्तरन्यासानुगता कारकतुल्ययोगिताऽनेकासां क्रियाणामेकत्रान्वयात् । यथा वा'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥' अत्र निपुणत्वरूपैकधर्मयोगः । यथा वा-'केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्पृशन्ति । मातर्मुरारिचरणाम्बुजमावि ! गङ्गे ! भाग्याधिकाः कतिपये भवती पिबन्ति ॥' इति, अत्र स्मरणादिक्रियाणां गङ्गायाः कर्मता. रूपैकधर्मेण सम्बन्धः । व्यङ्गया यथा-'अये लीलाभनत्रिपुरहरकोदण्डमहिमन् कथा यत्रोदश्चत्यतुलबलधैर्य्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहितक्षितिः शेषः श्रीमान् कमठकुलचूडामणिरपि॥' इति, अत्र 'को वा' इत्यनेन वाच्यलक्ष्यताऽनालिङ्गितस्यागणनीयत्वस्य शेषकमठाभ्यां योगः प्रतीयते । इति ।