________________
२३० . साहित्यदर्पणः।
[दशम:अन्येषामप्रस्तुतानां धर्मो गुणक्रियारूपः । उदाहरण -
'अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः ।
समयेन तेन सुचिरं शयित-प्रतिबोधितस्मरमबोधिषत ॥ १५८ ॥ अत्र सन्ध्यावर्णनस्य प्रस्तुतत्वात् प्रस्तुतानामनुलेपनादीनामेकबोधनक्रियाऽभिसम्बन्धः ।
'तदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ १५९ ॥' अयम्भावः-अत्र 'वा'शब्दः प्रस्तुतानामप्रस्तुतानां व्यवच्छेदकः, तथा च प्रस्सुतानामेव, अप्रस्तुतानामेव वेति फलितोऽर्थः, साधय व्यङ्गय, तत्प्रयोजकस्योपादीयमानत्वेऽप्यवाच्यत्वात् । तथोक्तम् 'प्रस्तुतानां तथाऽन्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति । अत्र च बहुवचनमविवक्षितम् , द्वयोधमक्येनाप्यन्वयेऽस्याः सम्भवात् । एवं च-'सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । 'प्रिये ! विषादं विजहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां, मनसश्च मानः ॥” इत्यायुदाहरणानि सङ्गच्छन्ते । इति । न चात्र सादृश्यस्य व्यङ्ग्यतया व्यङ्गयोपमयैव निर्वाहः स्यादिति वाच्यम्, तावन्मात्रकृतचमत्काराभावात्, एकधर्मान्वयकृतस्यापि सद्भावात् ; यज्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वात् । इति ।। १०१॥
कारिकायाः कठिनाशं सुगमयति-अन्येषाम् 'इत्यस्येति शेषः । अप्रस्तुतानाम् । 'इत्यर्थ' इति शेषः । धर्मः। गुणक्रियारूपो गुणक्रिय रूपं यस्य तादृशः । गुणक्रिये, इत्यत्र गुणपदमेककालत्वादेरप्युपलक्षकम् । अत । एवाहुः पण्डितराजाः 'प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता।' इति । एतेन-'निर्दिशन युधि रुषा निजाधरं दंशयत्यरिजनं पिशाचकैः । प्रार्थ्यमान उदरम्भरैरपि प्रार्थयत्यमरनायकैश्च तान् ॥' इत्यादावपि तुल्ययोगितैव, अत एव-'गाढकान्तदशनक्षतव्यथासङ्कटादारवधूजनस्य यः । ओष्टविद्रुमदलान्यमोचयन् निर्दशन् युधि रुषा निजाधरम् ॥' इत्यत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता इति प्रकाशोऽपि सङ्गच्छते । इत्यन्ये प्राहुः । वस्तुतस्तु-'निर्दशन्...' इत्यादौ नास्ति तुल्ययोगिता किन्तु कार्यकारणयोः पौर्वापात्ययरूपाऽतिशयोक्तिरेव, 'गाढ'मित्यत्र तु समुच्चयः । अत एव-तुल्ययोगितेति पदस्य तुल्ययोगिताऽलङ्कार इत्यर्थस्तु न, 'नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता।' इति सूत्रेण लक्षितायाः प्रकृतानामप्रकृतानां वा एकधर्मसम्बन्धरूपतुल्ययोगितायाः प्रकृतेऽसम्भवात् ; तुल्ययोगितायां धर्मस्य गुणक्रियाऽन्यतररूपस्यैव ग्रहणात् । किन्तुतुल्ययोगिपदस्याधरो निर्दष्टश्च शत्रवो व्यापादिताश्चेति तुल्यकालं योगो ययोस्तौ तुल्ययोगिनौ तयोर्भावस्तुल्ययोगितेति व्युत्पत्त्या समुच्चयालङ्कारः, अधरनिर्दशन-शत्रुव्यापादनक्रिययोयोगपद्यप्रतीतेः । इति प्रदीपकाराः प्राहः ।
उदाहरन्नाह-उदाहरणम् 'यथेति शेषः । तेन । समयेन सन्ध्याकालेनं । अनुलेपनान्यङ्गरागद्रव्याणि । कुसुमानि पुष्पाणि । पतिषु खामिजनेषु । कृतमन्यवः कृतकोपाः। अबला नायिकाः । तथा-दीपदशा दीपानां दशा वर्तय इति तथोकाः । सुचिरमतिचिरकालावधि । शयितप्रतिबोधितस्मरं शयितः प्रथम कृतशयनः पश्चात् प्रतिबोधितो जागरितः स्मरः कामदेवो यत्र तद् यथा तथ ( इदं क्रियाविशेषणम् ) अबोधिषत बोधिताः । शिशुपालवधस्येदं पद्यम् । अत्रानुलेपनानां कुसुमानां सायङ्कालस्य च कामोद्दीपकत्वेन मानभञ्जनसाधनत्वात्, दीपदशानां सुरतसामग्रीत्वाचाप्रबुद्धकामप्रबोधकत्वम्, इति 'अबोधिषते'ति बोधनार्थकक्रियया सम्बन्धात्तुल्ययोगिता । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति च तल्लक्षणम् ॥ १५८॥'
. उदाहृतमर्थ खयमपि दर्शयति-अत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भाव:-सन्ध्याकालस्य कामोद्दीपकस्य प्रस्तुत. स्वात् अनुलेपनादीनामपि कामोद्दीपकत्वेन प्रस्तुतत्वमित्येषां 'शयितप्रतिबोधितस्मर' मिति क्रियाविशेषणेन 'अबोधिषते' ति क्रियायामन्वयात्तुल्ययोगत्वम् । अतोऽत्र बोधनक्रिया समानधर्मत्वेनोपात्ता । इति ।
एकगुणरूपधर्माभिसम्बन्धा यथा-'न्यञ्चति वयसि प्रथमे, समुदञ्चति किं च तरुणिमनि सुदृशः । उल्लसति काऽपि शोभा वचसां च दृशां च विभ्रमाणां च ॥' अत्र मदनाक्रान्तत्वेन यौवनस्यैव वचनादीनामपि प्रस्तुतत्वात् शोभारूपेणैकेन गुणेन योगः।
, अप्रस्तुतानां गुणरूपैकधर्मसम्बन्धानुदाहरति-तदङमार्दवं तस्या अङ्गानि तेषां मार्दवं सौकुमार्य तत्तथोक्तम् । निलोकाव्ययनिष्ठाखलर्थतनाम् । ३।३।६९ इति सूत्रेण षष्टया निषेधः । द्रष्टः । कस्य ।