________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।।
२२९ दीनां कलापादिभिरध्यवसाये विवक्षिते 'अन्यदेवाङ्गलावण्य' मित्यादिषु प्रकारेश्वव्याप्तिर्लक्षणस्य।' इति, तन्नः तत्रापि हि अङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि-'अन्यदेवे' ति स्थाने 'अन्यदिवे'ति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाऽङ्गीक्रियते । 'प्रागेव हरिणाक्षीणा' मित्यत्र बकुलादिश्रीणां प्रथमभाविताऽपि पश्चाद्भावित्वेन अध्यवसिता। अत एवात्रापि इव'शब्दप्रयोगे उत्प्रेक्षा। एवमन्यत्र । ... १२८ पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ १०१॥ -दीनाम् । कलापादिभिः। आदिपदेन कुवलयादीनां ग्रहणम् । सहार्थेय तृतीया । अध्यवसायेऽभेदप्रत्यायने । विवक्षिते । 'सती'ति शेषः । 'अन्यदेवाङ्गलावण्य'मित्यादिषु। प्रकारेषु अभेदादिषु भेदाद्यध्यवसायाभिधानमूलेषु भेदेषु इति भावः । लक्षणस्य 'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिरित्युक्तस्य स्वरूपस्य । अव्याप्तिरनुगमाभावः । अयम्भाव:-अथ यदि धर्मिणो देऽपि धर्मिणोरेवाभेदाध्यवसायोऽतिशयोक्तिप्रयोजकः स्वीक्रियेत, तदा अभेदे भेदाध्यवसायमूलायामसम्बन्धे सम्बन्धाध्यवसायमूलयां चातिशयोक्तावव्याप्तिः, नहि तत्र धम्मिणो दोऽध्यवसीयते । अतःधर्माध्यवसाय एवातिशयोक्ती स्वीकार्य्यः । इतिइति। 'य'दिति शेषः। तत् । न । हि यतः। तत्राभेदे भेदाध्यवसायमूलायामसम्बन्धे सम्बन्धमूलायामतिशयोक्तौ च । अपि। अङ्गलावण्यम् । अन्यत्वेन लावण्यान्तरत्वेन । अध्यवसीयते। तदेव प्रकारान्तरेण सिद्धान्तयति-तथाहि । 'अन्यदेवे ति स्थाने । अन्यदिवेति पाठे। अध्यवसायस्याभेदप्रत्यायनस्य । असाध्यत्वमनुद्भावनीयत्वम् । एव । इति. अस्मात् कारणात् । उत्प्रेक्षा। अङ्गीक्रियते स्पष्टमन्यत् । इदमाकूतम्-'एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिकान्तगोचरम् । अत्र चातिशयाख्यं यत् फलं प्रयोजकरवानिमित्तं, तत्राभेदाध्यवसायः तथा हि-'कमलमनम्भसि, कमले च कुवलये, तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' इत्यादौ वदनादीनो कमलाद्यैर्भेदेऽपि वास्तवं (लौकिकम् ) सौन्दर्य (अतिशयितत्वम्) कविसमर्पितेन सौन्दर्येण (अतिशयितत्वेनाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम्, नतु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः। अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः। तत्र हि 'अण्णं लउहत्तणअं, अण्णा वि अ का वि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह श्चि अ ण होई॥' इत्यादौ सातिशयं सुकुमारत्वं निमित्तभूतमभेदेनाध्यवसितम्, एवमन्यत्रापि ज्ञेयम्; तदभिप्रायेणैवाध्यवसितप्राधान्यम् । इत्यलङ्कारसर्वखकाराः प्राहुः । कविराजाः पुनः- धर्मिणां धर्माणां वाऽध्यवसाये न कोऽपि विशेषः, 'कथमुपार कलापिनः कलापः ।' 'कमलमनम्भसि' इत्यादौ हि धर्मिणो देऽभेदाध्यवसायः सम्भवत्येव, 'अन्यदेवाङ्गलावण्यं' 'अण्णं लडहत्तणों' इत्यादौ पुनर्धर्मिण एवाभेदे भेदाध्यवसायाङ्गीकारेऽपि न कश्चिद्दोषः । प्रत्युत 'अन्यदेवे'त्यादौ "अन्यदिवे'ति पाठे उपमा स्यात् , अस्ति चोत्प्रेक्षा । अभेदे भेदेऽध्यवसीयमाने धर्मिण एकत्वेऽपि 'धर्मभेदेन धार्मभेद' इति नयेन धर्मि
उपमानोपमेयत्वमापयेत. धम्मिणोऽभिन्नत्वे तस्यैव भिन्नत्वाध्यवसायेऽपि अभिन्नताया अपि सर्वथाऽनिरासः । अत्र हि भिन्नत्वं कविप्रतिभामात्रोत्तम्भितम्, नतु तत्र तथा । इति, जयरथास्त्वलङ्कारसर्वस्वव्याख्यायां 'यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् । तच्च धम्मिणामस्तु धर्माणां वेति को विशेषः ? येनाव्याप्तिः स्यात् , प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उपमाऽऽदीनामप्यतिशयोक्तिप्रसङ्गः स्यात्, तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थीदीरणेन ।' इति ।
तुलपयोगितां लक्षयति-१२८ यदा । प्रस्तुतानां प्रकरणप्राप्तानाम् । वा । अन्येषामप्रस्तुतानां प्रकरणमप्राप्तानाम् इति यावत् । पदार्थानाम् । एकधर्माभिसम्बन्ध एकोसौ धर्मस्तेनाभिसम्बन्धोऽन्वयः । भवेत् । तदा । तुल्ययोगिता तुल्यानां समानानां योगिता सम्बन्धित्वमिति तथोक्ता । तन्नामाऽलङ्कारः । स्यात् ।
१ 'अन्यत् सौकुमार्यम् , अन्यैव च काऽपि वर्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव च न भवति ॥' इति संस्कृतम् ।