________________
साहित्यदर्पणः ।
'यदि स्यान्मण्डले सक्त मिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदनं चारुलोचनम् ॥ १५५ ॥ '
अत्र यद्यर्थबलादाहृतेन सम्बन्धेन सम्भावनया सम्बन्धः । कार्यकारणयोः पौर्वापर्य्यविपय्र्ययश्च द्विधा भवति, कारणात् प्रथमं कार्य्यस्य भावेन, द्वयोः समकालित्वेन च । क्रमेण यथा'प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाऽऽकुलम् । पश्चादुद्भिन्न बकुळ रसाळ मुकुलश्रियः ॥ १५६॥' 'सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं मण्डलं च महीक्षिताम् ॥ १५७॥' इह केचिदाहुः - 'केशपाशादिगतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केशपाशा
२२८
[ दशमः -
यद्वा-तेष्वायस्य 'अयी' त्यर्थकतयाऽन्त्ययो 'रभू' दित्यर्थकतया 'अभू' दित्यनाध्याहरणीयं तेषां नूनां सन्देहपरत्वमपहरणी - यम् । एतेन - 'नु' शब्दस्य प्रश्नपरतयाऽध्यवसायकताऽभाव इति दत्तोत्तरम् । इति ।
असम्बन्धेऽपि सम्बन्धमुदाहरति - असम्बन्धे इत्यादिना । स्पष्टम् । 'यदि । इन्दोवन्द्रस्य । मण्डले बिम्बे | इन्दीवरद्वयमिन्दीवर योनीलकमलयोर्द्वयम् । खक्तं संश्लिष्टम् । स्यात् । तदा । तस्या नायिकायाः । चाहलोचनं चारुणी सुन्दरे लोचने यत्र तत्तादृशम् । वदनं मुखम् । उपमीयते नान्यथेति शेषः ॥ १५५ ॥
अत्र सम्बन्ध्यवसायं दर्शयति-अत्र । यद्यर्थबलात् 'यदीत्यस्यार्थसामर्थ्यात् । आहतेनारोपितेन कल्पितेनेति यावत् । सम्बन्धेन । अभेदे तृतीया । सम्भावनयाऽध्यवसायेन । अत्राप्यभेदेऽपि तृतीया । सम्बन्धः । तथा च यद्यपि मुखं निरुपममेव, तथाऽपि यदि चन्द्रमण्डल एवेन्दीवरद्वयमुदियात् तदा तेनेदमुपमीयेतेत्येवं तत्सादृश्यस्य सम्बन्धासत्वेऽपि यद्यर्थसामर्थ्यादारोपितः सम्भावनाऽभिन्नः सम्बन्धोऽध्यवसित इति बोध्यम् । ये तु कल्पितोपमामेनामेवाङ्गीकुर्वन्ति, तन्मते 'धीरध्वनिभिरलं ते नीरद ! मे मासिको गर्भः । उन्मदवारणबुद्धया मध्ये जरठं समुच्छलति ॥ इत्युदाहरणम् । अत्र हि सिंह्या मेघं प्रत्युक्तौ मासिकगर्भस्य समुच्छलना सम्बन्धेऽपि शौर्यातिशायिका समुच्छलन सम्बन्धाध्यवसायरूपाऽतिशयोक्तिः । कार्यकारणयोः पौर्वापर्यात्ययमुदाहर्तुकाम आहकाय्यैत्यादि । स्पष्टम् | 'हरिणाक्षीणां मृगलोचनानां नायिकानाम् । प्राक् प्रथमम् । एव । चित्तम् । उत्कलिकाssकुलमुत्कलिकयोत्कण्ठया रिरंसयेति यावत्, आकुलमिति तथोक्तम् । 'जात' मिति शेषः । ' कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु ।' इति मेदिनी । पश्चात्तदनन्तरम् । उद्भिन्नबकुलरसालमुकुलश्रिय उद्भिन्ना विकसिताश्च ता बकुलरसालमुकुलवियो बकुलानां रसाल (आम्र) मुकुलानां च श्रियः सम्पत्तय इति तथोक्ताः । ' जाता' इति शेषः । बकुलादीनां सम्पत्तयः किल मदनोन्नेत्र्य इति बकुलादिश्रीणामुद्भेदानन्तरं रिरंसोद्भावनाया वाच्यत्वेऽपि अन्यथावचनं रिरंसाया अतिशयं द्योतयितुमिति बोध्यम् ॥ १५६ ॥
'तेन । द्विरदगामिना द्विरदो गजराजस्तद्वद्गन्तुं शीलमस्यास्तीति तेन । 'रघुणा' इति शेषः । सममेकदा । एव । पित्र्यं पितुः प्राप्तम् । सिंहासनं राजासनम् । महीक्षितां राज्ञाम् । 'राज्ञि राट्र्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः।' इत्यमरः । मण्डलं देशः समुदाय वा । 'मण्डलं देशबिम्बयोः । भुजङ्गभेदे परिधौ शुनि द्वादशराजके । सङ्घाते कुष्टभेदे चेति कोशः । च । द्वयम् । समाक्रान्तं सम्यगारुह्याधिकृतं जित्वा वशीकृतं चेति भावः । रघुवंशस्येदं पद्यम् । अत्र राजासनाधिरोहणं कारणं राजमण्डलवशीकरणं च कार्यमित्यनयोरेककालत्वेनाध्यवसानम् । न च ' धुनोति चासि तनुते च कीर्तिम् ।' इत्यादिवत् 'सम' मिति प्रयोगवशात् समुच्चयः शङ्कयः, विरूपशब्दाभ्यामेव क्रियाऽनैक्ये तत्स्वीकारात् ॥ १५७ ॥ '
अलङ्कारसर्वस्वकाराणां धर्ममात्रगतमध्यवसायं स्वीकुर्वतां मतं दूषयितुमाह- इहास्मिन्प्रकरणे । केचित 'आलङ्कारिका' इति शेषः । आहुः । केशपाशादिगतः । आदिपदेन नेत्रादीनां ग्रहणम् । लौकिको लोकप्रसिद्धः । अतिशयः तत्तेषां सादृश्यमूल उत्कर्षः । अलौकिकत्वेन 'कविप्रतिभासमर्पितेने 'ति शेषः । अध्यवसीयतेऽभेदेन प्रत्याय्यते । अयमेषां भावः - केशपाशादीनां कलापादिभिर्भेदेऽपि लौकिकं ( वास्तवं ) सौन्दर्य्यम् ( अतिशयितत्वम् ) कविप्रतिभासमर्पितेन सौन्दर्येण ( अतिशयितत्वेन ) अभेदेनाध्यवसीयते, तदेव तेषां भेदेऽपि अभेदाभिधाने निमित्तम् । तथा च धर्मंगताभेदाध्यवसायो धमिगतभेदस्य तिरोधायकः । इति । एवमखीकारे आपत्तिमुद्भावयति-केशपाशा