________________
परिच्छेदः ] __ रुचिराख्यया व्याख्यया समेतः। . . २२७
सम्बन्धेऽसम्बन्धो यथा'अस्याःसर्गविधौ प्रजापतिरभूच्चन्द्रोनु कान्तिप्रदः,शृङ्गारैकरसः स्वयं नु मदनोऽमासोनु पुष्पाकरः। वेदाभ्याखजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुभिः॥१५॥'
अब पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धः । असम्बधे सम्बन्धो यथा
सम्बन्धेऽप्यसम्बन्धमुदाहर्तुमाह-सम्बन्ध इत्यादि । स्पष्टम् । 'अस्या उर्वश्याः। सगंविधौ सर्ग उत्पत्तिस्तस्य विधिविधान सम्पादनमिति यावत्तस्मिन् । विषये सप्तमीयम् । चन्द्रः । कान्तिप्रदः कान्ति खशोभां प्रददाति समर्पयत इति तथोक्तः । 'आतश्चोपसर्गे।' ३।१।१३६ इति कः । प्रजापतिर्विधाता । अभूत् । नु पुरा । अत्र 'अ 'दित्यस्यैवातीतार्थवाचकत्वेऽपि पुराऽर्थ ( अतीतार्थ) कस्य नुशब्दस्य प्रयोगोऽतीतार्थस्य दाव्यर्थि इति बोध्यम् । एतेन 'नु प्रश्ने विकल्पे वेति ससन्देह'इति यदव्याख्यासं तदपास्तम् । 'नु प्रश्नोनुनयेऽतीतार्थे विकल्पवितर्कयोः ।' इति हैमः । अपूर्वकान्तेरन्यथाऽसम्भवादिदमुक्तम् । स्वयं साक्षात् । मदनः कामदेवः । शृङ्गारैः करसः शृङ्गारस्यैवानुभावयितेति भावः । शृङ्गारस्यैको मुख्यो रस आस्वादयितेति तथोक्तः । रसयत्याखादयतीति रसः । पचादित्वादच । 'अस्याः सर्गविधौ प्रजापतिरभूत्' इत्यनुषज्यते । नु (अत्रापि अतीतार्थमेवेदम् , तथैवातीतार्थस्य दाढय द्योतयते च )। शृङ्गाररसिकवातिशयस्यान्यथाऽसम्भवादिदमुक्तम् । पुष्पाकरो वसन्तः, अत्रैव पुष्पाणां विकासातिशयात् । अमासोऽमामलक्ष्मीदुर्भगत्वादिदोषं स्यत्येकपदं हरतीति तथोक्तः । न मा लक्ष्मीरिति अमा । 'मा स्त्री पद्मालयायां स्यात्' इति मेदिनी । 'षो' अन्तकर्मणि इत्यस्मात् 'आतोऽनुपसर्गे कः ।' ३१२१३ इति कः । 'अस्याः ..' इति पूर्ववदनुषज्यते । नु (अत्राप्यतीतार्थकमिद 'मभू' दित्यर्थ द्रढयितुम् )। सुभग. त्वातिशयस्यान्यथाऽसम्भवादिदमुक्तम् । वसन्तस्य पुष्पाणामिवाङ्गानां सौभगभाजनत्वविधानं कविनिबद्धप्रौढोक्तिसिद्धम् । एतेन अङ्गानां पुष्पाणामिव सौकुमार्यादि अषि द्योतितम् । एवं च-अस्याः कान्तिश्चन्द्रप्रजापतिनिर्मिता, शृङ्गाररसिकत्वं साक्षान्मदनप्रजापतिनिर्मितम् , सौभगत्वं च वसन्तप्रजापतिनिर्मितम्, न त्वन्यप्रजापतिनिर्मितमिति फलितोऽर्थो, द्योतितश्च सौन्दर्य्यातिशयश्च तस्या: । नन्वेवमनेकप्रजापतिकतकमस्या निर्माणं,किमित्यध्यवसीयते ? प्रसिद्धेनैकेनैव ब्रह्मणा तत्सम्पादयितुं शक्तत्वादित्याह-वेदाभ्यासजडो वेदानामभ्यासः पुनःपुनराम्रेडनमनुशीलनं वा तेन जडः कर्मान्तरानहः । अतएव-विषयव्यावृत्तकौतूहलो विषयेभ्यश्चक्षुरादिग्राह्येभ्यो व्यावृत्तं निवृत्तं कौतूहलं कौतुकं चक्षुरादिप्रवर्तको मनोव्यापार इति यावत् यस्य तादृशः । पुराणो वृद्धो जरठ इति यावत् । मुनिर्मननशीलो ब्रह्मेति यावत् । इदम् । मनोहरम् । रूपं खरूपम् । निर्मातुम् । कथम् । नु (इदं वित) । प्रभवेत् । न कथमपि प्रभवेत् । अतश्चन्द्रादिकर्तृकमेवास्याः सर्गविधानं, नतु असिद्धप्रजापतिकतकमिति भावः । अत्र मुनिरि'त्यस्य 'ब्रह्मेत्येवार्थः, नतु 'नारायण'इति, एतस्य मुनित्वेऽपि पुराणत्वाभावात्, उत्पादकत्वेऽपि निर्मातृ- . त्वाभावाच । अतः प्रकृते निर्मातृत्वव्यवच्छेदस्य विवक्षितत्वेन ब्रह्मणः पुराणत्वमुनित्वादि अध्यवसितम् । यत्तु व्याख्यातम् 'ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री।' इति विक्रमोर्वशीयसन्दर्भात् , 'नारायणोरं निर्भिद्य सम्भूता वरवर्णिनी। ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी॥' इति हरिवंशीयवचनाच 'मुनि' रित्यस्य 'नारायण' इति भावः । इति । तन्मन्दम्, वेदाभ्यासजडत्वादेरन्यथाऽनुपपत्तेः । विक्रमोर्वशीयं पद्यम् । उर्वशी प्रकृत्य पुरूरवस उक्तिरियम् । शार्दूलविक्रीडितं वृत्तम् ॥ १५४ ॥
उदाहृतमर्थ निर्दिशति-अत्रास्मिन्नुदाहृते पद्य इति भावः । पुराणप्रजापतिनिर्माणसम्बन्धे पुराणो दक्षाद्यपेक्षया प्राचीनोऽसौ प्रजापतिस्तस्य निर्माणं रचना तस्य सम्बन्धस्तत्र । पुराणप्रजापतिकर्तृकस्य निर्माणस्य सम्बन्धे इति भावः । अपि । असम्बन्धः । अयम्भावः-सकलजगत्सृष्टिकर्तकत्वेन प्रजापतेः, जगदन्तर्गततयोर्वश्याश्च सृज्यसर्जकत्वेन सम्बन्धः, अस्य च प्रजापतेर्वेदाभ्यासजडत्वादिना ताशसर्जनासम्भवनिदर्शनेनाभावो निदर्शितः । स्पष्टश्च सम्बन्धेऽप्यसम्बन्धः । अस्य च चन्द्रादेः कान्तिप्रदत्वादिना प्रजापतित्वे निरूप्यमाणेऽतिशयितत्वम् । पूर्वार्द्ध प्रयुक्तस्य नुत्रयस्य 'अभू' दिति क्रियया बोध्यस्यैवार्थस्य द्योतकतया 'पुराऽभू' दित्यादाविवानुगुण्येनावस्थितत्वम् ।