________________
खाहित्यदर्पणः । '
[दशमः'वसन्तलेखैकनिबद्धभावं परासु कान्तासु मनः कुतो नः १ ।
प्रफुल्लमल्लीमधुलम्पटः किं मधुव्रतः काङ्क्षति वल्लिमन्याम् ॥ १६८ ॥ इदं पद्यं मम । अत्र 'मनः कुतो न' इत्यस्य, 'काङ्क्षति वल्लिमन्या' मित्यस्य चैकरूपतयैव पर्यवसानात् प्रतिवस्तूपमैव, तत्र च कर्ण मधुधारावमनस्य नेत्रहरणस्य च साम्यमेव, न त्वैकरूप्यम् । अत्र सामर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभावोऽर्थान्तरन्यासः, प्रतिवस्तूपमादृष्टान्तयोस्तु न तथेति भेदः। . . १३२ सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वाऽपि कुत्रचित् ॥ १०४ ॥
यत्र बिम्बानुबिम्बत्वं बोधयेत् सा निदर्शना ।
अत्र-'इन्दावुदयमाने कुमुदसंहतेलानिनश्यती'त्येवं वैधर्म्यविपर्यये साधर्म्यपर्यवसानमिति कान्तदर्शने-हृदययोर्मदनव्यथा-कुमुदसंहतिग्लान्योश्च बिम्बप्रतिबिम्बत्वम् । मदनव्यथाकुमुदसंहतिग्लान्योरन्तःसन्तापजन्यबहिर्विकारविशेषरूपेण साम्यम् । दूत्याः सख्या वा कमपि खखामिनीवयस्याऽन्यतरेशं प्रति उक्किारयम् ॥ १६७ ॥'
___इत्येवं द्विविधं दृष्टान्तमुदाहृत्य प्रतिवस्तूपमातो व्यतिरेकं दर्शयितुं तामुदाहरति-'वसन्तलेखैकनिबद्धभावं वसन्तलेखायां तदाख्यायां सुरगणिकायामेको मुख्यो निबद्धो भावो वृत्तिविशेषो यस्य तादृशम् । नोऽस्माकम् । मनश्चित्तम् । परासु अन्यासु। कान्तासु। विषये सप्तमीयम् । कुतः। प्रफुल्लमल्लीमधुलम्पटः प्रफुल्ला विकसितपुष्पा या मल्ली मल्लिका तस्या मधु रसस्तत्र लम्पट: समासक्तचित्तः । मधुव्रतो भ्रमरः। अन्याम् । वल्लि लताम् । किम् । काङ्क्षति । उपेन्द्रवज्रावृत्तम् ॥ १६८॥'
परपद्यशङ्कामपहरति-इदमित्यादिना । स्पष्टम् ॥
प्रयोजनं निर्दिशति-अवेत्यादिना । अत्र । 'मनः कुतो नः' इत्यस्य 'वाक्यस्येति शेषः । 'काङ्क्षति वल्लिमन्या' मित्यस्य 'वाक्यस्येति शेषः । च । एकरूपतया । एव । 'खरूपतो भेदेऽपी'ति शेषः । पर्यघसानात् निश्चयात् । प्रतिवस्तूपमा । एव 'नतु दृष्टान्त' इति शेषः । अयम्भावः-'मनः कुतो नः' इति वाक्यं, 'किं काङ्क्षति वल्लिमन्या मिति वाक्यं च तात्पर्येऽन्विष्यमाणे एकमेव, एकस्यैव परत्र मनः प्रतिहतत्वस्य धर्मस्य पृथक्त्वेन प्रतिपादनात् । इति । नन्वत्र किं वैलक्षण्यमित्याह-तत्र 'अविदितगुणे त्याद्युदाहृते। च। कर्णे । जातावेकवचनम् । मधुधारावमनस्य । नेत्रहरणस्य । च । साम्यम् एव । एतद्वयवच्छेद्यं दर्शयति-न तु । ऐकरूप्यम् । अयम्भाव:-धर्मस्यैकरूप्येऽपि भिन्नतयाऽभिधाने प्रतिवस्तूपमा, धर्मस्य साम्यमात्र निर्देशे दृष्टान्तम्, साम्यं च सति द्वयोर्भेद एवेति तत्त्वज्ञाः, अतः पूर्वत्र नेयम् , उत्तरत्र पुनरयमपि न । इति । अथ प्रसङ्गात् अर्थान्तरन्यासाद्भदं निर्दिशति-अवास्मिन् सन्देहनिराकरणप्रस्तावे । सामर्थ्यसमर्थकवाक्ययोः समर्थनीयसमर्थकयोक्ययोः पूर्वापरवाक्ययोरिति यावत् । सामान्यविशेषभावः । अर्थान्तरन्यासः 'इति बोध्य'मिति शेषः । प्रतिवस्तूपमादृष्टान्तयोः। तु । तथा 'यथाऽर्थान्तरन्यासे' इति शेषः । 'समर्थ्यसमर्थकवाक्ययोः सामान्यविशेषभाव' इति पूर्वतोऽनुषज्यते । न । इति 'अर्थान्तरन्यासा'दिति शेषः । भेदः। 'इति बोध्य'मिति शेषः । अयम्भाव:-यदपि प्रतिवस्तूपमादृष्टान्तोदाहरणयोर्वाक्यद्वयमिति तत्र पूर्वस्य समर्थनीयत्वमुत्तरस्य समर्थकत्वमित्यर्थान्तरन्यासत्वं संशयितुं शक्यते, तदपि प्रतिवस्तूपमादृष्टान्तयोर्वाक्ययोधर्मस्यैकस्यापि शब्दमात्रेण पृथक्तया तात्पर्य्यतो वा प्रतिरूपतया निर्देशमुखेनैव चमत्कारः, अर्थान्तरन्यासे पुनर्वाक्ययोः सामर्थ्यसमर्थकतयैवेत्येषां भेदोऽवध । अत एवार्थान्तरन्यासे पूर्वापरवाक्ययोः सामान्यविशेषभावः । प्रतिवस्तूपमायां धर्मस्यैकस्यैव पृथकतयाऽभिधातुं वाक्यद्वयावतारः, दृष्टान्ते पुनर्धर्मस्य बिम्बप्रतिबिम्बतया निर्देष्टम : इति । - निदर्शनां लक्षयति-१३२ यत्र । कुत्रचित् । सम्भवन् उपपद्यमानः । वाऽथवा । अपि । असम्भवन अनुपपद्यमानः । वस्तुसम्बन्धो वस्तुनोर्वाक्यार्थयोः पदार्थयोर्वा सम्बन्धोऽन्वयः। बिम्बानबिम्बत्वं बिम्बप्रतिबिम्बभावम् । बोधयेत् व्यञ्जयेत्, 'नतु अभिदध्यात्, न वा लक्षयेत्' इति शेषः । सा । निदर्शना निदर्यते