________________
परिच्छेदः ।
रुचिराख्यया व्याख्यया समेतः । तत्र सम्भवद्धस्तुसम्बन्धनिदर्शना, थथा--
'कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचिरमेति सम्पदम् ।
वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः॥ १६९ ॥' अत्र रवेरीदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः सम्भवत्येव, ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपकर्मवत्त्वात्। स च रवेरस्ताचलगमनस्प परितापिनां विपत्प्राप्तेश्च बिम्बप्रतिबिम्बभावं बोधयति । असम्भवद्वस्तुनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा यथा
कलयति कुवलयमाला-ललितं कुटिलः कटाक्षविक्षेपः।
अधरः किसलयलीलामाननमस्याः कलानिधिविलासम् ॥ १७० ॥' सूच्यते व्यजनया प्रत्याय्यते इति यावत् अनया ( सम्भवदसम्भवदन्यतरवस्तुसम्बन्धस्य बिम्बप्रतिबिम्बत्वम् ) इति,तथोक्ता विच्छित्तिरलङ्कारस्तादृशी विच्छित्तिरेव तन्नामाऽलङ्कार इति यावत् । अयम्भावः-कयोश्चित्सम्बन्ध उपपद्यते, कयोश्चिच न; इति लोकस्थितिः । अथ कवियदि यंत्रोपपद्यमानस्यानुपमानस्य वा कयोश्चितू वाक्यार्थयोः सम्बन्धिनः सम्बन्धस्य रूपप्रतिरूपत्वं व्यञ्जनया निदर्शयेत्, तर्हि सा ( वस्तुनोस्तयोः सादृश्यव्यजिका विच्छित्तिः ) निदर्शनेत्युच्यते । इयं च द्विविधा, सम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धा च । ययोर्वस्तुनोश्च सम्बन्ध,उपात्तयोरेव स इति बोध्यम् । अत एव-रूपकातिशयोक्त्योर्व्यवच्छेदः । इति ॥ १०४॥' ____ क्रमादुदाहर्तुमिच्छुराह-तत्रेत्यादि । स्पष्टम् । 'अत्रास्मिन् । भूमिवलये । कः किंखरूपः किन्नामा वेति भावः । जनान् प्राणिनः । मुधा व्यर्थम् , विनाऽपराधप्रतिकारेच्छामिति यावत् । तापयन् सन्तापं नयन् । सुचिरं. चिरकालम् । सम्पदमभ्युदयम् । एति प्राप्नोति न कोऽपि परमनपराधिनं सन्तापं प्रापयन् जनः सम्पन्नैश्चर्यो भवति इति भावः । इति । दिनेन दिनद्वारा । वेदयन् ज्ञापयन् । भानुमान रश्मिमान तेजवी (सूर्यः) इति यावत् । 'भानू रश्मिदिवाकरौ ।' इत्यमरः । तत उदयाचलात् । चरमाचलमस्ताचलम् । आससाद प्राप । अत्र रथोद्धतावृत्तम्, 'रथोद्धता नौ लौ ग ।' इति च तल्लक्षणम् ॥' 'सूर्य उदयं प्राप्यात्यन्तं तेजसा तपन्नपि शनैः शनैः क्षीणतेजस्त्वं प्राप्नुवन् अस्ताचलं सर्वथा प्रापेत्यत्र बीजं निदर्शयति-यथाऽहं पान्थान अनपराधिनः सन्तापये तथाऽ. न्योऽप्येवं कश्चित् सन्तापयिष्यति, स कियन्तमप्यभ्युदयं किमिति नेयात्, किन्तु यथा मम तेजसां धाम्नोऽपि ततोऽवश्यं भवति पतनम् , तथा सर्वस्याप्यन्यस्येति बाढं विभाव्यम् । इति बोधयति तांता स्वीयां परिवर्त्यमानामवस्था दर्शयन् सूर्य, इति कविः ॥ १६९ ॥' ___ स्फुटा चैवं निदर्शनेत्येव निर्दिशति-अत्रोदाहृते पद्य इत्यर्थः । रवेः सूर्य्यस्य । ईदृशार्थवेदनक्रियायाम् ईदृशः 'कोत्रे'त्यादिपादद्वयात्मकवाक्यतात्पर्य्यरूपोऽसावर्थस्तस्य वेदनं ज्ञापनं तदेव क्रिया तस्याम् । वक्तत्वेन । अन्वयः सम्बन्धः । सम्भवति । एव । हेतुं निर्दिशति-ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपकर्मवत्त्वात् ईशार्थस्य पूर्वपादद्वयात्मकवाक्यतात्पर्य्यार्थस्य ज्ञापनं तत्र समर्था या चरमाचलप्राप्तिरस्ताचलेऽवस्थानं सैव रूपं यस्य तादृशं यत् कर्म तदस्यास्तीति तस्य ( तादृशस्य सूर्य्यस्य ) भावस्तत्त्वं तस्मात् । स ईदृशार्थवेदनक्रियायां वक्तृत्वेनान्वयः । च । रवे रविसम्बन्धिनः । अस्ताचलगमनस्य । च तथा। परितापिनां परितापकारिणां तत्सम्बन्धिन्या इति यावत् । विपत्प्राप्तः। बिम्बप्रतिबिम्बभावं स्वरूपप्रतिरूपत्वं सादृश्यमिति यावत् । बोधयति । अयम्भावःएति क्रियाप्रतिपाद्यस्य कार्य्यस्य तापनक्रियाप्रतिपाद्यं कारणमित्यनयोः सम्बन्धः । स चासादनक्रियया प्रतिपाद्यते; तदेवम्-सूर्यकर्तृकास्ताचलकर्मकासादनस्य जनकर्मकमृषातापनकर्तृकर्तृकसम्पत्कर्मकचिरकालावधिकालाभस्य च सादृव्यं वेदनक्रियया निदर्यते । इति । ___ असम्भवद्वस्तुनिदर्शनामुदाह काम आह-असम्भवदित्यादि । स्पष्टम् । 'अस्या नायिकायाः। कुटिलः । कटाक्षविक्षेपः। कुवलयमालाललितं कुवलयानि नीलाम्बुजानि तेषां माला तस्या ललितं विलासस्तत् । 'लड' विलासे इत्यस्माद्भावे क्तः, डलयोरभेदाल्लेन निर्देशश्च । अधरः। किसलयलीलां किसलयं नवपत्रं तस्य लीला व्रीडा ताम् । अथ-आननं मुखम् । कलानिधिविलासं कलानिधिश्चन्द्रस्तस्य विलासस्तम् । कलयति रचयति । गीतिश्छन्दः, तल्लक्षणं चोक्तं प्राकू ॥ १७०॥'