Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 811
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । 'दूरसमा गतवति त्वयि जीवनाथे भिन्ना मनोभवशरेण तपस्विनी सा। उत्तिष्ठति स्वपिति वासगृहं त्वदीयमायाति याति हसति श्वसिति क्षणेन ॥ १६२ ॥' इदं मम । अत्रैकस्या नायिकाया उत्थानाद्यनेकक्रियासम्बन्धः । अत्र च गुणक्रिययोरादि. मध्यावसानसद्भावेन चैविध्यं न लक्षितम् , तथाविधवैचित्र्यस्य सर्वत्रापि सहस्रधा सम्भवात् । राजिभिः ॥' इत्युदाहार्य्यम् , प्रावृष उपक्रमे जीमूतपङ्क्तीनामिव शाद्वलराजीनामपि प्रस्तुतत्वेन तुल्ययोगिताया एवाङ्गीकारौचित्यात् । इति । । कारकदीपकमुदाहरति-'त्वयि । जीवनाथे प्राणनाथे प्राणेभ्योऽप्यतिप्रिये । दूरम् असन्निहितत्वम् । समागतवत्यागच्छति सतीति भावः । सा त्वदेकाधारा । मनोभवशरण कामबाणप्रहारेण । भिन्ना। तपस्विनी दुःखिता, तथाऽपि त्वदनुग्रहाभिलाषैकवतपरेति वा भावः । उत्तिष्ठति 'त्वामायान्तमिव सम्भाव्ये ति शेषः । स्वपिति 'त्वत्सङ्गानिवतेवेति शेषः । त्वदीयम् । वासगृहं निवासभवनम् । आयाति 'कदाचिनिलीय मद्वञ्चनार्थ नात्र स्थित इति द्रष्टु मिति शेषः । याति । 'त्वा तत्र अप्राप्ये ति शेषः । हसति 'त्वन्नर्मोक्तिं स्मृत्वेवे' ति शेषः । क्षणेन । पुनः-श्वसिति उच्छासं प्रकटयति 'तव वस्तुतो दूरं प्रयाण निश्चित्येति शेषः । वसन्ततिलकं वृत्तम् । अत्र कस्या अपि नायिकादूत्या नायकं प्रति तदुःखावस्थावर्णनम् ॥' अत्र परकीयत्वभ्रममपनेतु. माह-इदमित्यादि । स्पष्टम् ॥ १६२॥' उदाहरणं सङ्गमयितुमाह-अत्रेत्यादि । स्पष्टोऽर्थः । इदम्बोध्यम्-अत्रोत्थानादीनामनेकासा क्रियाणां तत्पद वाच्या नायिकवेकं कर्तकारकम् । अथ-यद्यपि नायिकाया विरहावस्थायां वर्ण्यमानायां सर्वासामेव क्रियाणां प्रकृतत्वमिति वक्तुं शक्यते, तथाऽपि-नायकागमनालिङ्गनादीनां सम्भाव्यमानानां परस्परं विजातीयत्वेनैकस्याः क्रियायाः प्रस्तुतात्वम् , अपरस्या अप्रस्तुतात्वमित्यासां प्रस्तुताप्रस्तुतात्वं समाधेयम् । यथा वा-'वासयति हीनसत्त्वानतिसत्त्वानुद्धतान् विवासयति । त्रासयति सकलशत्रून् नीतिविदामग्रणीनराधिपतिः ॥' इति, अत्र हि-कस्यचित् हीनसत्त्वस्य, सत्त्वाधिकं वाऽसहमानस्य, शत्रुणा पीडितस्य वा; राजानं प्रत्युक्तो सामान्यविशेषात्मिकायामप्रस्तुतप्रशंसायामेकस्याः क्रियायाः प्रकृतात्व इतरयोरप्रकृतात्वम् । यथा वा-'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च मादृशान् राजन्नतीव निपुणो भवान् ॥' इति, अत्र हि कस्यचिवृत्तिहीनस्य दीनस्योक्तौ वसुदानखत्राणलक्षणयोः क्रिययोःप्रकृतयोः सत्योररिमर्दन-यशोधानलक्षणयोः क्रिययोरप्रकृतात्वम् । इति । अत्र रसगङ्गाधरमतं निराकुर्वन्तोऽलकारसर्वस्वकाराः प्राहुः 'अत्र वदन्ति-दीपकमपि तुल्ययोगितायामेवान्तर्भवति, धर्मस्य सकृवृत्तेरुभयत्राविशेषात् । प्रकृताप्रकृतत्वादिविशेषस्य चावान्तरभेदसाधकत्वेऽपि अलङ्कारतायामसाधकत्वात् । अन्यथा श्लेषस्य तद्भेदयोरपि भिन्नालङ्कारत्वापत्तेः। तस्मात् प्रकृतानामेवाप्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्योगिताया एव त्रयो भेदा वक्तुमुचिताः, तथा सति दीपकस्य तुल्ययोगिताया भेदं वदतां प्राचीनानां दुराग्रह एवेति, तच्चिन्त्यम् ; 'नानाऽधिकरणस्थानां शब्दानां सम्प्रदीपकः । एकवाक्येन संयोगो यस्तु दीपकमुच्यते ॥' यथा-'सरांसि हंसैः कुसुमैश्च वृक्षा मदिरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानि सदा क्रियन्ते ॥' इति भगवता भरतमुनिना दीपकस्याङ्गीकारास्तत्रैव तुल्ययोगिताऽन्तर्भावस्यौचित्यात् ।' इति, अन्ये तु 'नच दीपके तुल्ययोगिताया अप्यन्तर्भावः स्थाने, अन्वर्थतायाः उच्छेदात् । दीपकं हि दीप इवेत्यर्थकम् , दीपस्य च अभेदेन सर्वेषां प्रकाशकत्वम् । न चैतत्तुल्ययोगितायाः । तुल्यानां योगितेत्यन्वर्थताया अपहानात् ।' इति । यदपि 'न भाति रमणीयोऽपि वैराग्येण विना यतिः। वैदुष्येण विना विप्रो, नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवान्, राजन् भवता च बसुमतीवलयम् ॥' 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' इत्यादौ धर्मस्यादिमध्यान्तगततयाऽस्य भेदान्तरं न चमत्कारीत्युपेक्षमाण आह-अत्रेत्यादि । स्पष्टम् । बिम्बप्रतिबिम्बभावेऽपि इदं दृश्यते, यथा-'शीलभारवती कान्ता, पुष्पभारवती लता। अर्थभारवती वाणी, भजते कामपि श्रियम् ॥' इति ।। १ भवानित्यर्थः । खार्थे कः । -

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910