Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 810
________________ ३३२ - साहित्यदर्पणः। [ दशमः१२९ अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते। अथ कारकमेकं स्यादनेकासु क्रियासु. चेत् ॥ १०२॥ क्रमेणोदाहरणम्-'बलावलेपादधुनाऽपि पूर्ववत् प्रबाध्यते तेन जगजिगीषुणा। सती च योषित्प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥१६१॥' अत्र प्रस्तुताया निश्चलायाः प्रकृतेः प्रकृतत्वेऽप्रस्तुतायाश्च सत्या योषित एकानुगमनक्रियासम्बन्धः। . दीपकं लक्षयति-१२९दीपकम् । तु। अप्रस्तुतप्रस्तुतयोः । द्विवचनमविवक्षितम् , तेन-अप्रस्तुतप्रस्तुतानामित्यपि लभ्यते । अप्रस्तुताना प्रस्तुतानां च सम्मिलितानामिति भावः । एतेन-तुल्ययोगिताया व्यवच्छेदः । 'यदा भवेत् एकधर्माभिसम्बन्धः तदा' इति पूर्वसूत्रादनुवर्तनीयम् । निगद्यते । धर्मश्चानापि गुणक्रियाऽन्यतररूप एवेति बोध्यम् । अथ अथवेति भावः । चेत् । अनेकासु । क्रियासु । 'सतीषु' इति शेषः । एकं 'कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥' इत्युक्तेषु षट्स्वेकतममिति भावः । कारकम् । स्यात् । तदोऽपि दीपकं निगयते इति शेषः । दीपकं द्विविधम् एकस्य धर्मस्यैकत्रैवाप्रस्तुतानां प्रस्तुतानां च सम्बन्धित्वेनोपातत्वात् , एकस्यैव कारकस्य वा एकत्रानेकासां क्रियाणां सम्बन्धित्वेनोपात्तत्वात् । अत्र च यासां क्रियाणामेकं कारकमपेक्ष्यते, ता अप्रस्तुतप्रस्तुता ज्ञेयाः, यत्र प्रस्तुतासु अप्रस्तुतास्वेव वा क्रियासु सतीष्वेकं कारकं तत्र कारकोपाधिका तुल्ययोगितैव, यत्र तु अप्रस्तुतासु प्रस्तुतासु च सम्मिलितासु क्रियासु सतीष्येकं कारकं तत्र कारकोपाधिकं दीपकं ज्ञेयम् । दीपकत्वं च प्रकृताप्रकृतप्रकाशकत्वम् । अतएवास्य 'दीप इवेति, दीपयतीति वा घटादिमिव सर्व वाक्य' मिति अन्वर्था सज्ञा । अत्रापि तुल्ययोगितायामिव सादृश्यं व्यङ्गयम् । तुल्ययोगितायां प्रस्तुतानामप्रस्तुतानामेव वेति तुल्यत्वमपेक्षितम्, अत्र तु प्रस्तुताप्रस्तुतोभयसाधारणत्वमिति विवेकः ॥ १०२ ॥ उदाहतुकाम आह-क्रमेणेत्यादि । स्पष्टम् । 'जिगीषुणा जेतुमिच्छुना नित्योत्साहवतेति यावत् । तेन शिशुपालेन । बलावलेपावलरय सामर्थ्यविशेषस्यावलेपस्तत्प्रयोज्यो गर्वस्तस्मात्तं प्राप्येति भावः । अधुना साम्प्रतं वर्तमाने जन्मनीति यावत् । अपि । पूर्ववत् पूर्वजन्मनीव । जगत् । प्रवाध्यते तदेवोपपादयतिसती पतिव्रता 'पतिं या नाभिचरति मनोवाक्कायसंयता । सा भर्तर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ।' इत्यादिप्रसिद्धमाहात्म्येति यावत् । योषित् । च । निश्चला दृढा । प्रकृतिः स्वभावः । च । भवान्तरेषु जन्मान्तरेषु । अपि, किं पुनस्तस्मिन्नेव जन्मनीति भावः । पुमांसं पुरुषम् । अभ्येति अन्वेति । शिशुपालवधस्येदं पद्यम् । वंशस्थविलं छन्दः ॥ १६१ ॥ उदाहरणसङ्गतिं दर्शयितुमाह-अवेत्यादि । स्पष्टोऽर्थः । इदम्बोध्यम्-प्रकृतौ प्रस्तूयमानायां सत्या अप्यनुगमभक्रियारूपैकधर्मान्वयोपपादनमिति क्रियादीपकमिदम् , तथा च-सतीष प्रकृतिरित्यर्थों व्यज्यते । अत्र च प्रस्तुतैकत्वमिवाप्रस्तुतैकत्वमपि, प्रकृताप्रकृतानां बहुत्वे पुनारदमेव यथा-'किवणाण धणं णाआण फणमणी केशराई सीहाणं । कुलवालिआण स्थणआ कुत्तो छिप्पंति अमुआणं' ॥' इति, अत्र कुलवधूस्तनानां प्रस्तुतत्वे स्पर्शनक्रियैकरूपधर्मान्वयित्वेन कृपणधमादीनां वर्णनादप्रस्तुतत्वम् । यथा वा-भूष्यन्ते प्रमदवनानि बालपुष्पैः, कामिन्यो मधुमदमांसप्लैर्विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापै, राजानो विरलितवैरिभिः प्रतापैः ॥' इति, अत्र हि प्रतापकर्तृकराजकर्मकभूषणक्रियारूपैकधर्मान्वयित्वेन बालपुष्पादिप्रमदवनादीनां वर्णनमप्रस्तुतमिति । धर्मस्य गुणक्रियाऽन्यतरत्वेनाङ्गीकारात् अस्य व द्वैविध्यम्, तत्रान्त्यमुदाहृतम्, आद्यं यथा-'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ।' इति । अत्र कुटिलस्य मैत्र्या असम्भवत्वे प्रस्तूयमाने मृतलिप्सादेरुपमानभूतस्योपादानम् इति कुटिलमैत्री प्रस्तुता, मृतलिप्सादिरप्रस्तुता, अभावो गुणश्च; एवम्-अभावगुणरूपैकधर्मान्वयं दीपकमिदम् । नच 'श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपक्तिभिः । भुवश्च सुकुमाराभिर्नवशाल. १ 'कृपणानां धनं, नागानां फणामणिः, केसराः सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥ इति संस्कृतम् ।

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910