Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 807
________________ परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।। २२९ दीनां कलापादिभिरध्यवसाये विवक्षिते 'अन्यदेवाङ्गलावण्य' मित्यादिषु प्रकारेश्वव्याप्तिर्लक्षणस्य।' इति, तन्नः तत्रापि हि अङ्गलावण्यमन्यत्वेनाध्यवसीयते । तथाहि-'अन्यदेवे' ति स्थाने 'अन्यदिवे'ति पाठेऽध्यवसायस्यासाध्यत्वमेवेत्युत्प्रेक्षाऽङ्गीक्रियते । 'प्रागेव हरिणाक्षीणा' मित्यत्र बकुलादिश्रीणां प्रथमभाविताऽपि पश्चाद्भावित्वेन अध्यवसिता। अत एवात्रापि इव'शब्दप्रयोगे उत्प्रेक्षा। एवमन्यत्र । ... १२८ पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥ १०१॥ -दीनाम् । कलापादिभिः। आदिपदेन कुवलयादीनां ग्रहणम् । सहार्थेय तृतीया । अध्यवसायेऽभेदप्रत्यायने । विवक्षिते । 'सती'ति शेषः । 'अन्यदेवाङ्गलावण्य'मित्यादिषु। प्रकारेषु अभेदादिषु भेदाद्यध्यवसायाभिधानमूलेषु भेदेषु इति भावः । लक्षणस्य 'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिरित्युक्तस्य स्वरूपस्य । अव्याप्तिरनुगमाभावः । अयम्भाव:-अथ यदि धर्मिणो देऽपि धर्मिणोरेवाभेदाध्यवसायोऽतिशयोक्तिप्रयोजकः स्वीक्रियेत, तदा अभेदे भेदाध्यवसायमूलायामसम्बन्धे सम्बन्धाध्यवसायमूलयां चातिशयोक्तावव्याप्तिः, नहि तत्र धम्मिणो दोऽध्यवसीयते । अतःधर्माध्यवसाय एवातिशयोक्ती स्वीकार्य्यः । इतिइति। 'य'दिति शेषः। तत् । न । हि यतः। तत्राभेदे भेदाध्यवसायमूलायामसम्बन्धे सम्बन्धमूलायामतिशयोक्तौ च । अपि। अङ्गलावण्यम् । अन्यत्वेन लावण्यान्तरत्वेन । अध्यवसीयते। तदेव प्रकारान्तरेण सिद्धान्तयति-तथाहि । 'अन्यदेवे ति स्थाने । अन्यदिवेति पाठे। अध्यवसायस्याभेदप्रत्यायनस्य । असाध्यत्वमनुद्भावनीयत्वम् । एव । इति. अस्मात् कारणात् । उत्प्रेक्षा। अङ्गीक्रियते स्पष्टमन्यत् । इदमाकूतम्-'एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिकान्तगोचरम् । अत्र चातिशयाख्यं यत् फलं प्रयोजकरवानिमित्तं, तत्राभेदाध्यवसायः तथा हि-'कमलमनम्भसि, कमले च कुवलये, तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' इत्यादौ वदनादीनो कमलाद्यैर्भेदेऽपि वास्तवं (लौकिकम् ) सौन्दर्य (अतिशयितत्वम्) कविसमर्पितेन सौन्दर्येण (अतिशयितत्वेनाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम्, नतु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः। अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः। तत्र हि 'अण्णं लउहत्तणअं, अण्णा वि अ का वि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह श्चि अ ण होई॥' इत्यादौ सातिशयं सुकुमारत्वं निमित्तभूतमभेदेनाध्यवसितम्, एवमन्यत्रापि ज्ञेयम्; तदभिप्रायेणैवाध्यवसितप्राधान्यम् । इत्यलङ्कारसर्वखकाराः प्राहुः । कविराजाः पुनः- धर्मिणां धर्माणां वाऽध्यवसाये न कोऽपि विशेषः, 'कथमुपार कलापिनः कलापः ।' 'कमलमनम्भसि' इत्यादौ हि धर्मिणो देऽभेदाध्यवसायः सम्भवत्येव, 'अन्यदेवाङ्गलावण्यं' 'अण्णं लडहत्तणों' इत्यादौ पुनर्धर्मिण एवाभेदे भेदाध्यवसायाङ्गीकारेऽपि न कश्चिद्दोषः । प्रत्युत 'अन्यदेवे'त्यादौ "अन्यदिवे'ति पाठे उपमा स्यात् , अस्ति चोत्प्रेक्षा । अभेदे भेदेऽध्यवसीयमाने धर्मिण एकत्वेऽपि 'धर्मभेदेन धार्मभेद' इति नयेन धर्मि उपमानोपमेयत्वमापयेत. धम्मिणोऽभिन्नत्वे तस्यैव भिन्नत्वाध्यवसायेऽपि अभिन्नताया अपि सर्वथाऽनिरासः । अत्र हि भिन्नत्वं कविप्रतिभामात्रोत्तम्भितम्, नतु तत्र तथा । इति, जयरथास्त्वलङ्कारसर्वस्वव्याख्यायां 'यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् । तच्च धम्मिणामस्तु धर्माणां वेति को विशेषः ? येनाव्याप्तिः स्यात् , प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उपमाऽऽदीनामप्यतिशयोक्तिप्रसङ्गः स्यात्, तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थीदीरणेन ।' इति । तुलपयोगितां लक्षयति-१२८ यदा । प्रस्तुतानां प्रकरणप्राप्तानाम् । वा । अन्येषामप्रस्तुतानां प्रकरणमप्राप्तानाम् इति यावत् । पदार्थानाम् । एकधर्माभिसम्बन्ध एकोसौ धर्मस्तेनाभिसम्बन्धोऽन्वयः । भवेत् । तदा । तुल्ययोगिता तुल्यानां समानानां योगिता सम्बन्धित्वमिति तथोक्ता । तन्नामाऽलङ्कारः । स्यात् । १ 'अन्यत् सौकुमार्यम् , अन्यैव च काऽपि वर्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव च न भवति ॥' इति संस्कृतम् ।

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910