Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 801
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । २२३ इत्यत्र तर्वादौ तिमिराक्रान्तता रञ्जनादिरूपेण सन्दिह्यत इति सन्देहालङ्कारः । इति केचिदाहुः, तन्न; एकविषये समानबलतयाऽनेककोटिस्फुरणस्यैव सन्देहत्वात्, इह तु तर्वादिव्याप्तेः प्रतिसम्बन्धिभेदो व्यापनादेनिंगरणेन रञ्जनादेः स्फुरणं च। यच्चान्ये-~~-'अनेकत्वनिर्धारणरूपविच्छित्याश्रयत्वेन एककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारः।' इति वदन्ति स्म, तदप्ययुक्तम् । निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिहि सम्भावना, तस्याश्चात्र स्फुटतया सद्भावात् 'नु' शब्देन च 'इव' शब्देनेव तस्या द्योतनादुत्प्रेक्षवेयं भवितुं युक्ता। इत्यलमदृष्टसन्देहप्रकारकल्पनया। भतानतेषु प्रदेशेषु । धरित्री पृथ्वी। पूरिता पूर्णतां नीता । नु ! 'विषमेषु धरित्री'ति समस्तपाठे तु विषमेषोर्मदनस्य धरित्री भूमिः आश्रयभूता रात्रिरिति यावत्, इत्यर्थः । अन्यत्पूर्ववत् । ककुभो दिशः । “दिशस्तु ककुभः काष्टा" इत्यमरः। संहता एकत्र समावेशिताः । नु! किरातार्जुनीयस्येदं पद्यम् । खागताछन्दः । 'खागता नौं भूगौ ग्।' इति च तल्लक्षणम् ॥ १५० ॥ ___ इत्यत्र । तर्वादौ। निमिराक्रान्तताऽन्धकाराच्छादितता। रञ्जनादिरूपेण । सन्दिह्यते । इति । सन्देहालङ्कारः । इति । तत् । न । 'युक्त मिति शेषः । हेतुं निर्दिशति-एकविषये एकस्मिन् प्रस्तुते (उपमेये)। समानबलतयोपमानसदृशकक्षतया। अनेककोटिस्फुरणस्यानेककोटिकावगाहिज्ञानस्य । एक । रुन्देहत्वात्सन्देहपदार्थत्वात् । 'स्थाणुर्वा पुरुषो वा' इत्यादौ यथैकस्मिन् विषये स्थाणुपुरुषाद्यनेककोटिकावगाहि ज्ञानं तुल्यकक्षकमित्यस्य सन्देहपदवाच्यत्वम् इति भावः । इहोत्प्रेक्षायामित्यर्थः । तु । तर्वादिव्याप्तस्तरुशैलादौ तिमिरव्याप्तेः । प्रतिसम्बन्धिभेदस्तरशैलगगनधरणिदिशः तमोव्याप्तेः सम्बन्धिभूताः, तासां प्रत्येकं रञ्जनादिना तत्तदवगाहि ज्ञानं भिन्नम् । तथा च-एकविषयकानेककोटिकावगाहिज्ञानत्वाभावात् अत्र सन्देहपदवाच्यताऽनुपपन्नेति निष्कृष्टोऽर्थः । उक्तमर्थ द्रढयितुमन्यदप्याह-व्यापनादेः (अनादिपदमुदाहरणान्तरविवक्षया) विषयस्य । निगरणेनाधःकरणेन । रखनादेः । आदिना नामनादेर्ग्रहणम् । स्फुरणम । च। अयम्भावः-अत्र विषयस्तमोव्याप्तिः, असौ तथाऽनभिधाय रञ्जनादिना अभिधीयते, अतोऽत्र रञ्जनादेर्यथा प्राधान्यं, न तथा तमोव्याप्तेः । सन्देहे तु-विषयस्य विषयिणश्च समकक्षत्वं नतु विषयविषयिणोः प्राधान्याप्राधान्याभ्यां भेदः । अतोऽत्रोत्प्रेक्षव, नतु सन्देहः । इति ।। अत्र सन्देहं मन्वानानां युक्त्यन्तरं खण्डयितुमाह-यत् । च । अन्ये रजिता नु विविधा इत्यादौ सन्देहं खीकुर्वन्तः । अनेकत्व निर्धारणरूपविच्छित्याश्रयत्वेन एकत्वस्य निर्धारणं तदभावोऽनेकत्वनिर्धारणमेव रूपं यस्याः साऽसौ विच्छित्तिश्चमत्कारस्तस्या आश्रय आधारभूतस्तस्य भावस्तत्त्वं तेन । एककोट्यधिकोऽनेककोटिकः । अपि । अयम्। भिन्नो द्वितीयः । सन्देहप्रकारः।' इति । वदन्ति। स्म । एषामयमभिप्रायः-यत्रैष एवैक इति निर्धारणं न स्यात्, तत्कृतां विच्छित्तिमाश्रित्यानेककोटयवगाहि ज्ञानमपि सन्देहविशेषः । तथा च-रजिता नु' इत्यादौ रञ्जिता एव नामितमेवेत्येवमेकस्य निश्चयस्याभावाद् रञ्जननामनाद्यनेककोटिकस्य ज्ञानस्य च सद्भावात्सन्देह इति फलितम् । इति । निराकरोति-तत् । अपि । अयुक्तम् । तदेवोपपादयति-हि यतः । निगीर्णस्वरूपस्याधःकृतस्वरूपस्य . विषयस्य । अन्यतादात्म्यप्रतीतिरन्येन विषयिणा तादात्म्यं तस्य प्रतीतिः । सम्भावना। तस्याः सम्भावनायाः। च । अत्र । स्फुटतया। सद्भावात् । 'नु' शब्देन 'उत्प्रेक्षावाचकत्वेनाभिमतेने'ति शेषः । च । 'इव' शब्देन । इव । तस्या । सम्भावनायाः । द्योतनादुद्बोधनात् । इयम् 'रजिता नु'इत्या दौ सन्देहोपस्कारकत्वेन तवाभि. मता प्रतीतिरिति भावः । उत्प्रेक्षा। एव भवितुम् । युक्ता । अयम्भावः -'तरुशैलेषु तिमिरं व्याप्त'मित्याअर्थ: प्रस्तुतः, तं च निगीर्य रञ्जनादिना साम्यप्रतीतिः 'रञ्जिता'इत्यादिनोद्भाविता, तस्याश्च 'नु' शब्देनोत्प्रेक्षोपस्कारकतां प्रतिनीतत्वम् । अतोऽत्रोत्प्रेक्षैव । इति एवमलङ्कारान्तरतो व्यतिरिक्तविषयतयोत्प्रेक्षां निर्धाय विवेचनमुपसंहरन्नाहइति । अदृष्टसन्देहप्रकारकल्पनयाऽदृष्टः परैरनालोचितः (अत एवान्यथाऽसिद्धान्तितः) यः सन्देहप्रकार उत्प्रेक्षाया अलङ्कारान्तरेण साङ्कय॑मस्ति न वेति सन्देहावस्थापनं तस्य कल्पना तया। अलम् ।

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910