Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 800
________________ २२३ साहित्यदर्पणः। [ दशमःइत्यत्र विकासिनीलोत्पलति स्म कणे मृगायताक्ष्याः कुटिलः कटाक्षः।' इत्यादौ च ज्ञेयम् । भ्रान्तिमदलङ्कारे-'मुग्धा दुग्धधिया' इत्यादौ भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रिकाऽऽदेखनं नास्ति, तदुपनिवन्धनस्य कविनैव कृतत्वात् । इह तु सम्भावनाक विपयस्यापि ज्ञानमिति द्वयो दः। सन्देहे-समकक्षतया कोटिद्वयस्य प्रतीतिः, इह तूत्कटा खम्भाव्यभूता एका कोटिः। अतिशयोक्ती विषयिणः प्रतीतस्य पर्यवसानेऽसत्यता प्रतीयते, इह तु प्रतीतिकाल एवेति भेदः । यनु 'रञ्जिता नु विविधास्तरुशैला नामितं नु गमनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहता नु ककुभस्तिमिरेण ॥ १५०॥" रितम् । 'प्रयास्यन्तं प्रियं श्रुत्वा गोविन्दं व्रजयोषिताम् । तत्क्षणाज्जातमौनाना' मिति पूर्व पादत्रयमिति बोद्धव्यम् । 'कङ्कणैरङ्गदायित'मिति पाठान्तरम् ।' इत्यत्र 'आय'प्रत्ययस्योपमावाचकत्वेनोपक्रमे उपमायाः प्रतीतावपि भुजमध्ये कङ्कणस्थितेरसम्भवात् सम्भावनोपयोगितायां पर्यवसानादुत्प्रेक्षा इति शेषः । मृगायताक्ष्या मृगाक्षिणी इवायते अक्षिते अक्षिणी यस्यास्तस्याः । कुटिलः । कटाक्षः । कर्णे । विकासिनीलोत्पलति विकसनशीलं नीलकमलमिवाचरति । स्म । 'नासाऽग्रमुक्तामधरप्रसारिरोचिनिनायेव च विद्रुमाभाम् ॥' इत्युत्तरमर्द्धमिति बोध्यम् । उपेन्द्रवज्रेन्द्रवज्रयोरुपजातिश्छन्दः ॥' इत्यादौ । च । 'क्वि'प्रत्ययस्योपमावाचकत्वेनोपमाया उपक्रमे प्रतीतावपि कर्णे कटाक्षस्यासम्भवात्तत्त्वेन सम्भावनादुत्प्रेक्षवेति । ज्ञेयम् ।। . अस्या मालारूपात्वमपि दृश्यते यथा-'द्विनेत्र इव वासवः करयुगो विवस्खानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिषुहारव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥' इति । बोधसौकायास्या अलङ्कारान्तरतः साम्यभ्रमं निराकर्तुमुपक्रमते-भ्रान्तिमदलङ्कारे-'मुग्धादुग्धधिया' इत्यादौ मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुश्चिनोति शयरी मुक्ताफलाकाक्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥' इत्यत्रेत्यर्थः । भ्रान्तानाम् । वल्लवादीनाम् । विषयस्योपमेयभूतस्य । चन्द्रिकाऽऽदेः । ज्ञानम् । न । अस्ति । तदुपनिबन्धनस्य तस्य चन्द्रिकाऽऽद्यज्ञानस्योपनिवन्धनं वर्णनम् । कविना । एव । कृतत्वात् दर्शितत्वात् । इहास्यामुत्प्रेक्षायाम् । तु । सम्भावनाकर्तुरुत्प्रेक्षकस्य कवैरन्यस्य वेति भावः । विषयस्योपमेयभूतस्य 'ऊरुः कुरुङ्गकदृश' इत्यादावूर्वादेरिति भावः । ज्ञानम् । अपि एव (निपातानामनेकार्थत्वम् ) । इति । द्वयोन्तिमदुत्प्रे. क्षयोः । भेदः । सन्देहे । 'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी' इत्यादाविति शेषः । कोटिद्वयस्योपमेयोपमानयोः । समकक्षतया समानावस्थाकत्वेन । अभेदे तृतीया । प्रतीतिः । इहास्यामुत्प्रेक्षायाम् । तु । उत्कटा निश्चितप्राया । सम्भाव्यभूतोत्प्रेक्षणीया अनिर्धारितखरूपेति यावत् । एकोपमानरूपा । कोटि: प्रकारः । 'कोटि: स्त्री धनुषोऽग्रेऽश्री सङ्ख्याभेदप्रकर्षयोः ।' इति मेदिनी । 'अतोऽनयोर्भेद'इति शेषः । अतिशयोक्तौ 'कथमुपरि कलापिनः कलाप' इत्यादौ । प्रतीतस्य ज्ञातस्य । विषयिण उपमानस्य । पर्यवसाने विचारान्तिमदशायाम् । असत्यता प्रतीयते । इहोत्प्रेक्षायाम् । तु । प्रतीतिकाले । एव । असत्यता प्रतिष्ठितेति शेषः । इति । भेदः । अयम्भावः-आहार्योऽन्यतादात्म्यप्रत्ययः सम्भावना,एषैवोत्प्रेक्षाया मूलम् । अनाहार्योऽन्य. तादात्म्यप्रत्ययोऽध्यवसानम् , एतदेवातिशयोक्तबीजम् । अतः-पूर्वत्र न निश्चितोऽन्यतादात्म्यप्रत्ययः । अतिशयोक्तौ तु निश्चित इत्यनयोर्भेदकम् । इति । क्वचिदाचार्याणामपि भ्रमः सम्भवतीति नितान्तं गवेषणीयमित्युपदेष्टुकाम आह-यत् । तु । केचित् । अलङ्कारसर्वखकारादय इति भावः । आहुः । 'तिमिरेणान्धकारेण । विविधा अनेकविधाः। तरुशैलास्तरवः शैला इवेति, तरव एव शैला इति वा, तरवश्च शैलाश्चेति वा, तरुभिरुपलक्षितादशैला इति वेति तथोक्ताः। रचिताः। नु किमु ! गगनमाकाशम् । नामितमधःपातितम् । नु किमु ! स्थगितमाच्छादितम् । नु किमु ! विषमेष

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910