Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 791
________________ परिच्छेदः ] afareer sureया समेतः । ११८ भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना । ११९ वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ ९३ ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे पुरा पुनः । जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ ९४॥ तदष्टाऽपि प्रत्येकं भावाभावाभिमानतः । २१३ निश्चय एवास्तु इति वाच्यम्, उपमेयं निषिध्योपमानस्यात्र स्थापनात् । न चारोप्यमाणत्वेन वदना देरेवोपमानता स्वीक्रियतामिति, प्रसिद्धयनुरोधेन वदनादेरुपमेयतया कमलादेरुपमानतयैव चाङ्गीकर्तुमौ चित्यात् । प्रसिद्धयनुरोधा पहानी व्यतिरेकादौ विच्छित्तेर्मूलोच्छेदापाताच्च । इति । उत्प्रेक्षां लक्षयति- ११८ प्रकृतस्य प्रस्तुतस्य स्वरूपेणावस्थितस्येति यावत् । परात्मनाऽप्रस्तुतरूपेण । सम्भावना । उत्प्रेक्षा तन्नामाऽलङ्कारः । भवेत् । अयम्भावः- उत्कटा प्रकृष्टस्य (उपमानस्य ) ईक्षा ज्ञानमित्युत्प्रेक्षापदस्यार्थः । सम्भावना चोत्कटकोटिकः संशयः । प्रकृतं यदधिकृत्य वर्ण्यर्ते तदुपमेयमिति भावः । परमुत्कृष्टमुपमानं तस्यात्मा स्वरूपमिति परात्मशब्दार्थश्च । तथा च — प्रकृतस्योपमेयस्य परेणोत्कृष्टेनोपमानेन समं तादात्म्येन सम्भावनोत्प्रेक्षेति कारिकार्थः । प्रकृतस्योपमेयस्य परेणोपमानेन तादात्म्ये वर्ण्यमाने प्रकृत विषयकमुत्कटोपमानको टिकं संशयापरपर्य्यायं ज्ञानमुत्प्रेक्षेति भावः । यद्वा- उत्कटैककोटिकः संशयः सम्भावना, संशयो हि द्विकोटिको भवति, यथा- 'अयं स्थाणुः पुरुषो वा' इत्यादौ प्रथमा कोटि : स्थाणोर्विधानरूपा, द्वितीया' पुरुषो वा' इति पुरुषस्य पुनर्विधानरूपा, 'अयं पुरुषो न वा' इत्यादौ च प्रथमा कोटि : पुरुषस्य विधानरूपा, द्वितीया पुन: ' नवा' इति पुरुषस्य निषेधरूपा । एवं च यस्यां कोटौ निश्चितप्रायत्वं सैव (प्रथमा) संशयस्य कोटि : सम्भावनापदवाच्या । उपमेयस्योपमानतया निश्चितप्राया सम्भावनोत्प्रेक्षेति फलितम् । निश्चितप्रायेत्यनेन दोलायमानाया द्वितीयायाः कोटेर्निरासः । सन्देहे संशयस्य तुल्यकोटिकतया, अत्र च उत्कट (टैक) कोटिकतया नास्य तत्रातिप्रसङ्गः । ' रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥ ' इत्यत्र सम्भावनायां परार्द्धव्यत्यासेनास्मिन्नेव ' धाराधरधिया धीरं नृत्यन्ती स्म शिखावलाः ॥ ' इति पठिते भ्रांती च नातिप्रसङ्गः ' पूर्वत्र संशयस्य प्रकृतविषयकत्वाभावात् परत्र प्रकृतस्य परात्मतया प्रथमत एव गृहीतत्वेन तथा सम्भावनाया एवानुदयाच्च । अलङ्काराश्च विच्छित्तिमूला भवन्तीति प्रकृतस्य परात्मतया रमणीयं सम्भावनमुत्प्रेक्षेति देवदत्त इव दूरस्थोऽयं भातीत्यादेश्चास्य व्यवच्छेदः । रमणीयत्वसम्भावनं च प्रकृताप्रकृतयोः साधारणधर्मत्व एवेति बोध्यम्, एतेन 'प्रायः पतेद् द्यौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेद् गौः । नूनं ज्वलिष्यन्ति दिशः समस्ता यद्रौपदी रोदिति हा हतेति ॥' 'वदनकमलेन बाले ! स्मितसुषमालेशमावहसि यदा । जगदिह तदैव जाने दशार्धवाणेन विजितमिति ॥ ' इत्यादेरपि च व्यवच्छेदः । विवृत्तिकारा अप्याहु: - 'सम्भावना उत्कटैककोटिकः संशयः । प्रकृतस्य संशयस्य, परात्मनोपमानरूपेण । तादात्म्यसम्बन्धलाभायात्मपदोपन्यासः । प्रकारत्वं तृतीयाऽर्थः । तथा च - तादात्म्यसंसर्ग कोपमान प्रकारको पमेयविशेष्यकोत्कटैकः संशय उत्प्रेक्षेत्यर्थः । सन्देहालङ्कारवारणाय उत्कटैककोटिक इति । रूपक भ्रान्तिमदतिशयोक्तीनां निश्चयरूपत्वात् संशयपदेन वारणम् ।' इति । ११९ अस्या भेदानाह - सा निरुक्तलक्षणोत्प्रेक्षा । प्रथमम् । वाच्या। तथा-प्रतीयमाना । इति द्विविधा । मता ननु का वाच्या ? का वाऽन्या ? इत्याशङ्कयाह - इवादिप्रयोगे । आदिना नूनं ध्रुवमित्यादेर्ग्रहणम् । वाच्या । स्यात् । अप्रयोगे द्योतकस्य पदस्य प्रयोगस्याभावे इति भावः । पुनः । परा प्रतीयमानोत्प्रेक्षा मतेत्यर्थः । ननु प्रथममिति किमर्थमुक्तमित्याशङ्कयाह-द्वयोद्विविधयोः । अप्येतयोः । यत् यस्माद्धेतोः । जातिः । गुणः । क्रिया । द्रव्यम् । ' इत्येतचतुष्टय' मिति शेषः । उत्प्रेक्ष्यं सम्भावनीयम् । तत्तस्मात् । अष्टधा । अपि । भावाभावाभिमानतः । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति नयेन भावाभिमानतो ऽभावाभिमानतश्चेत्यर्थः । प्रत्येकम् । 'भियते' इति

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910