________________
परिच्छेदः ]
afareer sureया समेतः ।
११८ भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
११९ वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ ९३ ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे पुरा पुनः ।
जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ ९४॥ तदष्टाऽपि प्रत्येकं भावाभावाभिमानतः ।
२१३
निश्चय एवास्तु इति वाच्यम्, उपमेयं निषिध्योपमानस्यात्र स्थापनात् । न चारोप्यमाणत्वेन वदना देरेवोपमानता स्वीक्रियतामिति, प्रसिद्धयनुरोधेन वदनादेरुपमेयतया कमलादेरुपमानतयैव चाङ्गीकर्तुमौ चित्यात् । प्रसिद्धयनुरोधा पहानी व्यतिरेकादौ विच्छित्तेर्मूलोच्छेदापाताच्च । इति ।
उत्प्रेक्षां लक्षयति- ११८ प्रकृतस्य प्रस्तुतस्य स्वरूपेणावस्थितस्येति यावत् । परात्मनाऽप्रस्तुतरूपेण । सम्भावना । उत्प्रेक्षा तन्नामाऽलङ्कारः । भवेत् । अयम्भावः- उत्कटा प्रकृष्टस्य (उपमानस्य ) ईक्षा ज्ञानमित्युत्प्रेक्षापदस्यार्थः । सम्भावना चोत्कटकोटिकः संशयः । प्रकृतं यदधिकृत्य वर्ण्यर्ते तदुपमेयमिति भावः । परमुत्कृष्टमुपमानं तस्यात्मा स्वरूपमिति परात्मशब्दार्थश्च । तथा च — प्रकृतस्योपमेयस्य परेणोत्कृष्टेनोपमानेन समं तादात्म्येन सम्भावनोत्प्रेक्षेति कारिकार्थः । प्रकृतस्योपमेयस्य परेणोपमानेन तादात्म्ये वर्ण्यमाने प्रकृत विषयकमुत्कटोपमानको टिकं संशयापरपर्य्यायं ज्ञानमुत्प्रेक्षेति भावः । यद्वा- उत्कटैककोटिकः संशयः सम्भावना, संशयो हि द्विकोटिको भवति, यथा- 'अयं स्थाणुः पुरुषो वा' इत्यादौ प्रथमा कोटि : स्थाणोर्विधानरूपा, द्वितीया' पुरुषो वा' इति पुरुषस्य पुनर्विधानरूपा, 'अयं पुरुषो न वा' इत्यादौ च प्रथमा कोटि : पुरुषस्य विधानरूपा, द्वितीया पुन: ' नवा' इति पुरुषस्य निषेधरूपा । एवं च यस्यां कोटौ निश्चितप्रायत्वं सैव (प्रथमा) संशयस्य कोटि : सम्भावनापदवाच्या । उपमेयस्योपमानतया निश्चितप्राया सम्भावनोत्प्रेक्षेति फलितम् । निश्चितप्रायेत्यनेन दोलायमानाया द्वितीयायाः कोटेर्निरासः । सन्देहे संशयस्य तुल्यकोटिकतया, अत्र च उत्कट (टैक) कोटिकतया नास्य तत्रातिप्रसङ्गः । ' रामं स्निग्धतरश्यामं विलोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥ ' इत्यत्र सम्भावनायां परार्द्धव्यत्यासेनास्मिन्नेव ' धाराधरधिया धीरं नृत्यन्ती स्म शिखावलाः ॥ ' इति पठिते भ्रांती च नातिप्रसङ्गः ' पूर्वत्र संशयस्य प्रकृतविषयकत्वाभावात् परत्र प्रकृतस्य परात्मतया प्रथमत एव गृहीतत्वेन तथा सम्भावनाया एवानुदयाच्च । अलङ्काराश्च विच्छित्तिमूला भवन्तीति प्रकृतस्य परात्मतया रमणीयं सम्भावनमुत्प्रेक्षेति देवदत्त इव दूरस्थोऽयं भातीत्यादेश्चास्य व्यवच्छेदः । रमणीयत्वसम्भावनं च प्रकृताप्रकृतयोः साधारणधर्मत्व एवेति बोध्यम्, एतेन 'प्रायः पतेद् द्यौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेद् गौः । नूनं ज्वलिष्यन्ति दिशः समस्ता यद्रौपदी रोदिति हा हतेति ॥' 'वदनकमलेन बाले ! स्मितसुषमालेशमावहसि यदा । जगदिह तदैव जाने दशार्धवाणेन विजितमिति ॥ ' इत्यादेरपि च व्यवच्छेदः । विवृत्तिकारा अप्याहु: - 'सम्भावना उत्कटैककोटिकः संशयः । प्रकृतस्य संशयस्य, परात्मनोपमानरूपेण । तादात्म्यसम्बन्धलाभायात्मपदोपन्यासः । प्रकारत्वं तृतीयाऽर्थः । तथा च - तादात्म्यसंसर्ग कोपमान प्रकारको पमेयविशेष्यकोत्कटैकः संशय उत्प्रेक्षेत्यर्थः । सन्देहालङ्कारवारणाय उत्कटैककोटिक इति । रूपक भ्रान्तिमदतिशयोक्तीनां निश्चयरूपत्वात् संशयपदेन वारणम् ।' इति ।
११९ अस्या भेदानाह - सा निरुक्तलक्षणोत्प्रेक्षा । प्रथमम् । वाच्या। तथा-प्रतीयमाना । इति द्विविधा । मता ननु का वाच्या ? का वाऽन्या ? इत्याशङ्कयाह - इवादिप्रयोगे । आदिना नूनं ध्रुवमित्यादेर्ग्रहणम् । वाच्या । स्यात् । अप्रयोगे द्योतकस्य पदस्य प्रयोगस्याभावे इति भावः । पुनः । परा प्रतीयमानोत्प्रेक्षा मतेत्यर्थः । ननु प्रथममिति किमर्थमुक्तमित्याशङ्कयाह-द्वयोद्विविधयोः । अप्येतयोः । यत् यस्माद्धेतोः । जातिः । गुणः । क्रिया । द्रव्यम् । ' इत्येतचतुष्टय' मिति शेषः । उत्प्रेक्ष्यं सम्भावनीयम् । तत्तस्मात् । अष्टधा । अपि । भावाभावाभिमानतः । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति नयेन भावाभिमानतो ऽभावाभिमानतश्चेत्यर्थः । प्रत्येकम् । 'भियते' इति