________________
२१२ साहित्यदर्पणः।
[दशमः___ मह्ययं निश्चयान्तः सन्देहः, तत्र संशयनिश्चययोरेकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयः, नायकादेनिश्चयः। किश्च-न भ्रमरादेरपि संशयः। एककोट्यधिके ज्ञाने तथा समीपगमनासम्भवात् । तर्हि भ्रान्तिमानस्तु । अस्तु नाम भ्रमरादे_न्तिः। नचेह तस्याश्चमत्कारविधायित्वम् । अपितु तथाविधनायकायुक्तरेवेति सहदयसंवेद्यम् । किश्च-अविवक्षितेऽपि भ्रमरादेः पतनादौ भ्रान्तौ वा नायिकाचाट्वादिरूपेणैव सम्भवति तथाविधोक्तिः । नच रूपकध्वनिरयम्, मुखस्य कमलत्वेनानिर्धारणात् । नचापहुतिः, प्रस्तुतस्यानिषेधात् । इति पृथगेवायमलङ्कारश्चिरन्तनोतालङ्कारेभ्यः । शुक्तिकाया रजतधिया पतति पुरुष शुक्तिकेयं न रजतमिति कस्यचिदुक्ति - यमलङ्कारो, वैचित्र्याभावात् ।
___एवमुदाहृत्यास्यालङ्कारतो व्यवच्छेदं दर्शयति-अयं निरुक्तलक्षणो निश्चयालङ्कारः । निश्चयान्तस्तत्प्रभेदः । सन्देहस्तन्नामालङ्कारः । नहि नैवेत्यर्थः । हेतुं निर्दिशति-तत्र तस्मिन् सन्देहालङ्कारे । संशयनिश्चययोः। एकाश्रयत्वेनकाधिकरणकत्वेन । अवस्थानात् । अत्र निश्चयालङ्कारे। तु। भ्रमरादेः । आदिना कामदेवादेग्रहणम् । संशयः। नायकादेः। आदिना कविप्रभृतीनां ग्रहणम् । निश्चयः । ननु भ्रमरादेः संशयमूलक एव सोऽस्तु इत्याशङ्कयोक्तमर्थमाक्षिपति-किश्च । भ्रमरादेः। अपि । संशयः। न । हेतुं निर्दिशति-एककोट्यधिके एका कोटिर्विषयस्तस्या अधिकं तत्र, उपचारात्तदवगाहिनीत्यर्थः । अनेककोटिके इत्यर्थः । 'एककोट्यनधिके' इति पाठस्तु न साधीयान् । ज्ञाने । तथा। समीपगमनासम्भवात् । संशयो हि अनेककोटिकं ज्ञानम्, तत्सत्त्वे च मधुकरादेवंदनसरोजयोरुभयोरेव समीपे भ्रमणं युक्तम्, तयोरेकतरस्य सरोजत्वेनानिश्चयात्, अत्र तु वदनादेः सविधे स्पष्टं गमनमभिहितमिति नायं संशय इति भावः । आशङ्कते-तहि। भ्रान्तिमान । अस्तु 'भ्रान्तिमुपजीव्यै वास्य प्रवृत्तत्वा' दिति शेषः । उत्तरयति-अस्तु । नाम यथेष्टम् । भ्रमरादेः। भ्रान्तिः । एवं भ्रान्तिमात्रसत्त्वे न भ्रान्तिमानत्रेत्याह-नच । इह, भ्रमरादौ । तस्या भ्रान्तेः । चमत्कारविधायित्वमलङ्कारत्वाधायकत्वम् । अपितु किन्तु । तथाविधनायकायुक्तस्तथाविधो विरहिसदृशोऽसौ नायकादिस्तस्योक्तिः तस्याः, यद्वा-तथाविधाया नायकायुक्तिस्तस्याः। एव । 'चमत्कारविधायित्व'मिति पूर्वतोऽन्वेति । इति । सहदयसंवेद्यम् । ननु तथाविधोक्तिस्तु भ्रान्तिव्यजिकैवेत्यत आह-किश्च । भ्रमरादेः। पतनादौ वदनोपरि पतने विरहिणं प्रति धावने वा। अविवक्षिते । अपि । भ्रान्तौ । वा । 'अविवक्षिताया' मिति शेषः । भ्रमरादेवंदनाद्युपरि पतनादौ विरहिप्रभृतीन् प्रति वा धावनादौ अविक्षितेऽपि तथा भ्रान्तावविवक्षितायामपीति भावः । नायिकाचाहादिरूपेण नायिकायाश्चादादिः प्रियताऽऽपादनादिस्तद्रूपेण । एव । तथाविधा । उक्तिः। सम्भवति । ननु रूपक ध्वन्यमानमस्तु नामेत्याशङ्कयोत्तरयति-नच । अयम् । रूपकध्वनिस्तदूप इति भावः । हेतुं निर्दिशति-मुखस्य । कमलत्वेन । उपलक्षणेन विरहिणो हरत्वेन चेत्यर्थः । अनिर्धारणात् । नच । अपहृतिः। प्रस्तुतस्योपमेयस्य । अनिषेधात। इति इथम् । अयम् । चिरन्तनोक्तालङ्कारेभ्यश्चिरन्तनाः प्रकाशकारादयस्तैरुक्ता ये अलङ्कारास्तेभ्यः। पृथक् । एव। अलङ्कारः। उपस्कारकत्वस्यैवालङ्कारत्वमिति पुनः प्रकृते दर्शयति-शक्तिकायाम् । रजतधिया रजतमिदमिति भ्रमेण । पुरुषे । पतति लन्धुमिच्छति सतीति भावः । शुक्तिका । इयम् । रजतम् । न । इति । कस्यचित् । उक्तिः। अयं निश्चयाख्यः । अलङ्कारः। न । वैचित्र्याभावात् । वैचित्र्यं हि उपस्कारकत्वापरनामधेयमलङ्कारत्वाधायकं भवति, अतोऽस्याभावात् । इदमवसेयम्-अपहृतिवदस्यापि अपहवपूर्वकत्वादारोपपूर्वकत्वाच्च भेदद्वयम्, तत्राद्य उदाहृतः, द्वितीयो यथा ममः-'कमलं न, किन्तु वदनं, न विकासः किन्तु सुस्मितं तन्व्याः । नेमे त्वदीयगोष्ठी, भृकुटी किमले मुधोपैषि ॥' इति । यदेनमेव भ्रान्त्यपगुतिमन्ये प्राहुः, तन्न रुचिरम् , 'न चापह्नुतिः प्रस्तुतस्यानिषेधात्' इत्यनेन प्रथममेव तमस्यापकरणात् । न चाविषयैष भ्रान्त्यपह्नुतिरास्तामिति वाच्यम्' न वदनमेतत् कमल, न मन्दहसितं, तदीयमुत्स्फुरणम् । 'मधुकर ! किमिति विमुग्धो भ्रमसि परस्यान्तिकं भूयः ॥' इत्यादौ तद्विषयावशेषात् कमलं नायिकाया वदनमिदमिति भ्रमेणापहाय तत्रैवावगाहमानायाः कस्याश्चित् ततोऽपि सुन्दरं मुखं समुपव्रजन्तं मधुकरं प्रति तत्त्वज्ञस्य कस्यापि कवेरुक्तिारयम् । न चात्रापि