________________
साहित्यदर्पणः ।
[ दशमःगुणक्रियास्वरूपत्वानिमित्तस्य पुनश्च ताः ॥ ९५ ॥
द्वात्रिंशद्विधतां यान्ति तत्र वाच्योत्प्रेक्षायामुदाहरणं दिडूमात्रं यथा'ऊरुः कुरङ्गकदृशश्चश्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ॥ १३७ ॥' अत्र विजयस्तम्भस्य बहुवाचकत्वाजात्युत्प्रेक्षा।
जाने मौनं. क्षमा शक्ती, त्यागे श्लाघाविपर्ययः।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ १३८ ।। इत्यत्र सप्रसवत्वं गुणः। शेषः । ताः षोडशविंधाः । च । निमित्तस्य । पुनः। गुणक्रियास्वरूपत्वात् गुणखरूपत्वात् क्रियाखरूपत्वाचे. त्यर्थः । द्वात्रिंशद्विधताम् । यान्ति । इदमुक्तम्-उत्प्रेक्षा तावद् द्विविधा, वाच्या, प्रतीयमाना चेति । इवादीनां प्रयोगे वाच्या, तेषामप्रयोगे पुन: प्रतीयमाना । एवं द्विविधाऽप्येषा जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयतया प्रत्येकं चातुर्विध्येनाष्टविधा, अष्टविधाऽप्येवं प्रत्येकं भावाभिमानेन अभावाभिमानेन च द्विधा षोडशविधा सम्पद्यते । एषेत्थं षोडशविधाऽपि निमित्तस्य जातिस्वरूपत्वेन क्रियास्वरूपत्वेन चेति द्विधा भिद्यमाना द्वात्रिंद्विधा सम्पद्यते । इति ॥ ९३ ॥ ९४ ॥ ९५ ॥
एवं द्वात्रिंशद्विधाया एतस्या विविक्तोदाहरणप्रदर्शने विस्तरभयमाशङ्कयाह-तत्र तासु मध्ये । वाच्योत्प्रेक्षायाम् । सत्यर्थे सप्तमी।
दिङमात्रम् । उदाहरणम् । यथा-'कुरङकशोऽल्पः कुरङ्गो मृग इति कुरङ्गकस्तदृशाविव दृशौ यस्यास्तस्याः, मृगशावाक्ष्या इति भावः । चश्चलचेलाञ्चलश्चञ्चलं चेलाञ्चलं सूक्ष्मवस्त्रं यत्र तथोक्तः । ऊरुः । स्मरस्य । सपताकः पताकासहितः । कनकमयः सुवर्णघटितः । विजयस्तम्भः शत्रून् विजित्य खसर्वजेतृत्वसूचक आरोपितः स्तम्भविशेषः । इव । भाति । आ-छन्दः ॥ १३७ ॥
कथमियं जात्युत्प्रेक्षेत्याह-अत्र । विजयस्तम्भस्य । बहुवाचकत्वात् । जात्युत्प्रेक्षा । अयम्भावः-स्तम्भाना बहुत्वात् स्तम्भत्वं जातिः, 'एकत्वे सत्यनेकसमवेतत्वं जातिः' इति नियमात् । इवप्रयोगाच्चयं वाच्या, स्तम्भश्च भावपदार्थ इति भावाभिमानिन्येषा, उत्प्रेक्षानिमित्तं च नायिकोरोः सौन्दये गुणश्च । नवशब्दस्योपमोपकारकत्वमेवेति शङ्कयम्, 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इत्यादिदण्डयुक्तदिशेवास्य सम्भावनावाचकत्वस्याप्यक्षतत्वात् । अत एव-'इवादिप्रयोग'इत्यादि कविराजैरप्युक्तम् । ___गुणोत्प्रेक्षामुदाहरति-'ज्ञाने । सत्यर्थे सप्तमी। मौनम् । शक्तौ । क्षमाऽपराधसहत्वम् । त्यागे दाने । श्लाघाविपर्यय आत्मप्रशंसोत्सुकत्वाभावः । इत्येवम्-तस्य दिलीपस्य । गुणा मौनादयः । गुणानुबन्धित्वाद ज्ञानादिगुणानुयायित्वात् । सप्रसवाः प्रसवाः सन्ततयस्तैः सहिताः । इव । 'आस निति शेषः । रघुवंशस्येदं पद्यम् ॥ १३८ ॥ - अत्र पूर्वतो वैलक्षण्यं दर्शयति-इत्यत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भावः-अत्र इवप्रयोग इति वाच्येयम्, उत्प्रे क्षणीयो गुणः सप्रसवत्वम् । प्रसवस्य च भावरूपत्वाद्भावाभिमानिनीयमुत्प्रेक्षा, अस्या निमित्तं च गुण इति गुणनिमित्ता च । प्रसवस्य कुक्षिगर्भविभागरूपत्वात् विभागस्य च 'अथ गुणा रूपं रसो गन्धस्ततः परम् । स्पर्शः संख्या परिमितिः संयोगश्च विभागकः ॥' इत्युक्तदिशा गुणत्वमेव । ज्ञानादीनां मौनाद्यत्पादने प्रसषसम्भावना, ज्ञानादिसत्त्व एव मौनादीनां गुणत्वमिति ज्ञानादीनां मौनादिप्रयोजकत्वमवधेयम् । अत एवोक्तम् ‘गुणानुबन्धित्वादिति ।