________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । 'गङ्गाऽम्भसि सुरवातस्तव निर्याणनिःस्वनः । स्नातीवारिवधूवर्गगर्भपातनपातकी॥ १३९ ॥' अब स्नातीति क्रिया । 'मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः । यमुनेव च वेणीयं स्मितं राकेव दृश्यते ॥ १४० ॥' अत्र चन्द्र इत्येकव्यक्तिवाचित्वाद् द्रव्यशब्दः। एते भावाभिमाने च । अभावाभिमाने यथा'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योऽन्यमीक्षां क्षामतां गतौ१४१'
अत्र 'अपश्यन्ताविति क्रियाया अभावः। एवमन्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा'गङ्गाऽम्भसि'इत्यादौ 'स्नाती'वेत्युत्प्रेक्षा, निमित्तं पातकित्वं गुणः । 'अपश्यन्ताविवेत्यादौ क्षामतागमनरूपं निमित्तं क्रिया । एवमन्यत् ।
एवं गुणोत्प्रेक्षामदात्य क्रियोत्प्रेक्षामुदाहरति-'सुरवाता सुराणां त्रातेति तत्सम्बदौ तथोक्त! अरिवधवर्गगर्भपातनपातकी अरीणां शत्रूणां वध्वो नार्यस्तासां गर्भस्तस्य पातनं तेन पातकी। तव । निर्व्याणनिःस्वनो निर्याणस्य प्रयाणस्य निःस्वनः शब्दः । अत्र प्रयाणशब्द उपचारात् स्वसम्बन्धिवाद्यादीनामुपलक्षक: । गङ्गाऽम्भसि गङ्गाजले । नाति । इव । राजस्तुतिरियम् ॥ १३९ ॥' .
अत्र क्रियां निर्दिशति-अत्रेत्यादिना । स्पष्टम् । इदं बोध्यम्-स्नानक्रियाया अपि भावपदार्थत्वात् भावाभिमानिनीयं क्रियोत्प्रेक्षा । इवशब्दप्रयोगाच वाच्या । इति ।
द्रव्योत्प्रेक्षामुदाहरति-'एणीदृश एणीदृशौ मृगीनेत्रे इव दृशौ यस्यास्तस्याः । मुखम् । अपरः। पूर्णचन्द्रः। इव । भाति । इयम् । वेणी । च । यमुना । इव । 'भाती'ति पूर्वतोऽनुवर्तते। स्मितम् । राका पूर्णमासी। इव । दृश्यते । परार्द्धं प्रायः पुस्तकान्तरे न दृश्यते ॥ १४० ॥'
द्रव्य निर्दिशति-अत्र । चन्द्रः। इति । एकव्यक्तिवाचित्वात् । द्रव्यशब्दः। एतदुपलक्षणं यमुनाsऽदेः। तथा च-चन्द्रादेव्यत्वाद्रव्योत्प्रेक्षेयम् । चन्द्रादेर्भावपदार्थत्वाद्भावाभिमानिनीव शब्दप्रयोगाच वाच्या। न चेयमुपमा, चन्द्रस्यापरत्वे यमुनायाः राकायाश्चोपमानताया अप्रसिद्धेः । यथा वा-'कलिन्दशैलादियमाप्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥ इति, अत्र हि आकाशत्वस्य स्वरूपात्मकत्वात् द्रव्योत्प्रेक्षा।
एवं जात्याद्यत्प्रेक्षां निर्दिश्यात्र भावाभिमानित्वेन विशेषयति-एते इत्यादिना। स्पष्टम् । अभावाभिमानेनोत्प्रेक्षामुदाहर्तुमाह-अभावाभिमाने । यथा-'कष्टं हन्त । अस्याः कान्तायाः। कपोलफलको गण्डदेशौ । तथाविधौ तथाऽनुभूतसौन्दयौँ । भूत्वा । अन्योऽन्यं परस्परम् । अपश्यन्तौ । इव । इदृक्षामीदृशीमेवंविधामिति यावत् । क्षामतां कृशताम् । गतौ। वियोगावस्थायां कामपि दृष्टवत उक्तिरियम् । पूर्व संयोगे स्फीतत्वादुभौ परस्परं दशतुः, संप्रति पुनः प्रवासे कातिशयात्तयोरवनतत्वेन नासाया उन्नताया व्यवधायिकात्वेन दर्शनाभावः सम्भवति, कपोलफलकयोरचेतनतया दर्शकत्वासम्भवेऽपि दर्शनमुत्प्रेक्षितमिव प्रयोगाद् वाच्या दर्शनस्याभावरूपत्वादभावाभिमानिनी दृशेश्च क्रियात्वात् क्रियोत्प्रेक्षेयम् ॥ १४१ ॥'
क्रियोत्प्रेक्षां निर्दिशति-अत्रेत्यादिना । स्पष्टम् । उदाहरणान्तरविषये प्राह-एवमित्यादि । स्पष्टम् । यथा वा'बाहुजानां समस्तानामभाव इव मूर्तिमान् । जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥' इत्यत्र बाहजत्वावच्छिन्नानामभावो विरोधित्वनिमित्तेनोत्प्रेक्ष्यते । 'समस्तलोकदुःखाना'मिति प्रथमपादपाठे गुणस्याभावाभिमानिन्युत्प्रेक्षा। 'औरञ्जनकालीभिर्जलदालीभिस्तथा वज्रे । जगदखिलमपि यथाऽऽसीनिलाचनवर्गसर्गमिव ॥' अत्र चाक्षुषज्ञानसामान्यशून्यतया पार्यन्तिकः क्रियाऽभावो धर्मः । मन्मथस्याभावमिव दृक्पातं तव मन्महे । समुद्धर दयासिन्धो मानाऽर्थाभासतर्षणात् ॥' इत्यत्र मन्मथस्य द्रव्यत्वात्तस्य विरोधित्वेन निमित्तेनाभावतादात्म्येनोत्प्रेक्षणम् । निमित्तभेदेन भिद्यमानामेतामुदाहरति-निमित्तस्येत्यादिना । स्पष्टम् । एवं वाच्यां दिङ्मात्रमुदाहृत्य प्रतीयमानामुत्प्रेक्षामुदाहरति
एपमानामा