________________
साहित्यदर्पणः । ..
। दर्शमः
प्रतीयमानोत्प्रेक्षा यथा
'तन्वङ्गयाः स्तनयुग्मेन मुखं न प्रकटीकृतम् ।
हाराय गुणिने स्थान न दत्तमिति लज्जया ॥ १४२ ॥' अत्र 'लजयेवे'तीवाद्यभावात् प्रतीयमानोत्प्रेक्षा । एवमन्यत् । ननु ध्वनिनिरूपणप्रस्तावे 'अलङ्काराणां सर्वेषामपि व्यङ्गयत्वं भवती'त्युक्तम्, सम्प्रति पुनर्विशिष्य कथमुत्प्रेक्षायाः प्रतीयमानात्वमुच्यते ! उच्यते व्यङ्गयोत्प्रेक्षायाम्
'महिलासहस्सभरिए तह हिआए सहसा अमाअंती।
अणुदिणमणण्णकम्मा अंगं तणुअंपि तणुएहि ॥ इत्यादौ उत्प्रेक्षणं विनाऽपि वाक्यविश्रान्तिः, इह तु स्तनयोर्लज्जाया असम्भवात् 'लज्जयेवे' त्युत्प्रेक्षयैवेति व्यङ्ग्यप्रतीयमानयो दः।। अत्र वाच्योत्प्रेक्षायाः षोडशसु भेनेषु मध्ये विशेषमाह१२० तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूपफलहेतुगाः ॥ ९६ ॥ तत्र उक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोभेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडशभेदास्तेषु जात्यादीनां त्रयाणां ये द्वादशभेदास्तेषां प्रत्येकं स्वरूपफलहेतुगत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः, द्रव्यस्य स्वरूपोत्प्रेक्षणमेव सम्भवतीति चत्वार इति मिलित्वा चत्वारिंशद्भेदाः। तत्र स्वरू: पोत्प्रेक्षा, यथा पूर्वोदाहरणेषु-'स्मरस्य विजयस्तम्भः', 'सप्रसवा इव' इत्यादयो जातिगुणगाः । प्रतीयमाना । उत्प्रेक्षा । यथा-तन्वङ्गयाः कृशोदाः । स्तनयुग्मेन पयोधरयुगलेन । गुणिने गुणः सूत्रम्, अन्यत्र दयादाक्षिण्यादिस्तद्वते । हाराय । स्थानमवकाशम् अन्यत्रोपभोगकत्वेनाश्रयम् । न । दत्तम् । इति । लज्जया । मुखम् । न । प्रकटीकृतं विकासितम् । कलिनावृत्तत्वात् निर्मलाभाव एवात्राप्रकटनम् । दानाभावश्च लज्जायाः कारणम् । स्तनयोः सान्द्रत्वेन हारस्यावकाशाभावे चोत्प्रेक्षेयम् ॥ १४२ ॥
लक्ष्यं समर्थयते-अत्रेत्यादिना । स्पष्टम् । इदम्बोध्यम्-लज्जा गुणस्तनिमित्तेय चोत्प्रेक्षा । उदाहरणान्तरविषथे प्राह-एवम् । अन्यत् । 'उदाहरणीयमपि बोध्यमिति शेषः । यथा-'निष्कलङ्क तव यशः पश्यन् खं च कलङ्कि. तम् । न कश्चन दिवा लोकं विभावयति चन्द्रमाः ॥' इत्यत्र 'नूनं मन्ये' इत्यादेरभावात् । 'खं न दर्शयतीति मन्ये' इत्यर्थस्य च प्रतीयमानत्वेनेयं प्रतीयमानोत्प्रेक्षा । इति दिक् ।
भस्याः प्रतीयमानात्वाङ्गीकारे आशङ्कते-नन्वित्यादिना । स्पष्टम् । व्याख्यातपूर्व च पद्यमिदं चतुर्थे परिच्छेदे ।
अयम्भाव:-'तव हृदये वस्तुमिवे'त्युत्प्रेक्षामन्तरापि'महिला' इत्यत्र वाक्यार्थावगमः सम्पन्नमूर्तिः, अत्र तु उत्प्रेक्षापाचकस्येवाधन्यतमस्याध्याहारे एव लज्जायास्तत्र वस्तुतोऽसम्भवात् । इति ।
अस्या भेदान्तरं लक्षयितुमुपक्रमते-अत्रेत्यादिना । स्पष्टम् । अत्रापि विशेष लक्षयति-१२०तत्र तासु द्वात्रिंशद्भिदासु उत्प्रेक्षासु मध्ये इत्यर्थः । वाच्याभिदा वाच्योत्प्रेक्षाया भेदा इति भावः । पुनः । द्रव्यं तन्मूलामुत्प्रेक्षामिति भावः । विना ।सर्वा जातिगुणक्रियामूलाः अत एव-द्वादशप्रकारा इति भावः । स्वरूपफलहेतुगाः खरूपगा गुणगा हेतुगाश्च सत्य इति भावः । त्रिधा । 'भिद्यन्ते'इति शेषः ॥ ९६॥
तदेव खयं ध्याच्यष्टे-तत्रेत्यादि। स्पष्टोऽर्थः । इदं तु बोध्यम्-तादर्थ्यचतुर्थ्यन्तेन नुमुनन्तेन वा पदेन यत्रोत्प्रेक्षा, सा फलोत्प्रेक्षा,हेत्वर्थबोधकेन पदेन यत्रोत्प्रेक्षा सा हेतूत्प्रेक्षा,एताभ्यामितरा स्वरूपोत्प्रेक्षा च सम्भवति । फलहेतुभावेन द्रव्यसम्भावनायाश्च विच्छित्त्यनाधायकत्वान्न द्रव्योत्प्रेक्षाया अपि जातिगुणक्रियोत्प्रेक्षाणामिव फलहेत्वात्मना भेदान्तरभागित्वम् । अत एव-खरूपेण द्रव्योत्प्रेक्षाया अपि भेदान्तरभागित्वमभिहितम् । इति।
विस्तरभयाद् उदाहत्तुं प्रवृत्तोऽप्याह-तत्रेत्यादि । स्पष्टम् । इदम्बोध्यम्-'स्मरस्य विजयस्तम्भ' इत्यत्र जातिस्वरूपोत्प्रेक्षा, 'सप्रसवा' इत्यत्र गुणखरूपोत्प्रेक्षा च । अत एवोक्तम्-इत्यादय इत्यादि । इति ।