________________
परिच्छेदः ] फलोत्प्रेक्षा यथा
रुचिराख्यया व्याख्यया समेतः ।
२१७
'रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ १४३ ॥'
अत्र 'भाख्यातु' मिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् । हेतूत्प्रेक्षा यथा'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ १४४ ॥ ' भत्र दुःखरूप गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् ।
१२१ उक्त्यनुक्त्योर्निमित्तस्य द्विधा तत्र स्वरूपगाः ।
तेषु चत्वारिंशत्सङ्ख्याकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडशभेदाः, ते उत्प्रेक्षानिमित्तस्यो
फलोत्प्रेक्षामुदाहरति- फलोत्प्रेक्षा । यथा-'रामास्तो रामेण रामचन्द्रेणास्तः प्रहृत इति तथोक्तः । 'असु' क्षेपणे इत्यस्मात् क्तः । भाशुगों बाण: । 'आशुगौ वायुविशिखो' इत्यमरः । रावणस्य लङ्कापते राक्षसराजस्य । हृदयं वक्षः । भित्त्वा । अपि । उरगेभ्यः सर्पेभ्यः । 'उरगः पन्नगो भोगी.. ' इत्यमरः । प्रियं 'रावणो युष्माकं कन्या हत्ती मयाऽद्य व्यापादित' इति प्रीतिकरं वाक्यम् । भाख्यातुम् । इव । भुवम् 'भित्वे 'ति पूर्वतोऽनुवृत्तम् । विवेश प्रविवेश । रघुवंशस्येदं पद्यम् ॥ १४३ ॥ '
उत्प्रेक्षितं फलं निर्दिशति - अत्रेत्यादिना । स्पष्टम् । इदम्बोध्यम् - रामवाणस्य पातालप्रवेशो रामस्य वीर्यातिशय. द्योतनार्थस्तत्र प्रियाख्यानमुत्प्रेक्षितम् । इति ।
हेतूत्प्रेक्षामुदाहरति- हेतूत्प्रेक्षा । यथा प्रिये ! ( इदमध्याहार्यम् ) यत्र । त्वाम् । विचिन्वताऽन्वेषयता । गया । उर्व्यां पृथिव्याम् | 'वसुधोर्वी वसुन्धरा ।' इत्यमर: । भ्रष्टं च्युतम् । एकम् । ( विशिष्यबोधनार्थमिदम् ) नूपुरं तदाख्यं चरणाभरणम् । त्वच्चरणारविन्दविश्लेषदुःखात् तव चरणारविन्दं तस्य विश्लेषस्तस्य दुःखं तस्मात् । इव । बद्धमौनं बद्धं दृढप्रतिज्ञं गृहीतं मौनं तूष्णीम्भवनत्रतं येन तथोक्तम् । अदृश्यत दृष्टम् । सा । एषा । स्थली भूमिः । रघुवंशस्येदं पद्यम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजाति छन्दः । रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतां प्रति सीतानूपुरलाभदेशप्रदर्शनपरमिदं वचः । अत्र सीताचरणविश्लेषदुःखत्वेन सीताचरणासम्बन्ध उत्प्रेक्षितः ॥ १४४ ॥
उत्प्रेक्षितमर्थं निर्दिशति-भत्रेत्यादिना । स्पष्टम् । उदाहरणान्तरविषये प्राह एवमन्यदिति । स्पष्टम् । तथा च - द्रव्यस्य स्वरूपोत्प्रेक्षा यथा- 'पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताऽम्बरे चन्द्रमयीव सृष्टिः ॥ ' इत्यत्र 'चन्द्रमयीवे 'ति चन्द्रस्यैकत्वेन द्रव्योत्प्रेक्षा । इति । अत्रान्ये तु प्राहु:जात्यादेरिव द्रव्यस्यापि स्वरूपादिकृतं भेदत्रयम् । तत्र स्वरूपोत्प्रेक्षोदाहृतैव, फलोत्प्रेक्षा यथा-'मध्ये सलिलमादित्यस म्मुखं धूलिधूसरा: । कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने दिने ॥' अत्र हि 'चन्द्रायेवे 'ति । हेतूत्प्रेक्षा यथा- 'जयति शिशिरतायाः कारणं सा हिमांशो त्रिपुरहर किरीटादापतन्ती बुसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इ हेतुः श्वैत्यशैत्यस्य यस्याः ॥' अत्र हिमकरस्य हेतुत्वेनोत्प्रेक्षितम् ।
स्वरूपोत्प्रेक्षाया भेदान्तरं निर्दिशति - १२१ तत्र तासु निरुक्तासूत्प्रेक्षासु मध्ये | स्वरूपगाः स्वरूपोत्प्रेक्षाः । निमित्तस्य गुणक्रिया रूपस्य प्रयोजकस्य । उत्क्त्यनुक्त्योः उक्तावनुक्तौ चेत्यर्थः । द्विधा द्विप्रभेदाः । स्यु'रिति शेषः ।
तदेव विणोति - तेष्वित्यादिना । स्पष्टम् । इदम्बोध्यम्-तथा च द्वात्रिंशद्भेदा वाच्याः स्वरूपोत्प्रेक्षाः, चतुर्विंशतिभेदाश्च वाच्याः फलहेतूत्प्रेक्षा इति मिलित्वाऽमी यथोक्तप्रकाराः सम्पद्यन्ते । इति ।
२८